संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या| षष्ठोऽध्यायः विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या अन्तर्विषयाः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पंचमोध्यायः षष्ठोऽध्यायः सप्तमोध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्याय: एकादशोध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पंचदशोध्यायः षष्टदशोध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्याय: षष्ठोऽध्यायः विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या Tags : vastuvastu shastraवास्तु विद्यावास्तु शास्त्रशास्त्र षष्ठोऽध्यायः Translation - भाषांतर द्वारमानलक्षणाध्यायश्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे द्वारमानलक्षणाध्याय क्रमांक ६श्री विश्वकर्मा उवाच -- द्वार लक्षणं मान प्रमाणद्वारस्य लक्षणं वत्स कथयामि यथार्थतएकहस्ते तु प्रासादे द्वारस्यात् षोडशांङ्गुलम् ॥१॥षोडशाङ्गुलं वृद्धि पर्यंत चतुर्हस्तकम्गुणङ्गुका भवेद् वृद्धिर्यावम् वसुहस्तकम् ॥२॥अतः ऊर्ध्व द्वयाङ्गलावृद्धि पंचाश हस्तकम्यं दृष्टा त्रिदशाः सर्वे विस्मय परमंगलः ॥३॥ज्ञातव्यं द्वारमुत्सेधं शिल्पिनेन तु तत्त्वतः ॥४॥पञ्चमांशेन पादेन त्रिभागेन तु कार्यतःप्रासाद द्वार विस्तारं द्विगुणं तस्य चोछ्रयम् ॥५॥द्वारस्य विस्तरं ज्ञात्वा शाखा लक्षणमब्रवीत्पञ्च मांशेन हीना च षोडशोना तदर्धतः ॥६॥त्रिभागेन प्रकर्तव्या पादूना वाथ कारयेत्शाखास्य विस्तरं वत्स एकैकस्य तु प्रकल्पयत् ॥७॥शाखास्य विस्तरं वत्स भागैश्चैव विभञ्जयत्शाखास्य विस्तरं ज्ञात्वा त्रयोविंशार्ध संयुतैः ॥८॥--- कर्तव्यं तु सदा तज्ञे--- शिल्पिनिः शास्त्रपारगैः ॥९॥भद्र शाखा तु कर्तव्या भागैश्चतुर्भिरेव चरूपशाखां द्वयोर्भागा द्वितीया तत्समा भवेत् ॥१०॥तृतीया चैव त्रिभागा द्वौभागौ च चतुर्थिकापत्रशाखां त्रिभिर्भागैरुभयोः पार्श्वयोः समाः ॥११॥बकुली सार्ध भागेन भागं भागं च चिप्पिकाघसिका सुर संयुक्ता वौलिका भगतस्थिताः ॥१२॥पत्रशाखा द्विभिर्भागै पट्टिका द्वय संयुता--- खल्वशाखा च भागतः ॥१३॥शाखाश्च पेटकं पुत्र द्वार विस्तार पादतःउदयं च प्रवक्ष्यामि यथा वदनु पूर्वशः ॥१४॥द्वारस्य चोछ्रयं ज्ञात्वा विंशभागैर्विभाजयेत्दशपञ्च तथा कुर्यात् अतोर्ध्व भज्जनं शृणु ॥१५॥रथिका भद्र शाखास्य भागाश्चत्वारि दापयेत्निगरं चाष्टभिर्भागैः शेषं चैवोपरिस्थितिम् ॥१६॥यस्य पदा देवा प्रतिहारा तस्य कारयेत्सीमा मधेयदेवान् उपरे तत्र कारयेत् ॥१७॥निगरे वामा शाखायां महाकालं तु कारयेत्दक्षिणे तु स्थितोनन्दी सर्वोपद्र वनाशनः ॥१८॥शिवस्याग्रे भवेद् ह्येवं नान्येषां तु सुरालयेनिगरस्योपरिष्टा तु शिवरूपाणि कारयेत् ॥१९॥त्रिरथिकं च कर्तव्यं चतुर्भि वाथ कारयेत्उपर्युपरि विन्यस्य रथिका शाखमानतः ॥२०॥उत्तरङ्गम्उत्तरङ्ग च वक्ष्यामि यथोक्तं च स्वयंभुवाद्वारोच्छ्रयस्य पादून त्रिभागेवाथ चार्धतः ॥२१॥उछ्रयं चैव कर्तव्यं कथितेन यथार्थतःभद्रे षु पल्लवैर्युक्तं भरणेषु विशेषतः ॥२२॥मालाधरस्तथायुक्तं मध्यभागे विनायकम्ग्रहैश्चैव समोपेतं अधिनायक रूपकै ॥२३॥रथिको द्वि द्वि वधेषु भूषितव्यं प्रयत्नतःउदम्बरम्उदम्बरो ततो वक्ष्ये उच्छ्रयेण विशेषतः २४॥द्वारोच्छ्रयस्य पादेन बाहुल्यो उदुम्बरस्य चकर्तव्यं सर्वतस्तेवं घटां तस्य समोदयम् २५॥द्वारविस्तार त्रिभागेन मध्यकन्द कारयेत्मृणालेन समायुक्तं पद्यं कुर्यात्ततोपरि ॥२६॥पार्श्वयोरुभयोः कार्य ग्रासरूपं सपत्रकम्धनदं वामदेशे तु दक्षिणे तु विनायकम् ॥२७॥युग्मेन सहितं वाथ कर्तव्यं नात्र संशयःपीठोपरि तु कर्तव्यं मृणालं रूपसंयुतम् ॥२८॥मूलनासिक्योर्मध्ये समसूत्रं तु शोभनम्शाखायां भित्तितुल्यं न न्यूनं न ततोऽधिकम् ॥२९॥सीमाधिक्यं हने दृष्टं भृत्यां श्चैवस्तु बान्धवान्सीमा मध्यगतं वाथ स्वसुतं स्वामीनं हनेत् ॥३०॥ऋजुसूत्रस्य चक्र स्यात् प्रजाहानिस्तदा भवेत्अज्ञानात्स्थापयेदस्तु शिल्पीन च बुद्धिमान् ॥३१॥निष्कुलं शिल्पीनस्तत्र कारकं मृत्युमाप्नुयान्अथ शास्त्रप्रभाणेन उभयोरन्तरं चिरम् ॥३२॥अर्धचन्द्र म्अर्धचन्द्र प्रवक्ष्यामि द्वारविस्तार चार्धतःकर्तव्यं निर्गमं तस्य न न्यूनं न ततोऽधिकम् ॥३३॥निर्गमस्य च यन्मान द्विगुणं कारयेद्बुधःत्रिभागेन नगरक उभयोः पार्श्वताः समम् ॥३४॥पद्मं च मध्यतः कुर्यात्ततो वृत्तं समालिखेत्शङ्खयुग्मं समायुक्तं पद्माकारैः समावृत्तम् ॥३५॥एतत्ते कथितं सर्व निःसन्देह यथार्थतःअपूर्णइति श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे द्वारमान लक्षणाध्याय क्रमांक ॥६॥ N/A References : N/A Last Updated : March 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP