पुरुषोत्तमसंहिता - पंचविंशोध्यायः
पुरुषोत्तम
पुष्पयागविधि श्रवणार्थं ब्रह्म प्रश्नः
ब्रह्म-
देव देव जगन्नाध सृष्टिस्थित्यंतकारक
(भक्ताभीष्ठ प्रसिद्ध्यर्थ मुत्सवक्रममीरितं
तदुत्सवे प्रवर्तेतु चा स्पृश्यस्पर्शनेसति
तद्धोष परिहारार्धं कर्तव्यं किं जगत्प्रभो
तत्सर्पं विस्तरेणैव वदत्वं वदतां वर)
भक्ताभीष्ट प्रदानार्थं ह्युत्सवोक्तंत्वयापुरा ॥१॥
तदुत्सवे पर्यटने चास्पृन्यस्पर्शने पिवा
यत्किंचिद्धोषशांत्यर्थं संभवेचे न्महोत्सवे ॥२॥
तत्तद्दोष प्रशांत्यर्थं तस्य निष्कृति सिद्धये
उपायः किं देवदेव तद्वदस्य यगत्प्रभो ॥३॥
भगवत्प्रतिवचनं
श्रीभगवान्-
श्रीपुष्पयागविधिः
शृणु वत्चप्रवक्ष्यामि पुष्पयागाख्य मुत्सवम्
कर्तव्यं ममसंपीत्यै (सर्वदोषापहारकं) सर्वदोषान् दहेत्सुनः ॥४॥
तस्मात्समाहितो भूत्वा समाप्तदिवसेनिशि
तत्सरेद्युर्निशिवाध पुष्पयागं समाचरेत् ॥५॥
आस्थान मंटपे वापि यागमंटपमध्यतः
तलोछ्रेधां द्वितालेन विस्तारायाम संमितां ॥६॥
मृदावेदीं प्रकल्प्याध तस्यां देवं निवेशयेत्
तत्पुरोभूतलेचैव द्विहस्तायामविस्तृताम् ॥७॥
तालमानोन्नतां वेदीं दर्पणोदरवत्समाम्.
तद्दक्षिणे पंचवर्ण चूर्णानि कुसुमानिच ॥८॥
पुष्पयाग मंडल रचना क्रमः
प्रोक्ष्य निक्षिप्य तद्वेद्यां मंडलं रचयेद्गुरुः
प्रधमं श्यामचूर्णेन कर्णिकां कारयेत्ततः ॥९॥
तदूर्थ्वे पीतचूर्णेन पृत्तं कृत्वा तधापरम्
इंद्रादिदिग्विभागेन चतुर्दिक्षु चतुर्दळम् ॥१०॥
स्वेतं रक्तं तथापीतं श्यामंचूर्णैस्तुफूरयेत्
दळांत रेखातन्मध्ये स्वेतपीतद्वयं ततः ॥११॥
तदूर्थ्वे श्वेतवर्णेन चूर्णेन भ्रमणं चरेत्
ततोष्टदळमालिख्य दिक्षु वर्णंतु पूर्ववत् ॥१२॥
ईशान्यं दिशिपीतं च श्यामं श्वेतं चकर्तकम्
दळांत रेखातन्मध्ये रक्तधूम्रप्रपूरणम् ॥१३॥
रक्त चूर्णेन संवेष्ठ्य तदूर्थ्वेष्टदळं लिखेत्
वीतवर्णेन संपूर्य दळांते कृष्णवर्णकम् ॥१४॥
दळमध्ये श्वेतवर्ण चूर्णेन प्रविभाजयेत्
कृत्वानेमिं धूम्रवर्णचूर्णेन परितोलिखेत् ॥१५॥
तदूर्थ्वे द्वादशदळं (पंचवर्णविमिश्रितैः)पंचवर्णैर्विमिश्रितैः
संपूर्य दळरेखांणे स्वेतरक्त दळान्वितैः ॥१६॥
मिश्रितेनैव चूर्णेन पीतं स्याद्दळमध्यके
परितश्यामचूर्णेव वृत्तं कृत्वा मनोहरम् ॥१७॥
तत्समंता त्स्वेतरक्त कृष्णचूर्णत्रयं न्यसेत्
द्वारैश्चतुर्भिस्संयोज्य देवानावाहयेत्क्रमात् ॥१८॥
मंडले देवतावाहनक्रमः
प्रधमं कर्णिकामध्ये देवदेवं सनातनम्
(श्यामकोमलशारीरं)मयूरकंठवच्छ्यामं पीतकौशेयवानसम् ॥१९॥
श्रीवत्सवनमालाद्यै (श्शंखचक्रादिभिर्युतं)श्चक्रादैश्च समन्वितम्
द्वादशाक्षर मंत्रेण प्रतिपाद्यं (जगत्प्रभुं) मनोहरम् ॥२०॥
परात्परं वासुदेव मभिष्टफलदं यजेत्
ततो दळ चतुष्केतु चेंद्रादिक्रमयोगतः ॥२१॥
शुद्धस्पटिक संकाशं वासुदेवं समर्चयेत्
जाज्वल्यमानवपुषे रक्तवर्णं महौजनम् ॥२२॥
संकर्षणं द्वितीयेतु तृतीयेकनकप्रभम्
ज्ञानादिगुणसामान्यं प्रद्युम्नं पीतवर्णकम् ॥२३॥
व्यूहांतर्वर्तिनं श्यामवर्णं देवं महाप्रभम्
अनिरुद्धं समभ्यर्च्य एवंदळचतुष्टये ॥२४॥
अष्टाक्षरं त्वष्टदळे तारकार्णं तु षड्दळे
तदूर्थ्वं द्वादशदळे द्वादशार्णंतु संलिखेत् ॥२५॥
कर्णिकावृत्तमारभ्य वृत्तरेखासु पंचसु
पृधिव्यादीनि भूतानि (पंचचावाह्यपूजयेत्) समानाह्यततोर्चयेत् ॥२६॥
तद्दळाग्रस्थरेखासु चतुरावरणेष्वपि
सात्विकीं राजसीं चैव तामसीं त्रिगुणात्मिकान् ॥२७॥
तद्दळांतेषु भागेषु ऋगादीं श्च यथाक्रमम्
तदूर्थ्वा वरणेचैव ब्रह्मदीनर्च येत्क्रमात् ॥२८॥
ब्रह्मविष्णु महेशानां रक्तपांडु रमेचकैः
वर्णैर्गुणानुसारेण चावाह्यावरणत्रये ॥२९॥
प्रधमावरणद्वारा चत्कुष्के पालिका न्यसेत्.
द्वितीयावरणद्वार चत्कुषीचाष्टमंगळान् ॥३०॥
तृतीयावरणद्वार चत्कुषॆ कुमुदास्तधा
आवह्यगंधपुष्पाद्यै रर्चयेच्च पृधक् पृधक् ॥३१॥
मंडलांतस्थ देवानां तत्तद्वर्णीम रूपतः
सुगंधकुसुमै श्चैव पूजयेच्छास्त्रवर्त्मना ॥३२॥
तन्मंडलेचोत्सवार्चां (स्थाप्याभ्यर्च्ययधाविथि) ध्यात्वाभ्यर्चयधाक्रमं
पुष्पयागैद्वादशाराधनविधिः
श्रीवैष्णव महायागनामानं यागमुत्तमम् ॥३३॥
उपचारैष्षोडशभि र्द्वादशावर्तिसंमितैः
यजेच्चैवं निशायां तु वेदवाद्यपुरस्सरम् ॥३४॥
पायसादीनि चान्नानि फलानाम्रादिकानिच
भक्ष्यानि घृतपक्वानि निवेद्यबहुविस्तरम् ॥३५॥
पानीयाचमनं दत्वा कर्पूरयुतमुत्तमम्
तांबूलंभक्तितोदद्यात् पादौपुष्पांजलिंक्षिपेत् ॥३६॥
देवं याने समारोप्य देव्यौशयनमंटपे
सर्वालंकार संयुक्तेमुक्ताजालविराजिते ॥३७॥
मणिकांचन दीपैश्च सर्वत्र समलंकृते
कस्तूर्यगुरुधूपैश्च धूपितेसु मरोहरे ॥३८॥
शय्यासनोपकरणै स्सर्वैर्वस्तुभि रन्विते
पुष्पशय्यासमायुक्ते सुवितानेषु तोरणे ॥३९॥
संस्थाप्याभ्यर्च्य यत्नेन देवं यानेन देशिकः
सप्तप्रदक्षिणानि
देवागारं परिक्रम्य सप्तधात्वरितेनच ॥४०॥
[अधिकपाठाणि
यद्वा द्वादशवारं वा नीत्वा धामदक्षिणं
येकैक वाद्यघोषेण प्रतिवारं प्रदक्षिणेः]
यानाद्देवं मंडपस्य मध्यभागे मनोहरे
लक्ष्मीसंवादोत्सवः
भद्रपीठे निवेश्याध देव्योरभिमुखं यधा ॥४१॥
लक्ष्मीसंवादनामान मुत्सवं (सम्यगाचरेत्) परिकल्पयेत्
कवाटबंथसहित मुत्सवं नटनं चरेत् ॥४२॥
लक्ष्मी कटाक्षैरत्यंत मनुगृह्णंतमच्युतम्
ततःप्रवेश येद्देवं देव्योर्मध्ये जगत्प्रभुम् ॥४३॥
दर्पणदर्शनं
संस्थाप्य दर्पणेचैक कालेदेवं रमासखम्
देवीभ्यां सहपश्यंति जनास्त्वत्यंत हर्षिताः ४४॥
तेषां पापानि नश्यंति सिद्ध्यंते सर्वसंपदः
पोयसान्नं निवेद्याध क्षीरं शर्करयामुतम् ॥४५॥
कर्बूरेण लवंगेन युक्तं तांबूल मुत्तमम्
नीराजनं समर्प्याध पुष्पांजनि समर्पणम् ॥४६॥
प्रणम्यदंडवद्भूमौ भक्तियुक्तेन चेतसा
शय्योपचारविहिता नुपचारान् समाचरेत् ॥४७॥
पालिकांकुरैद्देवस्याराधनविधिः
पालिकापात्रनंस्थागने चांकुराणि समाचरेत्
समर्प्य देवदेवस्य पावयोः प्रीतिपूर्वकम् ॥४८॥
होमविधिः
ततोग्निंच प्रतिष्ठाप्य समिधाज्यचरून्हुनेत्
अष्ठोत्तरशतं चैव मूलमंत्रेण देशिकः ॥४९॥
प्रायश्चित्ताहुतीन्हुत्वा पंचोपनिषधाघृतम्
पूर्णाहुति देवतो द्वासनादि
पूर्णाहुतिं ततः कुर्या (दग्निमुद्वास्यदेशिकः)दग्नींचोद्यास्यदेशिकः ॥५०॥
तोरणध्वज देवादी नुद्वास्यच यधाक्रमम्
गरुडं तु ततोभ्यर्च्यकृत्वाचापि प्रदक्षिणम् ॥५१॥
पटादुद्वा सयेत्त्षार्यं संहारक्रमयोगतः
ध्वजस्तंभ ध्वज पटादिकं आचार्यस्यदद्यात्
ध्वजस्तंभं च गृह्णीयात्तद्रज्जुं तत्प्रपां गुरुः ॥५२॥
देशिकग्रहणेनैव गरुडः परितृप्त्यते
देवानावाहितान् नर्वान् बलिं दत्वाविसर्जयेत् ॥५३॥
देवं प्रदक्षिणीकृत्य यानेदेवं निवेश्यच
भक्तान् देशांतरात्प्राप्तान्विष्णुसेवार्थमागतान् ॥५४॥
स्वदेशान् गंतु माज्ञाप्य देशिकस्य मुखेनतु
प्रदक्षिणं परिक्रम्य सर्वावरणभूमिषु ॥५५॥
सर्वमंगळवाद्यैश्च देवमंतः प्रवेशयेत्
आचार्यदक्षिणादि
महोत्सवांते तत्कर्ता देशिकं पांचरात्रिकम् ॥५६॥
वस्त्रैश्च स्वर्मभूषाद्यैर्गंधपुष्पादिभिस्सह
संपूज्यदक्षिणां दद्यात् शतनिष्कां यधावसु ॥५७॥
ऋत्विजां श्च तदर्थं स्यात् तदर्थं परिचारिणाम्
नृत्तवाद्य जनान्सर्वान् यथावित्तानुसारतः ॥५८॥
संभाव्य विदुषां चापि ब्राह्मणान् दक्षिणादिभिः
दीनांध कृपणेभ्यश्च वस्त्रान्नाद्यैस्तुतोषयेत् ॥५९॥
दक्षिणदानावसर निरूपणं
क्रियाशरीरमित्युक्तं दक्षिणाजीवमुच्यते
क्रियादक्षिणयाहीना सजीवति विनिष्फलम् ॥६०॥
तस्मात्स्वल्पाहिदातव्या दक्षिणायागकर्मणि
(दक्षिणाहीनयागेन कर्ताश्रेयान विंदति) यागस्य दक्षिणाहीवो कर्तृदोषायकल्पते ॥६१॥
तस्माद्वित्तानुसारेण देयात्स्वल्पापिदक्षिणा
आचार्यं गंधपुष्पाद्वै र्यजमानोति भक्तितः ॥६२॥
अभ्यर्चयानमारोप्य कृत्वाग्राम प्रदक्षिणम्
उत्सवकरणे फल शृतिः
गृहं प्रवेशयेद्भक्त्या सर्ववाद्यपुरस्सरम् ॥६३॥
एवमुक्तप्रकारेण यःकरोति महोत्सवम्
(पचाभीष्ठान्प्राप्यविष्णोः) उत्तारयन् स्वयंविष्णोस्सायुज्यंगच्छतिधृवम् ॥६४॥
यागः प्रवर्तते विष्णोः ग्रामेवा पट्टणेसिवा
देशे राष्रेपिवा तत्र नास्तिदुर्भिक्ष संभवः ॥६५॥
[अधिकपाठानि.
यत्रप्रवर्तते विष्णोः कल्याणं देशिकोत्तम
तत्रचान्यान्युत्सवानि समकालेतु नाचरेत्.
प्रवर्तिते दैवयागे चान्यं मानवयागकं
यःकरोति समूढात्मा त्वचिरेणैवनश्यति.
विष्णोरुत्सवमध्येतु दैवतांतरमुत्सवं
भवच्चेत्तस्य राष्ट्रस्य राज्ञोनाशो भवेधृवं;]
सर्वदुःखविनिर्मुक्ताभवंति सुखिनोनराः
[अधिकपाठाणि
तस्मात्सर्वप्रयत्नेन हरेः कल्याणमध्यतः
नकदापि च कर्तव्य मन्यमुत्सव मादरात्]
इत्येवं पुष्पयागाख्य मुत्सवं कमलासन ॥६६॥
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां
पुष्पयागविधिर्नाम पंचविंशोध्यायः
श्रीश्रीश्री
N/A
References : N/A
Last Updated : January 21, 2021
TOP