गोलोकखण्डः - अध्यायः ०८
गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.
श्रुत्वा तदा शौनक भक्तियुक्तः
श्रीमैथिलो ज्ञानभृतां वरिष्ठः ।
नत्वा पुनः प्राह मुनिं महाद्भुतं
देवर्षिवर्यं हरिभक्तिनिष्ठः ॥१॥
बहुलाश्व उवाच -
त्वया कुलं कौ विशदीकृतं मे
स्वानंददोर्यद्यशसामलेन ।
श्रीकृष्णभक्तक्षणसंगमेन
जनोऽपि सत्स्याद्बहुना कुमुस्वित् ॥२॥
श्रीराधया पूर्णतमस्तु साक्षा-
द्गत्वा व्रजे किं चरितं चकार ।
तद्ब्रूहि मे देवऋषे ऋषीश
त्रितापदुःखात्परिपाहि मां त्वम् ॥३॥
श्रीनारद उवाच -
धन्यं कुलं यन्निमिना नृपेण
श्रीकृष्णभक्तेन परात्परेण ।
पूर्णीकृतं यत्र भवान्प्रजातो
शुक्तौ हि मुक्ताभवनं न चित्रम् ॥४॥
अथ प्रभोस्तस्य पवित्रलीलां
सुमङ्गलां संशृणुतां परस्य ।
अभूत्सतां यो भुवि रक्षणार्थं
न केवलं कंसवधाय कृष्णः ॥५॥
अथैव राधां वृषभानुपत्न्या-
मावेश्य रूपं महसः पराख्यम् ।
कलिन्दजाकूलनिकुञ्जदेशे
सुमन्दिरे सावततार राजन् ॥६॥
घनावृते व्योम्नि दिनस्य मध्ये
भाद्रे सिते नागतिथौ च सोमे ।
अवाकिरन्देवगणाः स्फुरद्भि-
स्तन्मन्दिरे नन्दनजैः प्रसूनैः ॥७॥
राधावतारेण तदा बभूवु-
र्नद्योऽमलाभाश्च दिशः प्रसेदुः ।
ववुश्च वाता अरविन्दरागैः
सुशीतलाः सुन्दरमन्दयानाः ॥८॥
सुतां शरच्चन्द्रशताभिरामां
दृष्ट्वाऽथ कीर्तिर्मुदमाप गोपी ।
शुभं विधायाशु ददौ द्विजेभ्यो द्विलक्षमानन्दकरं गवां च ॥९॥
प्रेङ्खे खचिद्रत्नमयूखपूर्णे
सुवर्णयुक्ते कृतचन्दनाङ्गे ।
आन्दोलिता सा ववृधे सखीजनै-
र्दिने दिने चंद्रकलेव भाभिः ॥१०॥
यद्दर्शनं देववरैः सुदुर्लभं
यज्ञैरवाप्तं जनजन्मकोटिभिः ।
सविग्रहां तां वृषभानुमन्दिरे
ललन्ति लोका ललनाप्रलालनैः ॥११॥
श्रीरासरङ्गस्य विकासचन्द्रिका
दीपावलीभिर्वृषभानुमन्दिरे ।
गोलोकचूडामणिकण्ठभूषणां
ध्यात्वा परां तां भुवि पर्यटाम्यहम् ॥१२॥
श्रीबहुलाश्व उवाच -
वृषभानोरहो भाग्यं यस्य राधा सुताभवत् ।
कलावत्या सुचन्द्रेण किं कृतं पूर्वजन्मनि ॥१३॥
श्रीनारद उवाच -
नृगपुत्रो महाभाग सुचन्द्रो नृपतीश्वरः ।
चक्रवर्ती हरेरंशो बभूवातीव सुन्दरः ॥१४॥
पितॄणां मानसी कन्यास्तिस्रोऽभूवन्मनोहराः ।
कलावती रत्नमाला मेनका नाम नामतः ॥१५॥
कलावतीं सुचन्द्राय हरेरंशाय धीमते ।
वैदेहाय रत्नमालां मेनकां च हिमाद्रये ।
पारिबर्हेण विधिना स्वेच्छाभिः पितरो ददुः ॥१६॥
सीताभूद्रत्नमालायां मेनकायां च पार्वती ।
द्वयोश्चरित्रं विदितं पुराणेषु महामते ॥१७॥
सुचन्द्रोऽथ कलावत्या गोमतीतीरजे वने ।
दिव्यैर्द्वादशभिर्वर्षैस्तताप ब्रह्मणस्तपः ॥१८॥
अथ विधिस्तमागत्य वरं ब्रूहीत्युवाच ह ।
श्रुत्वा वल्मीकदेशाच्च निर्ययौ दिव्यरूपधृक् ॥१९॥
तं नत्वोवाच मे भूयाद्दिव्यं मोक्षं परात्परम् ।
तच्छ्रुत्वा दुःखिता साध्वी विधिं प्राह कलावती ॥२०॥
पतिरेव हि नारीणां दैवतं परमं स्मृतम् ।
यदि मोक्षमसौ याति तदा मे का गतिर्भवेत् ॥२१॥
एनं विना न जीवामि यदि मोक्षं प्रदास्यसि ।
तुभ्यं शापं प्रदास्यामि पतिविक्षेपविह्वला ॥२२॥
श्रीब्रह्मोवाच -
त्वच्छापाद्भयभीतोऽहं मे वरोऽपि मृषा न हि ।
तस्मात्त्वं प्राणपतिना सार्धं गच्छ त्रिविष्टपम् ॥२३॥
भुक्त्वा सुखानि कालेन युवां भूमौ भविष्यथः ।
गंगायमुनयोर्मध्ये द्वापरान्ते च भारते ॥२४॥
युवयो राधिका साक्षात्परिपूर्णतमप्रिया ।
भविष्यति यदा पुत्री तदा मोक्षं गमिष्यथः ॥२५॥
श्रीनारद उवाच -
इत्थं ब्रह्मवरेणाथ दिव्येनामोघरूपिणा ।
कलावतीसुचन्द्रौ च भूमौ तौ द्वौ बभूवतुः ॥२६॥
कलावती कान्यकुब्जे भलन्दननृपस्य च ।
जातिस्मरा ह्यभूद्दिव्या यज्ञकुण्डसमुद्भवा ॥२७॥
सुचन्द्रो वृषभान्वाख्यः सुरभानुगृहेऽभवत् ।
जातिस्मरो गोपवरः कामदेव इवापरः ॥२८॥
सम्बन्धं योजयामास नन्दराजो महामतिः ।
तयोश्च जातिस्मरयोरिच्छतोरिच्छया द्वयोः ॥२९॥
वृषभानोः कलावत्या आख्यानं शृणुते नरः ।
सर्वपापविनिर्मुक्तः कृष्णसायुज्यमाप्नुयात् ॥३०॥
इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे श्रीराधिकाजन्मवर्णनं नाम अष्टमोऽध्यायः ॥८॥
N/A
References : N/A
Last Updated : May 19, 2021
TOP