तृतीयोऽध्यायः
विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या
श्री विश्वकर्माकृतायां वास्तुविद्यायां जगती लक्षणाध्याय क्रमाक ३
विश्वकर्मा उवाच
अतः ऊर्ध्वप्रवक्ष्यामि जगत्यां लक्षण परम्
ये नैव कृतमात्रेण सर्वश्रेय समाप्नुयात् ॥१॥
प्रासाद विस्तर तुल्य प्रासादार्धं प्रमाणतः
पादोनं वाथ कर्तव्यं सार्धवाथ प्रयोजयेत् ॥२॥
द्विगुणं वाथ कर्तव्यं सोपानायाम कीर्तितः
शुण्डिकासु च विज्ञेयं तत्पादे गण्ड विस्तरम् ॥३॥
द्वितीयं तत्समं ज्ञेयं शुण्डिकोभयतः स्थिता
प्रासादार्धसमं ज्ञेयं जगतीभद्र निर्गमम् ॥४॥
पादोनं वाथ कर्तव्यं प्रासादस्य समं ततः
भद्र निर्गम तुल्यं तु जगतीगण्डनिर्गमम् ॥५॥
द्वितीयं तत्समं कार्य प्रतीहारास्तदग्रतः
मूलनायकं यन्मानं तन्मानात्पादवर्जितम् ॥६॥
ऊर्ध्वोदयलक्षणम्
जगत्योदय संग्राह्या चतुर्दश विभाजितम्
प्रथमे चतुरश्रे तु सार्ध्वभागसमुच्छ्रयम् ॥७॥
द्वितीयं तत्समं कार्यं तृतीयं तत्प्रमाणतः
चिप्पिका ऊर्ध्वमेकेन भागमेकेन कुंभकम् ॥८॥
भागार्धे खुरकं ज्ञेयं पादोनं जाडयकुंभकम्
भागार्धे कर्णकं कुर्यात् पादोनंतरपत्रिका ॥९॥
भागार्धं खुरकं कार्यं सार्धं भागं तु कुंभकम्
पादोनभागमुत्सेधं कलशं कुर्याद्विचक्षणः ॥१०॥
भागार्धे नान्तरपत्रं पादोनं च कपोतिका
रूपकण्ठं च भागेन निर्गमं तु त्रिभागिकम् ॥११॥
एतेन कथितं सर्वं जगतीनां समुच्छ्रयम्
तथाहं कथयामिति तव पुत्र यथार्थतः ॥१२॥
राजसेनो धरेनाम अर्धभाग प्रमाणतः
सार्धभाग समुच्छ्रेया पत्रयुक्तं सुवेदिका ॥१३॥
आसनपट्टमानं तु अर्धभागं च सङ्ख्यया
विस्तारं च द्विभिर्भागैः पादयुक्ताश्च कारयेत् ॥१४॥
मत्तवारणकं चैव सार्धभागसमुच्छ्रयम्
तस्योदयंश्च त्रिभागेन पिण्डं कुर्याद्विचक्षणः ॥१५॥
पादोन कायेत् पिण्डश्च न न्यूना न ततोधिका
अथ प्रासादमानेन कन्यसे चैव चोच्यते ॥१६॥
अर्धेन कोणधामानि चतुःकोणेन दापयेत्
वामे गणाधिपत्यं च दक्षिणे पार्वती स्मृता ॥१७॥
नैरृत्ये भास्करं विद्यात् वायव्ये च जनार्दनम्
मातृभिर्मातरस्थाने दक्षिणं दिशमाश्रितम् ॥१८॥
पश्चिमांजलशेनस्तु सौम्यायां अश्ववाहनम्
स्थात्पथि चैव कर्तव्यं ईशान्यां देवतालयम् ॥१९॥
प्रासादस्योत्तरे कार्यं गृहं चन्द्र स्य चोत्तमम्
चतुरश्रं च वृत्तं वा वलभ्याकृतिमुत्तमम् ॥२०॥
अर्धभागे त्रिपादे वा यथा वाध्यान जायते
तथावै कार्य्येत्प्राज्ञः जगत्यां मध्यसंस्थितम् ॥२१॥
चारुसिंहासनासीनं नीलमेघाञ्जन प्रभम्
ऊर्ध्वे चक्रं सुते जाढ्यं पिवंतं स्नपन सदा ॥२२॥
टंकऽपाणि महाचण्डं प्रणालाधो व्यवस्थितम्
इदृशं कारयेच्चण्डं सर्वकामफलप्रदम् ॥२३॥
स्वयं बाणलिङ्गे च स्थण्डिले मण्डलेपि वा
अद्वैतमन्त्रसंयुक्ते चले चण्डेन विद्यते ॥२४॥
रोहलिङ्गे स्वयम्भूबाणलिङ्गे सवेदिका
इतरे च जगत्यायां चले चण्डेन विद्यते ॥२५॥
बाण रोहे चले सिद्धे न चण्डाय स्वयम्भूवा
प्रतिमानां च सर्वेषां अद्वैते स्थण्डिलेन हि ॥२६॥
नंदिमंडप
वृषभं तोरणं चैव तथा वै नृत्यमण्डपम्
प्रासादाग्रे प्रकर्तव्यं सर्वशोभा समन्वितम् ॥२७॥
अनन्तरं च त्रिभागेन चतुर्थांशेन चोत्तमम्
भूतांशेन तु कर्तव्यं द्वितीयं नृत्यमण्डपं ॥२८॥
जगत्यायाम गर्भं तु गर्भं वै मण्डपस्य च
तत्समानः प्रतीहारा द्वारे च वामदक्षिणे
नामानि च प्रवक्ष्यामि यथोक्तानि स्वयंभुवा ॥२९॥
जगती चतुर्मुखा नामः महाकालं च वामतः
दक्षिणे तु भवेन्नंदी सर्वविघ्नविनाशन ॥३०॥
याम्या यां च स्मृतं द्वारं भृंगौ वामौ विनिर्दिशेत्
हेरंबो दक्षिणे कुर्यात् द्वारदो विघ्ननाशन ॥३१॥
पश्चिमायां दिशां वामे दुर्मुखो पाण्डुरो भवेत्
सौम्यायां च दिशां वत्स सितो वामेऽसितोत्तरे ॥३२॥
चत्वारि द्वारः विख्यातां जगत्यां रूपदायकाः
देव्यांश्च दिग्पालांश्च यथा स्थानतः शृणु ॥३३॥
पूर्वायां स्थापयेत् शक्रं अग्नौ चैवाग्नि गोचरे
यमं वै दक्षिणे भागे राक्षसान्नैरृति तथा ॥३४॥
वरुणे पश्चिमायां तु वायव्यां वायुदेवता
घनदं सोम दिग्भागे ईशान्याभीश देवता ॥३५॥
प्रासाद पृष्टि भद्रे तु जगत्यां याः कुमारिकाः
वामे च दक्षिणे चैव सप्तमातृ विनिर्दिशेत् ॥३६॥
जगती देवदेवस्य शृणु विष्णोर्यथा स्थिता ॥३७॥
आग्नेयां स्थापयेन्नित्यं मुदकन्तं विनायकम्
याम्यां वामनं रूपं नारसिंहं च नैऋते ॥३८॥
वायव्ये क्रोड रूपं च जलशयनः वारुणे
कौबेरे बालक्रीडा च ईशाने मधुनाशनम् ॥३९॥
एवं विष्णुं भवेज्जगती सूर्यस्य शृणु सांप्रतः
शिखीस्थाने कुजं स्थाप्यं गुरुं वामे प्रतिष्ठयो ॥४०॥
चन्द्र पुत्रं तु नैरृत्ये शुक्रं च वारुणे न्यसेत्
रविपुत्रं तु वायव्ये सोमे सोमं च स्थापयेत् ॥४१॥
राहु च शंकरे स्थाप्य स्थाप्यता वरदा भवेत्
सुमित्रस्य भवेद् ह्येवं देवद्रो णे सुखावहा ॥४२॥
अन्यथा कुरुते यस्तु सोपिकुर्य्याशिवेन्यथा
चण्डिकायां प्रवक्ष्यामि शृणु संक्षेपलक्षणम् ॥४३॥
विघ्नेशमग्निदेशे च मातृहर्म्यं च दक्षिणे
चामुण्डा नैरृते भागे मिश्रादेवी तु पश्चिमे ॥४४॥
लक्ष्मी च वायव्ये स्थाप्य भद्र काली च सौम्यगा
ऐशान्यां कालरात्री च सर्वकार्यार्थसाधिनी ॥४५॥
एवं तु स्थापयेद्देव्यः सर्वसिद्धकरःशुभा
जिनविहारम्
अथजिन विहार कथयाम्यहम्
विहारं यादृशं प्रोक्त तादृशं कथयाम्यहम् ॥४६॥
मध्ये स्थाप्यं बुधजीन् श्रीमान् अग्रे चित्रेण भूषिता
ताराहर्म्यं समोपेत यक्षवृंदगणान्वितम् ॥४७॥
एक भौम द्विभौमं वा त्रिभुयो कास्योरये
चित्रशाला समोपेतं उपवर्णसंकुलम् ॥४८॥
विहार एवमेवं च श्रीमुचान्य जिनालयम्
रिष्टनेम्ययतः कृत्वा ऋषभं च नियोजयेत्
चतुर्विंशती देवानि एकमेकं प्रतिष्ठयेत् ॥५०॥
यक्षैर्गणधरैर्दिव्यैः देवतैश्च विशेषतः
नानारूपकसंयुक्ता जगती कारयेत् शुभा ॥५१॥
प्रासादे मण्डपं कुर्यात् त्रिकं च तदनन्तरम्
अग्रं वलाणकं कार्यं द्विभूमं च त्रिणीस्तथा ॥५२॥
सप्त दश देवकुलीः स्थाप्या वामदक्षिणतः
त्रिकस्य पार्श्वयोश्चैव नवपृष्ट ष्टयोगयेन ॥५३॥
द्विपच्चाश तथा कार्या प्रदक्षिण क्रमेण तु
जिनस्याग्रे प्रदातव्यं समोवसरणं तथा ॥५४॥
अपूर्ण ५५
इति श्री विश्वकर्माकृत्तायां वास्तुशास्त्रे वास्तुविद्यायां जगती लक्षणाधिकारे क्रमांक तृतीयोऽध्यायः ३
N/A
References : N/A
Last Updated : March 29, 2021
TOP