संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|गोलोकखण्डः| अध्यायः ०९ गोलोकखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० गोलोकखण्डः - अध्यायः ०९ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता वसुदेव-देवकी विवाहवर्णनम् Translation - भाषांतर तत्रैकदा श्रीमथुरापुरे वरेपुरोहितः सर्वयदूत्तमैः कृतः ।शूरेच्छया गर्ग इति प्रमाणिकःसमाययौ सुन्दरराजमन्दिरम् ॥१॥हीराखचिद्धेमलसत्कपाटकंद्विपेन्द्रकर्णाहतभृङ्गनादितम् ।इभस्रवन्निर्झरगण्डधारयासमावृतं मण्डपखण्डमण्डितम् ॥२॥महोद्भटैर्धीरजनैः सकञ्चुकै-र्धनुर्धरैश्चर्म कृपाणपाणिभिः ।रथद्विपाश्वध्वजिनीबलादिभिःसुरक्षितं मण्डलमण्डलीभिः ॥३॥ददर्श गर्भो नृपदेवमाहुकंश्वाफल्किना देवककंससेवितम् ।श्रीशक्रसिंहासन उन्नते परेस्थितं वृतं छत्रवितानचामरैः ॥४॥दृष्ट्वा मुनिं तं सहसाऽऽसनाश्रया-दुत्थाय राजा प्रणनाम यादवैः ।संस्थाप्य सम्पूज्य सुभद्रपीठकेस्तुत्वा परिक्रम्य नतः स्थितोऽभवत् ॥५॥दत्त्वाऽऽशिषं गर्गमुनिर्नृपाय वैपप्रच्छ सर्वं कुशलं नृपादिषु ।श्रीदेवकं प्राह महामना ऋषि-र्महौजसं नीतिविदं यदूत्तमम् ॥६॥श्रीगर्ग उवाच -शौरीं विना भुवि नृपेषु वरस्तु नास्तिचिन्त्यो मया बहुदिनैः किल यत्र तत्र ।तस्मान्नृदेव वसुदेववराय देहिश्रीदेवकीं निजसुतां विधिनोद्वहस्व ॥७॥श्रीनारद उवाच -कृत्वा तदैव पुरि निश्चयनागवल्लींश्रीदेवकं सकलधर्मभृतां वरिष्ठः ।गर्गेच्छया तु वसुदेववराय पुत्रींकृत्वाथ मङ्गलमलं प्रददौ विवाहे ॥८॥कृतोद्वहः शौरिरतीव सुन्दरंरथं प्रयाणे समलङ्कृतं हयैः ।सार्द्धं तया देवकराजकन्ययासमारुहत्कांचनरत्नशोभया ॥९॥स्वसुः प्रियं कर्तुमतीव कंसोजग्राह रश्मींश्चलतां हयानाम् ।उवाह वाहांश्चतुरंगिणीभि-र्वृतः कृपास्नेहपरोऽथ शौरौ ॥१०॥दासीसहस्रं त्वयुतं गजानांसत्पारिबर्हं नियुतं हयानाम् ।लक्षं रथानां च गवां द्विलक्षंप्रादाद्दुहित्रे नृप देवको वै ॥११॥भेरीमृदंगोद्धरगोमुखानांधुन्धुर्यवीणानकवेणुकानाम् ।महत्स्वनोऽभूच्चलतां यदुनांप्रयाणकाले पथि मङ्गलं च ॥१२॥आकाशवागाह तदैव कंसंत्वामष्टमो हि प्रसवोऽञ्जसास्याः ।हन्ता न जानासि च यां रथस्थांरश्मीन् गृहीत्वा वहसेऽबुधस्त्वम् ॥१३॥कुसंगनिष्ठोऽतिखलो हि कंसोहंतुं स्वसारं धिषणां चकार ।कचे गृहीत्वा शितखड्गपाणि-र्गतत्रपो निर्दय उग्रकर्मा ॥१४॥वादित्रकारा रहिता बभूवु-रग्रे स्थिताः स्युश्चकिता हि पश्चात् ।सर्वेषु वा श्वेतमुखेषु सत्सुशौरिस्तमाहाऽऽशु सतां वरिष्ठः ॥१५॥श्रीवसुदेव उवाच -भोजेन्द्र भोजकुलकीर्तिकरस्त्वमेवभौमादिमागधबकासुरवत्सबाणैः ।श्लाघ्या गुणास्तव युधि प्रतियोद्धुकामैःस त्वं कथं तु भगिनीमसिनात्र हन्याः ॥१६॥ज्ञात्वा स्त्रियं किल बकीं प्रतियोद्धुकामांयुद्धं कृतं न भवता नृपनीतिवृत्त्या ।सा तु त्वयापि भगिनीव कृता प्रशांत्यैसाक्षादियं तु भगिनी किमु ते विचारात् ॥१७॥उद्वाहपर्वणि गता च तवानुजा चबाला सुतेव कृपणा शुभदा सदैषा ।योग्योऽसि नात्र मथुराधिप हंतुमेनांत्वं दीनदुःखहरणे कृतचित्तवृत्तिः ॥१८॥श्रीनारद उवाच -नामन्यतेत्थं प्रतिबोधितोऽपिकुसङ्गनिष्ठोऽतिखलो हि कंसः ।तदा हरेः कालगतिं विचार्यशौरिः प्रपन्नं पुनराह कंसम् ॥१९॥श्रीवसुदेव उवाच -नास्यास्तु ते देव भयं कदाचि-द्यद्देववाण्या कथितं च तच्छृणु ।पुत्रान् ददामीति यतो भयं स्या-न्मा ते व्यथाऽस्याः प्रसवप्रजातात् ॥२०॥श्रीनारद उवाच -श्रुत्वा स निश्चित्य वचोऽथ शौरेःकंसः प्रशंस्याऽऽशु गृहं गतोऽभूत् ।शौरिस्तदा देवकराजपुत्र्याभयावृतः सन् गृहमाजगाम ॥२१॥इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे वसुदेवविवाहवर्णनं नाम नवमोऽध्यायः ॥९॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP