पुरुषोत्तमसंहिता - एकादशोध्यायः
पुरुषोत्तमसंहिता
यागमंटप निर्माणादि विधौ ब्रह्म प्रश्नः
ब्रह्मौवाच-
श्ला ॥भगव न्बूहि देवेश यागमंटप लक्षणम्
कस्मिन्देशे प्रकर्तव्यं सर्व मन्यत्सुविस्तरम् ॥१॥
भगवत्प्रति वचनं
श्रीभगवान्-
यागमंटप लक्षणं
देवालयस्य पूर्वस्यां चैशान्ये चोत्तरेपि वा
द्वितीया वरणे यद्वा तृतीया वरणेपि वा ॥२॥
यागार्थं मंटपं कुर्यात् षोडशस्थंभ संयुतम्
हस्तषोडशविस्तीर्णं तद्वदायामसं मितम् ॥३॥
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम्
तद्भुवं नवधा कृत्वा (तन्मध्ये ब्रह्मणःपदे)मध्यमे ब्रह्मणः पदे ॥४॥
वेदीं निर्माय परितः दिक्षु कुंडानि कल्पयेत्
चतुरश्रकुंड लक्षणं
हस्तमात्रं खने द्भूमिं चतुरश्रं यथा भवेत् ॥५॥
तन्मध्ये पद्मपीठं स्या च्चतुरंगुल मुन्नतम्
बहि रष्टदळं पद्मं द्वादशांगुळविस्तृतम् ॥६॥
खाता द्बहिश्च तुर्दिक्षु मेखलात्रितयं भवेत्
[अधिकपाठानि
पात्वती राजसीचैव तामसीति क्रमाद्भवेत्
सर्वेषां चैवकुतमूनां मेखलानाम निर्णयः ]
चतुरंगुळ मुत्सेधा द्वादशांगुळ विस्तृता ॥७॥
प्रथमा मेखला कार्या द्वितीया तद्वदुन्नता
अष्टांगुळ सुविस्तीर्णा द्वितीया मेखला भवेत् ॥८॥
तृतीया मेखला कार्या चतुरंगुळविस्तृता
तद्द्वदौन्नत्यसहिता तदूर्थ्वेयोनि रिष्यते ॥९॥
कुंडस्य पश्चमे भागे योनिः पंचदशांगुला
पिप्पलच्छदवत्कुर्यात् याम्येवा योनिकल्पना ॥१०॥
उदंङ्मुखो यदि भवेद्धोता योनिं विना पिवा
कुंडं कुर्यात्तदश्रेतु कोणसूत्रस्य मानतः ॥११॥
चतुर्दिक्षु चतुस्सूत्रा नास्फाल्य चतुरश्रकम्
मध्यात्कोणस्पृशत्सूत्रं पार्श्वभागेनिधायच ॥१२॥
आतिरिक्त तृतीयेन भ्रामये त्पूर्णचंद्रवत्
चापकुंडं
मध्ये सूत्रं समास्फाल्या विनृजेदुत्त राथन्कम् ॥१३॥
स्वीकृत्य दक्षिणार्थं तु पूर्वन न्मेखलात्रयम्
एतच्चापाख्यकुंडं स्यात् पूर्वनच्चतुरश्रके ॥१४॥
वृत्तकुंडं
क्षेत्रमाद्यात्कोणसूत्रंपूर्ववद्भ्रामयेत्ततः
पूर्णचंद्रपदे तत्क्यात् पूर्वव न्मेखलायुतम् ॥१५॥
पद्मकुंडं
अश्राद्वृत्तं समालभ्य वूर्ववत्सूत्रपर्त्मना
दळानि मेखलास्थाने निर्मितं पद्मकुंडकम् ॥१६॥
त्रिकोणकुंडं
अश्रविस्तृतषड्भागं दक्षिणोत्तरयोर्ध्वयोः
पश्चिमेश्रस्य संयोज्य सूत्रमास्फाल्यलांछयेत् ॥१७॥
मेखला
तत्सूत्रस्भालने नैव त्रिकोणं साधयेद्गुरुः
यादृग्विधं भवेत्कुंडं तादृगेवतु मेखला ॥१८॥
पंचकुंड विधानं
चतुरश्रं भवे त्प्राच्यां दक्षिणे धनुराकृतिः
पश्चिमे वर्तुलं कुंडं (उत्तरे पद्ममुच्यते)उत्तरे त्रिश्रकुंडकम् ॥१९॥
(वह्नि भागे त्रिकोणं स्यात्)पद्मकुंडु शिवे कार्यं पंचवह्नि प्रकल्पने
चतुस्तोरणानि तेषां प्रमाणानि
अश्वद्धोदुंबर श्चैव न्यग्रोधं तु तधैवच ॥२०॥
प्लक्ष श्चैवतु चत्वारो तोरणार्थं प्रकल्पयेत्
तदुत्सेधमधो वक्ष्ये तोरणानांच सर्वशः ॥२१॥
मंटपद्वारतुल्यं वा पादायत मधा पि वा
तद्दंडं द्विगुणं वापि स्थंभोत्सेध मधा पिवा ॥२२॥
पंचहस्तनया वापि चतुर्हस्तंतु वापुनः
तदर्थं पट्टिकाकारं तोरणानिच कारयेत् ॥२३॥
मंटप निर्माणे स्तंभादिनावानि
दशतालं तधा यामं पट्टिकातु तदर्थकम्
स्तंभयोर्मूलनाहं स्याद्द्वात्रिशांगुळमीरितम् ॥२४॥
तमो र्मध्येतु नाहंतु आष्टाविंशति रंगुलम्
तदग्रयो र्नाहं स्याच्चतुर्विंशांगुळोन्नतम् ॥२५॥
स्तंभायामं त्रिधाकृत्वामूलभागेयुगाश्रकम्
महाभागे तुकास्त्वश्रं ऊर्ध्वभागे तु वर्तुलम् ॥२६॥
अधवा स्तंभनाहं स्या न्मूलमध्याग्रकेषु च
चतुर्विंश द्विंशति श्च षोडशांगुल मिष्यते ॥२७॥
षौडशांगुलनाहं वा सादा दग्रसमं ततः
स्तंभयो र्नाह मुक्तंचयथाशोभंभवेत्ततः ॥२८॥
स्तंभयो रग्रतः कुर्यात् पद्मकुट्मल वद्भवेत्
अध वा ग्निशिखा वापि यथा शोभंतु कारयेत् ॥२९॥
स्तंभा दुत्सेधमानेन विस्तारं पट्टिका उभे
पट्टिकाद्वयविस्तारं द्वादशांगुल मेव वा ॥३०॥
अष्टांगुलं वा कुर्वीत षोडशांगुल मायतम्
चतुरंगुळविस्तारं पट्टिकार्थं तु पंकजम् ॥३१॥
स्तंभं चतुर्थ विभजे देकभागे क्षितौ क्षिपेत्
यज्ञवृक्षांश्च संगृह्य यधाकाम मधापिवा ॥३२॥
द्वारप्रमाणं वाकुर्या त्प्रमाणं पुरुषायतम्
एवं लक्षणयुक्तानि कारयेत्तोरणानि च ॥३३॥
अष्टमंगळ लक्षणे
वक्ष्यामिलक्षणं चाष्ट मंगळानि यथा तधम्
यज्ञवृक्षान् समाधाय क्षीरवृक्षं विशेषतः ॥३४॥
आयाममेकहस्तं स्या द्विस्तारं च षडंगुळम्
घनं त्रयांगुळं प्रोक्तंरक्तांगं श्वेतवर्णकम् ॥३५॥
पीताभं पंकजाभं च राजा राष्ट्रशुभावहम्
श्रीवत्सं पूर्णकुंभं च भेरीं दर्पणमंडलम् ॥३६॥
मत्स्यलुग्मं च शंखं च चक्रं काश्यपनंदनम्
फलकेषु लिखेदेवं मंगळानि यथाक्रमम् ॥३७॥
समिधः
पालाशौ दुंपराश्वद्ध प्लक्षास्स मिधयस्तथा
इध्मं
इध्ममेकविंशत्य कुशाभ्यां बंधये त्ततः ॥३८॥
समित्प्रादेशयुगळं च तु र्विंशांगुळः कुशैः
ब्रह्मकूर्चादयः
चतुर्विंशति दर्भैश्च ब्रह्मकूर्चादयस्मृता ॥३९॥
मूलमंगुळमु त्सृज्य तधाग्रं विनृजेद्बुधाः
पवित्रग्रंधि वद्ग्रंधि र्वेणि रूपं तधा कृतिः ॥४०॥
त्रिःप्रादेशंतु परिधी न्प्रादेशं स्यात्पवित्रकम्
सृस्कृवादीनि
यज्ञांगं खादिरोवापि स्रुक्रुवौकारयेत्सुधीः ॥४१॥
चतुर्विंशांगुळायामं तदग्रे कमलाकृतिः
बिलमंगुळमात्रं स्या त्स्रुवमेवं प्रकीर्तितम् ॥४२॥
द्वादशांगुळ दंडं स्या च्चतुरंगुळकं बिलम्
जुहुरष्टांगुळं चैव सृचमित्यभिधीयते ॥४३॥
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तम संहितायां
यागशालाकुंड तोरणादि लक्षणंनाम एकादशोध्यायः
श्री श्री श्री
N/A
References : N/A
Last Updated : January 21, 2021
TOP