संस्कृत सूची|संस्कृत साहित्य|संहिता|पुरुषोत्तमसंहिता| त्रयत्रिंशोध्यायः पुरुषोत्तमसंहिता प्रथमोध्यायः द्वितीयोध्यायः तृतीयोध्यायः चतुर्थोध्यायः पंचमोध्यायः षष्ठोध्यायः सप्तमोध्यायः अष्टमोध्यायः नवमोध्यायः दशमोध्यायः एकादशोध्यायः द्वादशोध्यायः त्रयोदशोध्यायः चतुर्दशोध्यायः पंचदशोध्यायः षोडशोध्यायः सप्तदशोध्यायः अष्टादशोध्यायः एकानविंशोध्यायः विंशोध्यायः एकविंशोध्यायः द्वाविंशोध्यायः त्रयोविंशोध्यायः चतुर्विंशोध्यायः पंचविंशोध्यायः षड्विंशोध्यायः सप्तविंशोध्यायः अष्टविंशोध्यायः एकानत्रिंशोध्यायः त्रिंशोथ्यायः एकत्रिंशोथ्यायः द्वात्रींशोधायः त्रयत्रिंशोध्यायः पुरुषोत्तमसंहिता - त्रयत्रिंशोध्यायः पुरुषोत्तमसंहिता Tags : purushottam samhitasamhitasanskritपुरुषोत्तम संहितासंस्कृतसंहिता मद्रालक्षणं Translation - भाषांतर मद्रालक्षणश्रवणेब्रह्म-ब्रह्म प्रश्नःमुद्राणां लक्षणं ब्रूहि देवदेवदयानिधेमुद्राकदाप्रकर्तव्यातस्याः किंतु प्रयोजनम् ॥१॥भगवत्प्रतिवचनंश्रीभगवान्-मुद्राशब्दार्थ निर्वचनंमुदं समस्ततत्त्वानां तक्षणाद्द्रावयिष्यतितस्मादस्वर्थनामा भूदेषा गोप्या चतुर्मुख ॥२॥नबहिर्दर्शये न्मुद्रां क्षिप्रंदेवप्रसादिनीम्गंधलिप्तौ करौकृत्वा मुद्राबंधन माचरेत् ॥३॥शंखमुद्रामुष्टिनावामहस्तस्य नव्यां गुष्टं निबध्य चआंगुष्ठतर्जनी योगश्शंख मुद्रेति कीर्तिता ॥४॥चक्रमुद्राअधोमुखं करं कृत्वा दक्षिणं वामहस्तकेउत्तानेमणि बंभेतु मणिबंधंतु योजयेत् ॥५॥चक्रवद्भ्रमणादेवं चक्रमुद्रेतिकीर्तितागदामुद्रामुष्ठिं बथ्वातु हस्ताभ्यांनंश्लिष्टौ मध्यमांगुळीः ॥६॥कूर्परौतु समौकृत्वा गदामुद्रेय मीरिताशार्ञ्गमुद्राअग्रेणमध्यमांगुळ्या स्तर्जन्यग्रं स्पृसेद्यति ॥७॥शार्ञ्गमुद्रेति कधिता नर्वदुष्टभयंकरीमुसल मुद्रासोर्ध्वांगुष्ठं वाममुष्टिं दक्षिणेवतु मुष्ठिवा ॥८॥आबथ्यांगुष्ट मूर्थ्वंतु न्यसाचेन्मुसलं भवेत्खड्गमुद्रातर्जनीमध्यमाहीरा मुष्टिः खड्गेतिकीर्तिता ॥९॥पद्ममुद्राअंगुळीविरळाः कृत्वाकरयोरुभयोरपिसंश्लिष्टकूर्परौयत्त त्पद्ममुद्रानि गद्यते ॥१०॥वनमालामुद्रासंश्लिष्टश्चांगुळीः कृत्वा करयोरुभयोरपि.लंबये द्वनमालास्या त्कथ्यतेनंतमुद्रिका ॥११॥अनंत मुद्रासर्वांगुळीभिराकुं च्य फणवत्क्रियतेयदिगरुडमुद्राहस्तरुभयो स्पृष्टा संश्लिष्टा च कनिष्टिकौ ॥१२॥तथा चतर्जनीयुग्मं बथ्वांगुष्टौ समौकृतौपक्षवच्चलनं कुर्या दित रांगुळिभिस्तथा ॥१३॥विष्वक्चेन मुद्राविमुक्ततर्जनी मुष्टिर्विष्वक्चेनस्य प्रीतिदाब्रह्ममुद्रासर्वांगुळीनां संस्पृष्टि रुभयोः करयोरपि ॥१४॥ब्रह्ममुद्रेति कधिता विष्णुमुद्रानि गद्यतेविष्णुमुद्राअनामिकामध्यमाभ्यां विमुक्तासैवपद्मज ॥१५॥रुद्रदामुअंगुष्ठद्वय संस्सृष्टिः रुद्रमुद्रा प्रकीर्तिता.मुष्टिमुद्रेतिमुष्टिमुद्रेति कधिता मुष्टिं बध्वाबलि क्षिपेत् ॥१६॥गंध मुद्राकनिष्ठानामिकामुक्ता मुष्टिस्वाद्गंधमुद्रिका. ॥१७॥पुष्प मुद्रासर्वांगुळीनां संकोचः विमुक्तामध्यमाचसा ॥१८॥पुष्पमुद्रेति कधिता पुष्पाणां च समर्पणे.यज्ञोपवीतमुद्राअंगुष्टस्याग्र पर्वंतु मध्यमांगुळिनास्पृसेत्यज्ञोपवीतमुद्रास्या द्देवदेवस्य प्रीतिदा ॥१९॥आभरणमुद्राकनिष्ठिकाग्रपर्वंतु न्पृशेदं गुष्टकेसतुमुद्राचाभरणं ज्ञेयं अलंकारासनेमतम् ॥२०॥धूपमुद्रासच्छिद्रमंगुळीनांतु समाश्लिष्टाग्रबंधनम्ऊर्थ्वांगुष्ठौ तथाकृत्वाधूपमुद्रा(तुसाभवेत्)प्रकीर्तिता ॥२१॥दीपमुद्रासर्वांगुळीश्च संहृत्य मध्यमेद्वे प्रदर्शयेत्हस्तयो रुभयोश्चापि दीपमुद्रा प्रकीर्तिता ॥२२॥ग्रासमुद्राअंगुळीनांतु पंचानां अग्रंसंयोज्ययत्नतःदक्षिणेन करेणैव मुद्रासाग्राससंजिका ॥२३॥प्रतिमामुद्रासोर्थ्वांगुष्थॆतु यामुष्टी मुद्रासाप्रतिमास्मृता ॥२४॥स्वागतमुद्राउत्तानाभ्यां च हस्ताभ्यां किंचिदाकुं च्शचांगुळीः.पृथक्कृत्वातथांगुष्ठौ ज्ञेयास्त्वागतमुद्रिका ॥२५॥दहनमुद्रावामहस्ते त्रिकोणाग्निं ध्यात्वाद्रव्योपरिस्यसेत्.एषादहनमुद्रास्या त्सर्वद्रव्य विशोधिनी ॥२६॥अप्यायसमुद्रानव्यहस्ते तधापद्मं षोडशच्छद संयुतम् ॥२७॥अमृतमुद्रा?तस्मिन् चंद्रंस्थितः थ्यात्वापीयूषस्राविनंतथाअवाङ्मुखेन हस्तेन द्रव्याणामु परिस्यसेत्.आप्यायनस्य मुद्रैषा द्रव्यपावन कारिणीसुरभिमुद्राअनामीका मध्यमयोः मनिष्ठातर्जनी क्रमात् ॥२८॥संस्पृष्टिश्चेत्त थान्योन्य करयोरुभयोरपिमुद्रैषासुरभि र्ञेया सर्वकामार्धसिद्धिदा ॥२९॥अवाहनमुद्राविरळांजलि बंधस्तु मुद्राचावाहनाख्यका ॥३०॥किरीटमुद्राअंगुष्टाभ्यां चकरयो स्संपुटीकृत्यदेशिकःअनामिकेच तर्जन्यौ संकोच्यशिरसिन्यसेत् ॥३१॥श्रीवत्समुद्राकिरीटेकथितामुद्रा श्रीवत्सं कध्यतेधुवा ॥३२॥उत्तानं वामहस्तं चकृत्वांगुष्ठेन संस्पृशेत्शांस्तुभमुद्रादक्षीणस्य च हस्तस्य तर्जन्यातु कनिष्ठिकं ॥३३॥सव्यहस्त कनिष्टॆन बथ्वा तत्तर्जनीं नयेत् ॥३४॥पूर्वांगुळित्रयं देशं कौंस्तुभं परिकीर्तितंज्ञानमुद्रातर्जन्यं गुष्टयोरेव संयोगोज्ञानमुद्रिक ॥३५॥तत्त्वमुद्रासैवश्रीवत्समुद्रास्यात्तत्वमुद्रा प्रकीर्तिता ॥३६॥अग्निप्राकारमुद्राअंगुष्टाग्रेन संस्पृश्य तर्जनी मध्यपर्वकंसंहारमुद्रामध्यमामूर्थ्वतःकृत्वातर्जन्यौवेष्ठयेत्क्रमात् ॥३७॥अनामिकांकनिष्ठां च तथांगुष्टॆन देशिकःसंहारमुद्राभिहिता तत्वसंहरणेमता ॥३८॥सृष्टिमुद्रातर्जनिमूर्थ्वतः कृत्वा अंगुळीनां च संगतिःसृष्टिमुद्रेति कधिता तत्वन्यासादि केमता. ॥३९॥शिखामुद्राअंगुष्ठं मध्यतः कृत्वामुष्टिंबथ्वाहृदिन्यसेत्तर्जन्यं गुष्ठयोगेन शिरसिन्यसनं भवेत् ॥४०॥पश्चाच्छिखायां संस्पृस्येदूर्थ्वांगुष्टेन मुष्टिनाकवचमुद्राकरयो रुभयोंगुष्टा संकुच्यांगुळिभिस्तथाभुजप्रभृतिपादांतं न्यसेत्कवचमुद्रिका ॥४१॥नेत्रमुद्राशिखामुद्रा मधःकृता भृवोर्मध्येनिवेशयेत्नेत्रमुद्रेति कधिता तर्जन्यंगुष्ठयोस्तधा ॥४२॥अस्त्रमुद्रास्फोटनं चैवसर्वत्र अस्त्रमुद्रेति कीर्तिता ॥४३॥षडंगन्यासमुद्राणां विनियोगःप्रदर्शितः[अधिकपाठानिवसिष्टः-इत्येवं हरिणाशृत्वा पुराकमल संभवःहृष्टचेतो जगन्नाधं प्रणिपद्यमुहुर्मुहुःजगत्सृष्टिं समारेभॆचाज्ञयातु जगत्पतेःमयाशृतं यथापूर्वं मत्पित्रा ब्रह्मणाद्विजाःतत्सर्वं संग्रहेणैवतुभ्यमद्य सुबोथितंलोकानुग्रहकामेन निगूढं भगवत्प्रियंमहाशास्त्रं पांचरात्र नामकं परमोत्तमं.नाशिष्यायन भक्तायन वैष्णव बुधायचनकदापि प्रवक्तव्यं गोप्यं गोप्यं मनीषिभिःयस्यश्रवणमात्रेण अघनाशोभवेद्धृवंपठनं मननंचैव जन्मराहित्य हेतुकंदुर्लभं सर्वलोकानां देवानांच सदाप्रियं॥ऋषयः महच्छास्त्रमिदंशृत्वा वशिष्ठेनमहात्मनाऋषयोहृष्टमनसास्तंस्तुवंतावभूवुः]इतिसंक्षेवतः प्रोक्तं मुद्राणां लक्षणंपरंइति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंङितायांमुद्रालक्षणींन्नामत्रयत्रिंशोध्यायःश्रीश्रीश्रीसंपूर्णं N/A References : N/A Last Updated : January 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP