संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|गोलोकखण्डः| अध्यायः १५ गोलोकखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० गोलोकखण्डः - अध्यायः १५ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता नंदपत्न्या विश्वरूपदर्शनं श्रीकृष्णनामकरणम् Translation - भाषांतर प्रेंखे हरिं कनकरत्नमये शयानंश्यामं शिशुं जनमनोहरमन्दहासम् ।दृष्ट्यार्तिहारि मषिबिंदुधरं यशोदास्वांके चकार धृतकज्जलपद्मनेत्रम् ॥१॥पादं पिबंतमतिचंचलमद्भुतांगंवक्त्रैर्विनीलनवकोमलकेशबंधैः ।श्रीमन्नृकेशरिनखस्फुरदरर्द्धचन्द्रंतं लालयन्त्यतिघृणा मुदमाप गोपी ॥२॥बालस्य पीतपयसो नृप जृम्भितस्यतत्त्वानि चास्य वदने सकलेऽविराजन् ।माता सुराधिपमुखैः प्रयुतं च सर्वंदृष्ट्वा परं भयमवाप निमीलिताक्षी ॥३॥राजन्परस्य परिपूर्णतमस्य साक्षा-त्कृष्णस्य विश्वमखिलं कपटेन सा हि ।नष्टस्मृतिः पुनरभूत्स्वसुते घृणार्ताकिं वर्णयामि सुतपो बहु नंदपत्न्याः ॥४॥श्रीबहुलाश्व उवाच -नंदो यशोदया सार्द्धं किं चकार तपो महत् ।येन श्रीकृष्णचन्द्रोऽपि पुत्रीभूतो बभूव ह ॥५॥श्रीनारद उवाच -अष्टानां वै वसूनां च द्रोणो मुख्यो धरापतिः ।अनपत्यो विष्णुभक्तो देवराज्यं चकार ह ॥६॥एकदा पुत्रकांक्षी च ब्रह्मणा नोदितो नृप ।मंदराद्रिं गतस्तप्तुं धरया भार्यया सह ॥७॥कंदमूलफलाहारौ ततः पर्णाशनौ ततः ।जलभक्षौ ततस्तौ तु निर्जलौ निर्जने स्थितौ ॥८॥वर्षाणामर्बुदे याते तपस्तत्तपतोर्द्वयोः ।ब्रह्मा प्रसन्नस्तावेत्य वरं ब्रूहीत्युवाच ह ॥९॥वल्मीकान्निर्गतो द्रोणो धरया भर्यया सह ।नत्वा विधिं च संपूज्य हर्षितः प्राह तं प्रभुम् ॥१०॥श्रीद्रोण उवाच -परिपूर्णतमे कृष्णे पुत्रीभूते जनार्दने ।भक्तिः स्यादावयोर्ब्रह्मन्सततं प्रेमलक्षणा ॥११॥ययाञ्जसा तरंतीह दुस्तरं भवसागरम् ।नान्यं वरं वांछितं स्यादावयोस्तपतोर्विधे ॥१२॥श्रीब्रह्मोवाच -युवाभ्यं याचितं यन्मे दुर्घटं दुर्लभं वरम् ।तथापि भूयात्सफलं युवयोरन्यजन्मनि ॥१३॥श्रीनारद उवाच -द्रोणो नंदोऽभवद्भूमौ यशोदा सा धरा स्मृता ।कृष्णो ब्रह्मवचः कर्तुं प्राप्तो घोषे पितुः पुरात् ॥१४॥सुधाखंडात्परं मिष्टं श्रीकृष्णचरितं शुभम् ।गंधमादनशृङ्गे वै नारायणमुखाच्छ्रुतम् ॥१५॥कृपया च कृतार्थोऽहं नरनारायणस्य च ।मया तुभ्यं च कथितं किं भूयः श्रोतुमिच्छसि ॥१६॥श्रीबहुलाश्व उवाच -नंदगेहे हरिः साक्षाच्छिशुरूपः सनातनः ।किं चकार बलेनापि तन्मे ब्रूहि महामुने ॥१७॥श्रीनारद उवाच -एकदा शिष्यसहोतो गर्गाचार्यो महामुनिः ।शौरिणा नोदितः साक्षादाययौ नंदमंदिरम् ॥१८॥नंदः संपूज्य विधिवत्पाद्याद्यैर्मुनिसत्तमम् ।ततः प्रदक्षिणीकृत्य साष्टांगं प्रणनाम ह ॥१९॥श्रीनन्द उवाच -अद्य नः पितरो देवाः संतुष्टा अग्नयश्च नः ।पवित्रं मंदिरं जातं युष्मच्चरणरेणुभिः ॥२०॥मत्पुत्रनामकरणं कुरु द्विज महामुने ।पुण्यैस्तीर्थैश्च दुष्प्राप्यं भवदागमनं प्रभो ॥२१॥श्रीगर्ग उवाच -ते पुत्रनामकरणं करिष्यामि न संशयः ।पूर्ववार्तां गदिष्यामि गच्छ नंद रहःस्थलम् ॥२२॥श्रीनारद उवाच -उत्थाप्य गर्गो नन्देन बालाभ्यां च यशोदया ।एकांते गोव्रजे गत्वा तयोर्नाम चकार ह ।संपूज्य गणनाथादीन् ग्रहान्संशोध्य यत्नतः ।नंदं प्राह प्रसन्नांगो गर्गाचार्यो महामुनिः ॥२४॥रोहिणीनंदनस्यास्य नामोच्चारं शृणुष्व च ।रमन्ते योगिनो ह्यस्मिन्सर्वत्र रमतीति वा ॥२५॥गुणैश्च रमयन् भक्ताण्स्तेन रामं विदुः परे ।गर्भसंकर्षणादस्य संकर्षण इति स्मृतः ॥२६॥सर्वावशेषाद्यं शेषं बलाधिक्याद्बलं विदुः ।स्वपुत्रस्यापि नामानि शृणु नंद ह्यतन्द्रितः ॥२७॥सद्यः प्राणिपवित्राणि जगतां मंगलानि च ।ककारः कमलाकांत ऋकारो राम इत्यपि ॥२८॥षकारः षड्गुणपतिः श्वेतद्वीपनिवासकृत् ।णकारो नारसिंहोऽयमकारो ह्यक्षरोऽग्निभुक् ॥२९॥विसर्गौ च तथा ह्येतौ नरनारायणावृषी ।संप्रलीनाश्च षट् पूर्णा यस्मिञ्छुद्धे महात्मनि ॥३०॥परिपूर्णतमे साक्षात्तेन कृष्णः प्रकीर्तितः ।शुक्लो रक्तस्तथा पीतो वर्णोऽस्यानुयुगं धृतः ॥३१॥द्वापरान्ते कलेरादौ बालोऽयं कृष्णतां गतः ।तस्मात्कृष्ण इति ख्यातो नाम्नायं नंदनंदनः ॥३२॥वसवश्चेंद्रियाणीति तद्देवश्चित्तमेव हि ।तस्मिन्यश्चेष्टते सोऽपि वासुदेव इति स्मृतः ॥३३॥वृषभानुसुता राधा या जाता कीर्तिमंदिरे ।तस्याः पतिरयं साक्षात्तेन राधापतिः स्मृतः ॥३४॥परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ।असंख्यब्रह्माण्डपतिः गोलोके धाम्नि राजते ॥३५॥सोऽयं तव शिशुर्जातो भारावतरणाय च ।कंसादीनां वधार्थाय भक्तानां रक्षणाय च ॥३६॥अनंतान्यस्य नामानि वेदगुह्यानि भारत ।लीलाभिश्च भविष्यंति तत्कर्मसु न विस्मयः ॥३७॥अहोभाग्यं तु ते नंद साक्षाच्छ्रीपुरुषोत्तमः ।त्वद्गृहे वर्तमानोऽयं शिशुरूपः परात्परः ॥३८॥इत्युक्त्वाथ गते गर्गे स्वात्मानं पूर्णमाशिषाम् ।मेने प्रमुदितः पत्न्या नंदराजो महामतिः ॥३९॥अर्थ गर्गो ज्ञानिवरो ज्ञानदो मुनिसत्तमः ।कालिंदीतीरशोभाढ्यां वृषभानुपुरं गतः ॥४०॥छत्रेण शोभितं विप्रं द्वितीयमिव वासवम् ।दंडेन राजितं साक्षाद्धर्मराजमिव स्थितम् ॥४१॥तेजसा द्योतितदिशं साक्षात्सूर्यमिवापरम् ।पुस्तकीमेखलायुक्तं द्वितीयमिव पद्मजम् ॥४२॥शोभितं शुक्लवासोभिर्देवं विष्णुमिव स्थितम् ।तं दृष्ट्वा मुनिशार्दूलं सहसोत्थाय सादरम् ॥४३॥प्रणम्य शिरसा सद्यः संमुखोऽभूत् कृतांजलिः ।मुनिं च पीठके स्थाप्य पाद्याद्यैरुपचारवित् ॥४४॥पूजयामास विधिवच्छ्रीगर्गं ज्ञानिनां वरम् ।ततः प्रदक्षिणीकृत्य वृषभानुवरो महान् ॥४५॥श्रीवृषभानुरुवाच -सतां पर्यटनं शांतं गृहिणां शांतये स्मृतम् ।नृणामंतस्तमोहारी साधुरेव न भास्करः ॥४६॥तीर्थीभूता वयं गोपा जातास्त्वद्दर्शनात्प्रभो ।तीर्थानि तीर्थीकुर्वंति त्वादृशाः साधवः क्षितौ ॥४७॥हे मुने राधिकानाम कन्या मे मंगलायना ।कस्मै वराय दातव्या वद त्वं मे सुनिश्चितम् ॥४८॥त्वं पर्यटन्नर्क इव त्रिलोकीं दिव्यदर्शनः ।वरोऽनया समो यो वै तस्मै दास्यामि कन्यकाम् ॥४९॥श्रीनारद उवाच -हस्तं गृहीत्वा श्रीगर्गो वृषभानोर्महामुनिः ।जगाम यमुनातीरं निर्जनं सुंदरस्थलम् ॥५०॥कालिन्दीजलकल्लोककोलाहलसमाकुलम् ।तत्रोपवेश्य गोपेशं मुनींद्रः प्राह धर्मवित् ॥५१॥श्रीगर्ग उवाच -हे गोप गुप्तमाख्यानं कथनीयं न च त्वया ।परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥५२॥असंख्यब्रह्मांडपतिर्गोलोकेशः परात्परः ।तस्मात्परो वरो नास्ति जातो नंदगृहे पतिः ॥५३॥श्रीवृषभानुरुवाच -अहोभाग्यमहोभाग्यं नंदस्यापि महामुने ।श्रीकृष्णस्यावतारस्य सर्वं त्वं वद कारणम् ॥५४॥श्रीगर्ग उवाच -भुवो भारावताराय कंसादीनां वधाय च ।ब्रह्मणा प्राथितः कृष्णो बभूव जगतीतले ॥५५॥श्रीकृष्णपट्टराज्ञी या गोलोके राधिकाभिधा ।त्वद्गृहे सापि संजाता त्वं न जानासि तां पराम् ॥५६॥श्रीनारद उवाच -तदा प्रहर्षितो गोपो वृषभानुः सुविस्मितः ।कलावतीं समाहूय तया सार्द्धं विचार्य च ॥५७॥राधाकृष्णानुभावं च ज्ञात्वा गोपवरः परः ।आनंदाश्रुकलां मुंचन्पुनराह महामुनिम् ॥५८॥श्रीवृषभानुरुवाच -तस्मै दास्यामि हे ब्रह्मन् कन्यां कमललोचनाम् ।त्वया पंथा दर्शितो मे त्वया कार्योऽयमुद्वहः ॥५९॥श्रीगर्ग उवाच -अहं न कारयिष्यामि विवाहमनयोर्नृप ।तयोर्विवाहो भविता भांडीरे यमुनातटे ॥६०॥वृंदावनसमीपे च निर्जने सुंदरस्थले ।परमेष्ठी समागत्य विवाहं कारयिष्यति ॥६१॥तस्माद्राधां गोपवर विद्ध्यर्धांगीं वरस्य च ।लोके चूडामणिः साक्षाद्राज्ञीं गोलोकमंदिरे ॥६२॥यूयं सर्वेऽपि गोपाला गोलोकादागता भुवि ।तथा गोपीगणा गोपा गोलोके राधिकेच्छया ॥६३॥यद्दर्शनं दुर्लभमेव दुर्घटंदेवैश्च यज्ञैर्न च जन्मभिः किमु ।सविग्रहां तां तव मंदिराजिरेलक्ष्यंति गुप्तां बहुगोपगोपिकाः ॥६४॥श्रीनारद उवाच -तदा च विस्मितौ राजन् दंपती हर्षितौ परम् ।राधाकृष्णप्रभावं च श्रुत्वा श्रीगर्गमूचतुः ॥६५॥दंपती ऊचतुः -राधाशब्दस्य हे ब्रह्मन् व्याख्यानं वद तत्त्वतः ।त्वत्तो न संशयच्छेत्ता कोऽपि भूमौ महामुने ॥६६॥श्रीगर्ग उवाच -सामवेदस्य भावार्थं गंधमादनपर्वते ।शिष्येणापि मया तत्र नारायणमुखाच्छ्रुतम् ॥६७॥रमया तु रकारः स्यादाकारस्त्वादिगोपिका ।धकारो धरया हि स्यादाकारो विरजा नदी ॥६८॥श्रीकृष्णस्य परस्यापि चतुर्द्धा तेजसोऽभवत् ।लीलाभूः श्रीश्च विरजा चतस्रः पत्न्य एव हि ॥६९॥संप्रलीनाश्च ताः सर्वा राधायां कुंजमंदिरे ।परिपूर्णतमां राधां तस्मादाहुर्मनिषिणः ॥७०॥श्रीनारद उवाच -राधाकृष्णेति हे गोप ये जपंति पुनः पुनः ।चतुष्पदार्थं किं तेषां साक्षात्कृष्णोऽपि लभ्यते ॥७१॥तदातिविस्मितो राजन् वृषभानुः प्रियायुतः ।राधाकृष्णप्रभावं तं ज्ञात्वाऽऽनंदमयो ह्यभूत् ॥७२॥इत्थं गर्गो ज्ञानिवरः पूजितो वृषभानुना ।जगाम स्वगृहं साक्षान्मुनीन्द्रः सर्ववित्कविः ॥७३॥इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे नंदपत्न्याः विश्वरूपदर्शनं श्रीकृष्णनामकरणं नाम पञ्चदशोऽध्यायः ॥१५॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP