संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|गर्ग संहिता|गोलोकखण्डः| अध्यायः ११ गोलोकखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० गोलोकखण्डः - अध्यायः ११ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कृष्णचन्द्रजन्मवर्णनम् Translation - भाषांतर कृष्णचन्द्रजन्मवर्णनम्श्रीनारद उवाच -परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान् स्वयम् ।विवेश वसुदेवस्य मनः पूर्वं परात्परः ॥१॥सूर्येन्दुवह्निसंकाशो वसुदेवो महामनाः ।बभूवात्यन्तमहसा साक्षाद्यज्ञ इवापरः ॥२॥देवक्यामागते कृष्णे सर्वेषामभयंकरे ।रराज तेन सा गेहे घने सौदामिनी यथा ॥३॥तेजोवतीं च तां वीक्ष्य कंसः प्राह भयातुरः ।प्राप्तोऽयं प्राणहन्ता मे पूर्वमेषा न चेदृशी ॥४॥जातमात्रं हनिष्यामीत्युक्त्वाऽऽस्ते भयविह्वलः ।पश्यन्सर्वत्र च हरिं पूर्वशत्रुं विचिन्तयन् ॥५॥अहो वैरानुबन्धेन साक्षात्कृष्णोऽपि दृश्यते ।तस्माद्वैरं प्रकुर्वन्ति कृष्णप्राप्त्यर्थमासुराः ॥६॥अथ ब्रह्मादयो देवा मुनीन्द्रैरस्मदादिभिः ।शौरिगेहोपरि प्राप्ताः स्तवं चक्रुः प्रणम्य तम् ॥७॥देवा ऊचुः -यज्जागरादिषु भवेषु परं ह्यहेतु-र्हेतुः स्विदस्य विचरन्ति गुणाश्रयेण ।नैतद्विशन्ति महदिन्द्रियदेवसंघा-स्तस्मै नमोऽग्निमिव विस्तृतविस्फुलिंगाः ॥८॥नैवेशितुं प्रभुरयं बलिनां बलीयान्माया न शब्द उत नो विषयीकरोति ।तद्ब्रह्म पूर्णममृतं परमं प्रशान्तंशुद्धं परात्परतरं शरणं गताः स्मः ॥९॥अंशांशकांशककलाद्यवतारवृन्दै-रावेशपूर्णसहितैश्च परस्य यस्य ।सर्गादयः किल भवन्ति तमेव कृष्णंपूर्णात्परं तु परिपूर्णतमं नताः स्मः ॥१०॥मन्वन्तरेषु च युगेषु गतागतेषुकल्पेषु चांशकलया स्ववपुर्बिभर्षि ।अद्यैव धाम परिपूर्णतमं तनोषिधर्मं विधाय भुवि मंगलमातनोषि ॥११॥यद्दुर्लभं विशदयोगिभिरप्यगम्यंगम्यं द्रवद्भिरमलाशयभक्तियोगैः ।आनंदकंद चरतस्तव मन्दयानंपादारविन्दमकरन्दरजो दधामः ॥१२॥पूर्वं तथात्र कमनीयवपुष्मयं त्वांकंदर्पकोटिशतमोहनमद्भुतं च ।गोलोकधामधिषणद्युतिमादधानंराधापतिं धरणिधुर्यधनं दधामः ॥१३॥श्रीनारद उवाच -नत्वा हरिं तदा देवा ब्रह्माद्या मुनिभिः सह ।गायन्तस्तं प्रशंसन्तः स्वधामानि ययुर्मुदा ॥१४॥अथ मैथिलराजेन्द्र जन्मकाले हरेः सति ।अंबरं निर्मलं भूतं निर्मलाश्च दिशो दश ॥१५॥उज्ज्वलास्तारका जाताः प्रसन्नं भूमिमंडलम् ।नदा नद्यः समुद्राश्च प्रसन्नापः सरोवराः ॥१६॥सहस्रदलपद्मानि शतपत्राणि सर्वतः ।विचकानि मरुत्स्पर्शैः पतद्गन्धिरजांसि च ॥१७॥तेषु नेदुर्मधुकरा नदन्तश्चित्रपक्षिणः ।शीतला मन्दयानाश्च गंधाक्ता वायवो ववुः ॥१८॥ऋद्धा जनपदा ग्रामा नगरा मंगलायनाः ।देवा विप्रा नगा गावो बभूवुः सुखसंवृताः ॥१९॥देवदुन्दुभयो नेदुर्जयध्वनिसमाकुलाः ।यत्र तत्र महाराज सर्वेषां मंगलं परम् ॥२०॥विद्याधराश्च गंधर्वाः सिद्धकिन्नरचारणाः ।जगुः सुनायका देवास्तुष्टुवुः स्तुतिभिः परम् ॥२१॥ननृतुर्दिवि गन्धर्वा विद्याधर्य्यो मुदान्विताः ।पारिजातकमन्दारमालतीसुमनांसि च ॥२२॥मुमुचुर्देवमुख्याश्च गर्जन्तश्च घना जले ।भाद्रे बुधे कृष्णपक्षे धात्रर्क्षे हर्षणे वृषे ।कर्णेऽष्टम्यामर्द्धरात्रे नक्षत्रेशमहोदये ॥२३॥अन्धकारावृते काले देवक्यां शौरिमन्दिरे ।आविरासीद्धरिः साक्षादरण्यामध्वरेऽग्निवत् ॥२४॥स्फुरदक्षविचित्रहारिणंविलसत्कौस्तुभरत्नधारिणम् ।परिधिद्युतिनूपुरांगदंधृतबालार्ककिरीटकुंडलम् ॥२५॥चलदद्भुतवन्हिकंकणंतडिदूर्जितगुणमेखलाञ्चितम् ।मधुभृद्ध्वनिपद्ममालिनंनवजांबूनददिव्यवाससम् ॥२६॥सतडित्घनदिव्यसौभगंचलनीलालकवृन्दभृन्मुखम् ।चलदंशु तमोहरं परंशुभदं सुन्दरमंबुजेक्षणम् ॥२७॥कृतपत्रविचित्रमंडनंसततं कोटिमनोजमोहनम् ।परिपूर्णतमं परात्परंकलवेणुध्वनिवाद्यतत्परम् ॥२८॥तमवेक्ष्य सुतं यदूत्तमोहरिजन्मोत्सवफुल्ललोचनः ।अथ विप्रजनेषु चाशु वैनियुतं सन्मनसा गवां ददौ ॥२९॥हरिमानकदुंदुभिः स्तवैःस्तवनं तं प्रणिपत्य विस्मितः ।अकरोदुदितप्रभूदयोगतभीः सूतिगृहे कृतांजलिः ॥३०॥श्रीवसुदेव उवाच -एको यः प्रकृतिगुणैरनेकधासिहर्ता त्वं जनक उतास्य पालकस्त्वम् ।निर्लिप्तः स्फटिक इवाद्य देहवर्णै-स्तस्मै श्रीभुवनपते नमामि तुभ्यम् ॥३१॥एधःसु त्वनल इवात्र वर्तमानोयोऽन्तस्थो बहिरपि चाम्बरं यथा हि ।आधारो धरणिरिवास्य सर्वसाक्षीतस्मै ते नम इव सर्वगो नभस्वान् ॥३२॥भूभारोद्भटहरणार्थमेव जातोगोदेवद्विजनिजवत्सपालकोऽसि ।गेहे मे भुवि पुरुषोत्तमोत्तमस्त्वंकंसान्मां भुवनपते प्रपाहि पापात् ॥३३॥श्रीनारद उवाच -परिपूर्णतमं साक्षाच्छ्रीकृष्णं श्यामसुन्दरम् ।ज्ञात्वा नत्वाथ तं प्राह देवकी सर्वदेवता ॥३४॥श्रीदेवक्युवाच -हे कृष्ण हे विगणिताण्डपते परेशगोलोकधामधिषणध्वज आदिदेव ।पूर्णेश पूर्ण परिपूर्णतम प्रभो मांत्वं पाहि परमेश्वर कंसपापात् ॥३५॥श्रीनारद उवाच -तच्छ्रुत्वा भगवान्कृष्णः परिपूर्णतमः स्वयम् ।सस्मितो देवकीं शौरिं प्राह स वृजिनार्दनः ॥३६॥श्रीभगवानुवाच -इयं च पृश्निः पतिदेवता चत्वं पूर्वसर्गे सुतपा प्रजार्थी ।ब्रह्माज्ञया दिव्यतपो युवाभ्यांकृतं परं निर्जलभोजनाभ्याम् ॥३७॥कालेषु मन्वन्तरके व्यतीतेतपः परं तत्तपसः प्रजार्थी ।तदा प्रसन्नो युवयोरभूवंवरं परं ब्रूत मया तदोक्तम् ॥३८॥श्रुत्वा युवाभ्यां कथितं तदैवभूयात्सुतस्त्वत्सदृशः किलावयोः ।तथास्तु चोक्त्वाथ गते मयि प्रजा-पती ह्यभूत स्वकृतेन दम्पती ॥३९॥न मत्समः कोऽपि सुतो जगत्यलंविचार्य तद्वामभवं परेश्वरः ।श्रीपृश्निगर्भो भुवि विश्रुतः पुन-र्द्वितीयकालेऽहमुपेन्द्रवामनः ॥४०॥तथाऽभवं ह्यद्यतमे परात्परोनीत्वाऽथ मां प्रापय नन्दमन्दिरम्अतो न भूयाद्भयमौग्रसेनतःसुतां समादाय सुखी भविष्यथः ॥४१॥श्रीनारद उवाच -तूष्णीं भूत्वा हरिस्तत्र तद्भूयः पश्यतोस्तयोः ।दृश्यं ह्यप्रकटं कृत्वा बालोऽभूत्कौ यथा नटः ॥४२॥प्रेंखे धृत्वाऽथ तं शौरिर्यावद्गन्तुं समुद्यतः ।तवाद्व्रजे नन्दपत्न्यां योगमायाऽजनि स्वतः ॥४३॥तया शयाने विश्वस्मिन् रक्षकेषु स्वपत्सु च ।द्वार उद्घाटिताः सर्वाः प्रस्फुटच्छृङ्खलार्गलाः ॥४४॥निर्गते वसुदेवे च मूर्ध्नि श्रीकृष्णशोभिते ।सूर्योदये यथा सद्यस्तमोनाशोऽभवत्स्वतः ॥४५॥घनेषु व्योम्नि वर्षत्सु सहस्रवदनः स्वराट् ।निवारयन्दीर्घफणैरासारं शौरिमन्वगात् ॥४६॥ऊर्म्यावर्ताकुलावेगैः सिंहसर्पादिवाहिनी ।सद्यो मार्गं ददौ तस्मै कालिन्दी सरितां वरा ॥४७॥नन्दव्रजं समेत्यासौ प्रसुप्तं सर्वतः परम् ।शिशुं यशोदाशयने निधायाशु ददर्श ताम् ॥४८॥तत्सुतां समुपादाय पुनर्गेहाज्जगाम सः ।तीर्त्वा श्रीयमुनां शौरिः स्वागारे पूर्ववत्स्थितः ॥४९॥सुतं सुतां वा जातं चाज्ञात्वा गोपी यशोमती ।परिश्रान्ता स्वशयने सुष्वापानन्दनिद्रया ॥५०॥अथ बालध्वनिं श्रुत्वा रक्षकाः समुपस्थिताः ।ऊचुः कंसाय वीराय गत्वा तद्राजमन्दिरम् ॥५१॥सूतीगृहं त्वरं प्रागात्कंसो वै भयकातरः ।स्वसाथ भ्रातरं प्राह रुदती दीनवत्सती ॥५२॥श्रीदेवक्युवाच -सुतामेकां देहि मे त्वं पुत्रेषु प्रमृतेषु च ।स्त्रियं हन्तुं न योग्योऽसि भ्रातस्त्वं दीनवत्सलः ॥५३॥तेऽनुजाहं हतसुता कारागारे निपातिता ।दातुमर्हसि कल्याण कल्याणीं तनुजां च मे ॥५४॥श्रीनारद उवाच -अश्रुमुख्या मोहितया समाच्छाद्यात्मजां बहु ।प्रार्थितोऽङ्काद्विनिर्भर्त्स्य तां स आचिच्छिदे खलः ॥५५॥कुसङ्गनिरतः पापः खलो यदुकुलाधमः ।स्वसुः सुतां शिलापृष्ठे गृहीत्वांघ्र्योर्न्यपातयत् ॥५६॥कंसहस्तात्समुत्पत्य त्वरं सा चांबरे गता ।शतपत्रे रथे दिव्ये सहस्रहयसेविते ॥५७॥चामरांदोलिते शुभ्रे स्थितादृश्यत दिव्यदृक् ।सायुधाष्टभुजा माया पार्षदैः परिसेविता ।शतसूर्यप्रतीकाशा कंसमाह घनस्वना ॥५८॥श्रीयोगमायोवाच -परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान् स्वयम् ।जातः क्व वा तु ते हन्ता वृथा दीनां दुनोषि वै ॥५९॥श्रीनारद उवाच -इत्युक्त्वा तं ततो देवी गता विन्ध्याचले गिरौ ।योगमाया भगवती बहुनामा बभूव ह ॥६०॥अथ कंसो विस्मितोऽभूच्छ्रुत्वा मायावचः परम् ।देवकीं वसुदेवं च मोचयामास बन्धनात् ॥६१॥कंस उवाच -पापोऽहं पापकर्माहं खलो यदुकुलाधमः ।युष्मत्पुत्रप्रहन्तारं क्षमध्वं मे कृतं भुवि ॥६२॥हे स्वसः शृणु मे शौरे मन्ये कालकृतं त्विदम् ।येन निश्चाल्यमानो वा वायुनेव घनावलेः ॥६३॥विश्वस्तोऽहं देववाक्ये देवास्तेऽपि मृषागिरः ।न जानामि क्व मे शत्रुर्जातः कौ कथितोऽनया ॥६४॥श्रीनारद उवाच -इत्थं कंसस्तदंघ्र्योश्च पतितोऽश्रुमुखो रुदन् ।चकार सेवां परमां सौहृदं दर्शयंस्तयोः ॥६५॥अहो श्रीकृष्णचन्द्रस्य परिपूर्णतमप्रभोः ।दानदक्षैः कटाक्षैश्च किन्न स्याद्भूमिमंडले ॥६६॥प्रातःकाले तदा कंसः प्रलंबादीन्महासुरान् ।समाहूय खलस्तेभ्योऽवददुक्तं च मायया ॥६७॥कंस उवाच -जातो मे ह्यंतकृतद्भूमौ कथितो योगमायया ।अनिर्दशान्निर्दशांश्च शिशून्यूयं हनिष्यथ ॥६८॥दैत्या ऊचुः -सज्जस्य धनुषो युद्धे भवता द्वंद्वयोधिना ।टंकारेणोद्गता देवा मन्यसे तैः कथं भयम् ॥६९॥गोविप्रसाधुश्रुतयो देवा धर्मादयः परे ।विष्णोश्च तनवो ह्येषां नाशे दैत्यबलं स्मृतम् ॥७०॥जातो यदि महाविष्णुस्ते शत्रुर्यो महीतले ।अयं चैतद्वधोपायो गवादीनां विहिंसनम् ॥७१॥इत्थं महोद्भटा दुष्टा दैतेयाः कंसनोदिताः ।दुद्रुवुः खं गवादिभ्यो जघ्नुर्जातांश्च बालकान् ॥७२॥आसमुद्राद्भूमितले विशंतश्च गृहे गृहे ।कामरूपधरा दैत्याश्चेरुः सर्पा इवाभवन् ॥७३॥उत्पथा उद्भटा दैत्यास्तत्रापि कंसनोदिताः ।कपिः सुरापोऽलिहतो भूतग्रस्त इवाभवन् ॥७४॥वैदेह मैथिल नरेन्द्र उपेन्द्रभक्तधर्मिष्ठमुख्य सुतपो जनक प्रतापिन् ।एतत्सतां च भुवि हेलनमंग राजन्सर्वं छिनत्ति बहुलाश्व चतुष्पदार्थान् ॥७५॥इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे श्रीकृष्णचन्द्रजन्मवर्णनं नाम एकादशोऽध्यायः ॥११॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP