संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|गोलोकखण्डः| अध्यायः ०४ गोलोकखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० गोलोकखण्डः - अध्यायः ०४ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता नन्द, गोपी परिचय Translation - भाषांतर नन्दोपनन्दभवने श्रीदामा सुबलः सखा ।स्तोककृष्णोऽर्जुनोंऽशश्च नवनन्दगृहे विधे ॥१॥विशालार्षभतेजस्वी देवप्रस्थवरूथपाः ।भविष्यन्ति सखायो मे व्रजे षड् वृषभानुषु ॥२॥श्रीब्रह्मोवाच -कस्य वै नन्दपदवी कस्य वै वृषभानुता ।वद देवपते साक्षादुपनन्दस्य लक्षणम् ॥३॥श्रीभगवानुवाच -गाः पालयन्ति घोषेषु सदा गोवृत्तयोऽनिशम् ।ते गोपाला मया प्रोक्तास्तेषां त्वं लक्षणं श्रृणु ॥४॥नन्दःप्रोक्तः सगोपालैर्नवलक्षगवां पतिः ।उपनन्दश्च कथितः पंचलक्षगवां पतिः ॥५॥वृषभानुः स उक्तो यो दशलक्षगवां पतिः ।गवां कोटिर्गृहे यस्य नन्दराजः स एवहि ॥६॥कोट्यर्धं च गवां यस्य वृषभानुवरस्तु सः ।एतादृशौ व्रजे द्वौ तु सुचन्द्रो द्रोण एवहि ॥७॥सर्वलक्षणलक्ष्याढ्यौ गोपराजौ भविष्यतः ।शतचन्द्राननानां च सुन्दरीणां सुवाससाम् ।गोपीनां मद्व्रजे रम्ये शतयूथो भविष्यति ॥८॥श्रीब्रह्मोवाच -हे दीनबंधो हे देव जगत्कारणकारण ।यूथस्य लक्षणं सर्वं तन्मे ब्रूहि परेश्वर ॥९॥श्रीभगवानुवाच -अर्बुदं दशकोटीनां मुनिभिः कथितं विधे ।दशार्बुदं यत्र भवेत्सोऽपि यूथः प्रकथ्यते ॥१०॥गोलोकवासिन्यः काश्चित्काश्चिद्वै द्वारपालिकाः ।शृङ्गारप्रकराः काश्चित्काश्चिच्छस्योपकारकाः ॥११॥पार्षदाख्यास्तथा काश्चिच्छ्रीवृन्दावनपालिकाः ।गोवर्धननिवासिन्यः काश्चित्कुञ्जविधायिकाः ॥१२॥मे निकुञ्जनिवासिन्यो भविष्यन्ति व्रजे मम ।एवं च यमुनायूथो जाह्नवीयूथ एव च ॥१३॥रमाया मधुमाधव्या विरजायास्तथैव च ।ललिताया विशाखाया मायायूथो भविष्यति ॥१४॥एवं हृष्टसखीनां च सखीनां किल षोडश ।द्वात्रिंशच्च सखीनां च यूथा भाव्या व्रजे विधे ॥१५॥श्रुतरूपा ऋषिरूपा मैथिलाः कोशलास्तथा ।अयोध्यापुरवासिन्यो यत्र सीतापुलिन्दकाः ॥१६॥यासां मया बरो दत्तो पूर्वे पुर्वे युगे युगे ।तासां यूथा भविष्यन्ति गोपीनां मद्व्रजे शुभे ॥१७॥श्रीब्रह्मोवाच -एताः कथं व्रजे भाव्याः केन पुण्येन कैर्वरैः ।दुर्लभं हि पदं तासां योगिभिः पुरुषोत्तम ॥१८॥श्रीभगवानुवाच -श्वेतद्वीपे च भूमानं श्रुतयस्तुष्टुवुः परम् ।उशतीभिर्गिराभिश्च प्रसन्नोऽभूत्सहस्रपात् ॥१९॥श्रीहरिरुवाच -वरं वृणीत यूयं वै यन्मनोवाञ्छितं महत् ।येषां प्रसन्नोऽहं साक्षात्तेषां किं दुर्लभं हि तत् ॥२०॥श्रुतय ऊचुः -वाङ्मनोगोचरातीतं ततो न ज्ञायते तु तत् ।आनन्दमात्रमिति यद्वदंतीह पुराविदः ॥२१॥तद्रूपं दर्शयास्माकं यदि देयो वरो हि नः ।श्रुत्वैतद्दर्शयामास स्वं लोकं प्रकृतेः परम् ॥२२॥केवलानुभवानन्दमात्रमक्षरमव्ययम् ।यत्र वृंदावनं नाम वनं कामदुघैर्द्रुमैः ॥२३॥मनोरमनिकुञ्जाढ्यं सर्वर्तुसुखसंयुतम् ।यत्र गोवर्धनो नाम सुनिर्झरदरीयुतः ॥२४॥रत्नधातुमयः श्रीमान् सुपक्षिगणसंवृतः ।यत्र निर्मलपानीया कालिन्दी सरितां वरा ।रत्नबद्धोभयतटी हंसपद्मादिसंकुला ॥२५॥नानारासरसोन्मत्तं यत्र गोपीकदंबकम् ।तत्कदंबकमध्यस्थः किशोराकृतिरच्युतः ॥२६॥दर्शयित्वा च ताः प्राह ब्रूत किं करवाणि वः ।दृष्टो मदीयो लोकोऽयं यतो नास्ति परं वरम् ॥२७॥श्रीश्रुतय ऊचुः -कन्दर्पकोटिलावण्ये त्वयि दृष्टे मनांसि नः ।कामिनीभावमासाद्य स्मरक्षिप्तान्यसंशयम् ॥२८॥यया त्वल्लोकवासिन्यः कामतत्त्वेन गोपिकाः ।भजन्ति रमणं मत्त्वा चिकीर्षाजनिनस्तथा ॥२९॥श्रीहरिरुवाच -दुर्लभो दुर्घटश्चैव युष्माकं तु मनोरथः ।मयानुमोदितः सम्यक् सत्यो भवितुमर्हति ॥३०॥आगामिनि विरिंचौ तु जाते सृष्ट्यर्थमुद्यते ।कल्पे सारस्वतेऽतीते व्रजे गोप्यो भविष्यथ ॥३१॥पृथिव्यां भारते क्षेत्रे माथुरे मम मण्डले ।वृन्दावने भविष्यामि प्रेयान्वो रासमण्डले ॥३२॥जारधर्मेण सुस्नेहं सुदृढं सर्वतोऽधिकम् ।मयि संप्राप्य सर्वा हि कृतकृत्या भविष्यथ ॥३३॥श्रीभगवानुवाच -ताश्च गोप्यो भविष्यन्ति पूर्वकल्पवरान्मम ।अन्यासां चैव गोपीनां लक्षणं शृणु तद्विधे ॥३४॥सुराणां रक्षणार्थाय राक्षसानां वधाय च ।त्रेतायां रामचंद्रोऽभूद्वीरो दशरथात्मजः ॥३५॥सीतास्वयंवरं गत्वा धनुर्भङ्गं चकार सः ।उवाह जानकीं सीतां रामो राजीवलोचनः ॥३६॥तं दृष्ट्वा मैथिलाः सर्वाः पुरन्ध्र्यो मुमुहुर्विधे ।रहस्यूचुर्महात्मानं भर्ता नो भव हे प्रभो ॥३७॥तामाह राघवेन्द्रस्तु मा शोकं कुरुत स्त्रियः ।द्वापरान्ते करिष्यामि भवतीनां मनोरथम् ॥३८॥तीर्थं दानं तपः शौचं समाचरत तत्त्वतः ।श्रद्धया परया भक्त्या व्रजे गोप्यो भविष्यथ ॥३९॥इति ताभ्यो वरं दत्त्वा श्रीरामः करुणानिधिः ।कोसलान् प्रययौ धन्वी तेजसा जितभार्गवः ॥४०॥मार्गे च कौसला नार्यो रामं दृष्ट्वातिसुंदरम् ।मनसा वव्रिरे तं वै पतिं कन्दर्पमोहनम् ॥४१॥मनसापि वरं रामो ददौ ताभ्यो ह्यशेषवित् ।मनोरथं करिष्यामि व्रजे गोप्यो भविष्यथ ॥४२॥आगतं सीतया सार्धं सैनिकैः सहितं रघुम् ।अयोध्यापुरवासिन्यः श्रुत्वा द्रष्टुं समाययुः ॥४३॥वीक्ष्य तं मोहमापन्ना मूर्छिताः प्रेमविह्वलाः ।तेपुस्तपस्ताः सरयूतीरे रामधृतव्रताः ॥४४॥आकाशवागभूत्तासां द्वापरान्ते मनोरथः ।भविष्यति न संदेहः कालिंदीतीरजे वने ॥४५॥पितुर्वाक्याद्यदा रामो दंडकाख्यं वनं गतः ।चचार सीतया सार्धं लक्ष्मणेन धनुष्मता ॥४६॥गोपालकोपासकाः सर्वे दंडकारण्यवासिनः ।ध्यायन्तः सततं मां वै रासार्थं ध्यानतत्पराः ॥४७॥येषामाश्रममासाद्य धनुर्बाणधरो युवा ।तेषां ध्याने गतो रामो जटामुकुटमंडितः ॥४८॥अन्याकृतिं ते तं वीक्ष्य परं विस्मितमानसाः ।ध्यानादुत्थाय ददृशुः कोटिकन्दर्पसन्निभम् ॥४९॥ऊचुस्तेऽयं तु गोपालो वंशीवेत्रे विना प्रभुः ।इत्थं विचार्य मनसा नेमुश्चक्रुः स्तुतिं पराम् ॥५०॥वरं वृणीत मुनयः श्रीरामस्तानुवाच ह ।यथा सीता तथा सर्वे भूयाःस्म इति वादिनः ॥५१॥श्रीराम उवाच -यथा हि लक्ष्मणो भ्राता तथा प्रार्थ्यो वरो यदि ।अद्यैव सफलो भाव्यो भवद्भिर्मत्प्रसंगतः ॥५२॥सीतोपमेयवाक्येन दुर्घटो दुर्लभो वरः ।एकपत्नीव्रतोऽहं वै मर्यादापुरुषोत्तमः ॥५३॥तस्मात्तु मद्वरेणापि द्वापरान्ते भविष्यथ ।मनोरथं करिष्यामि भवतां वाञ्छितं परम् ॥५४॥इति दत्त्वा वरं रामस्ततः पंचवटीं गतः ।पर्णशाला समासाद्य वनवासं चकार ह ॥५५॥तद्दर्शनस्मररुजः पुलिन्द्यः प्रेमविह्वलाः ।श्रीमत्पादरजो धृत्वा प्राणांस्त्यक्तुं समुद्युताः ॥५६॥ब्रह्मचारीवपुर्भूत्वा रामस्तत्र समागतः ।उवाच प्राणसंत्यागं मा कुरुत स्त्रियो वृथा ॥५७॥वृन्दावने द्वापरान्ते भविता वो मनोरथः ।इत्युक्त्वा ब्रह्मचारी तु तत्रैवान्तरधीयत ॥५८॥अथ रामो वानरेन्द्रै रावणादीन्निशाचरान् ।जित्वा लङ्कामेत्य सीता पुष्पकेण पुरीं ययौ ॥५९॥सीतां तत्त्याज राजेन्द्रो वने लोकापवादतः ।अहो सतामपि भुवि भवनं भूरि दुःखदम् ॥६०॥यदा यदाकरोद्यज्ञं रामो राजीवलोचनः ।तदा तदा स्वर्णमयीं सीतां कृत्वा विधानतः ॥६१॥यज्ञसीतासमूहोऽभून्मन्दिरे राघवस्य च ।ताश्चैतन्यघना भूत्वा रन्तुं रामं समागताः ॥६२॥ता आह राघवेशेन्द्रो नाहं गृह्णामि हे प्रियाः ।तदोचुस्ताः प्रेमपरा रामं दशरथात्मजम् ॥६३॥कथं चास्मान्न गृह्णासि भजन्तीर्मैथिलीः सतीः ।अर्धाङ्गीर्यज्ञकालेषु सततं कार्यसाधनीः ॥६४॥धर्मिष्ठस्त्वं श्रुतिधरोऽधर्मवद्भाषसे कथम् ।करं गृहीत्वा त्यजसि ततः पापमवाप्यसि ॥६५॥श्रीराम उवाच -समीचीनं वचस्सत्यो युष्माभिर्गदितं च मे ।एकपत्नीव्रतोऽहं हि राजर्षिः सीतयैकया ॥६६॥तस्माद्यूयं द्वापरान्ते पुण्ये वृन्दावने वने ।भविष्यथ करिष्यामि युष्माकं तु मनोरथम् ॥६७॥श्रीभगवान् उवाच -ता व्रजेऽपि भविष्यन्ति यज्ञसीताश्च गोपिकाः ।अन्यासां चैव गोपीनां लक्षणं शृणु तद्विधे ॥६८॥इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे भगवद्ब्रह्म संवादे उद्योगप्रश्नवर्णनं नाम चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP