संस्कृत सूची|संस्कृत साहित्य|संहिता|पुरुषोत्तमसंहिता|

पुरुषोत्तमसंहिता - एकानविंशोध्यायः

पुरुषोत्तम

श्रीभगवानुवाच
शय्याधिवासविधिः
अतःपरं प्रपक्ष्यामि शय्यावासक्रमं परम्
प्रतिष्ठाकर्म संसिद्धिर्भव त्येनन संशयः
[अधिकपाठाणि
मंटपं कल्पये दादौ सर्वलक्षणसंयुतं
षोडशस्तंभसंहितं अलंगारै रलंकृतं ॥१॥
कदळीपूगपुन्नाग क्रमुकादि तरून्‌तथा
कुशपुष्पादि मालाश्च वितानध्वजकेतनाः ॥२॥
द्वारकुंभांस्तोरणानिदर्पणानियथाक्रमं
अधाष्टमंगळां चैव अलंकृत्य समंततः ॥३॥
गुग्गुल्वागरुधूपानि दीपमालानि कल्बयेत्.
सुगंधेना नुलिप्याध रंगवल्लीं सम ॥४॥
पलानिचित्रा न्विन्यस्य मथ्ये मंडलमालिखेत्
स्वस्तिकंभद्रकंवापि चक्राब्जंचेतरंतुवा ५]
मंडलोपरिशय्यां तु कारये दुक्तमार्गतः
शय्यापरिकल्पनं
द्वादशाक्षरमंत्रेण वेदिकां प्राक्षये त्ततः
प्रागग्रानुदगग्रांश्च (कुशानास्तीर्यमंत्रवित्)दर्भानास्तीर्यपुष्कलम्
शालीनां नवभारैस्तु तंडुलानां तदर्थकैः ॥३॥
तिलानां तंडुला र्थैश्च पीठं (धान्यपीठं प्रकल्पयेत्)कुर्या त्सविस्तरम्
तस्योपरि व्याघ्रचर्म तूलिकां तदनंतरम् ॥४॥
मृद्वास्तरण संयुक्तां (निक्षिपेंद्रत्न कंबळं)कंबळान्युपरिन्यसेत्.
क्षौमं तस्योपरि न्यन्य चित्रवस्त्राणि निक्षिपेत् ॥५॥
(धौतवस्त्राणि तदनु)तत श्शुक्लानि वस्त्राणि सोवधानानि सर्वशः
शयनांगानि चासाद्य कस्तूरीगंधवासिताम् ॥६॥
नानापुष्पसमाकीर्णां नानालंकारशोभिताम्
भगवतोशयनं
(कृत्वाशय्यांततो देवं)शय्यां प्रकल्पदेवेशं शाययेद्विधिना ततः ॥७॥
ब्राह्मणैः पौरुषं सूक्त मुच्चरद्भिर्यधातधं
तूर्यघोषैर्मंगळैश्च मूर्तिपाश्चगुरुस्तथा ॥८॥
उत्तिष्ठेत्यादि मंत्रैश्च बिंब मुद्धाप्य यत्नतः
शय्यावेदीभुवं नीत्वाकुंडानां बाह्यमार्गतः ॥९॥
प्रदक्षिणक्रमेणैव शय्यायां शाययेद्गुरुः
विश्वतच्छक्षु रिति च यद्वैष्णव मिति स्मृतम् ॥१०॥
(मूर्ति मंत्रैश्चावयाच्छ)तन्मंत्राभ्यांशाययेच्चमंदिराभिमुखं(यथा)विभुम्
श्रियादीनि बिंबानि पार्श्वयोर्विनिवेशयेत् ॥११॥
युवासुवास इति च वस्त्रेणाच्छादयेत्ततः
ध्वजतोरणकुंभादीन्‌ पूजयित्वा यधाक्रमम्, ॥१२॥
आच्छादये त्तोरणानि नवैर्वासोभिरेव च
प्रागादिद्वारदेशेषु ऋगादिपठतोद्द्विजान् ॥१३॥
संस्थाप्य देशिको देवं हृदयेतु समाहितः
(ध्यानं कृत्वा)ध्यात्वा सत्वा ततः कुंभानष्टदिक्षु विनिक्षिपेत् ॥१४॥
थास्यराशिषु शंखं च चक्रं पद्मं गदां तधा
श्रीवत्सगरुडं कूर्मं ध्वजं स्वर्णमयंक्षिपेत् ॥१५॥
कुंभाना मंतराळेषु निक्षिवे न्मंगळाष्टकम्
साुकुराः पालिका स्थाप्य वेदिकायां समंततः ॥१६॥
अष्टौ विष्ण्वादिमूर्तीन्‌ च कुंभे ष्वष्टनुपूजयेत्
देवस्य वायुदिग्भागेथ्या राशौ नवस्त्रकम् ॥१७॥
महाकुंभस्थापनं
सापिधानं मणिस्वर्ण दिव्यगंधांबुपूरितम्
महाकुंभंतु संस्थाप्य तस्य पार्श्वॆ गळंतिकाम् ॥१८॥
कूर्चसूत्रांबरै र्युक्तांपुण्यतीर्थांबुपूरिताम्
[अधिकपाठाणि
फलपुष्प समायुक्तं सुवर्णप्रतिमायुताम्]
निवेश्य पायसान्नेन ब्राह्मणा न्भोजये(त्सुथीः)त्ततः ॥१९॥
होमं
ततो होमं प्रकुर्वीत ऋत्विजो देशिकाज्ञया
मथितं मणिजं वापि लौकिकं वाग्नि मानयेत् ॥२०॥
द्वादशाक्षरमंत्रेण प्रोक्ष्य पुण्याहवारिणा
दिव्याग्निं मनसा ध्यात्वाप्रत्यक्कुंडेतुविन्यसेत् ॥२१॥
दर्भैश्च सर्वकुंडे पर्यग्निकरणं चरेत्
स्धावये त्सर्वकुंडेषु प्रत्यक्कुंडाग्नि मेवच ॥२२॥
[अधिकपाठाणि
प्राच्या माहवनीयं च दक्षिणेदक्षिणाग्नि
प्रतीच्यां गार्णपत्याग्नि रुत्तुरे सध्यनामकः
अग्नेये आदसध्याग्निमानिक्रमशोजपेत्]
अग्निमध्यस्थपद्मेषु आघारादीन्यजे त्क्रमात्
वासुदेवं तु पूर्वाग्नौ याम्यॆसंकर्षणंतथा ॥२३॥
प्रद्युम्नं पश्चिमे कुंडे त्वनिरुद्थ मधोत्तरे
(नारायणं पद्मकुंडे अर्चयेच्छ यधातधं (पद्मकुंडे श्रियंदेवी मावाह्य विधिनार्चयेत्)पद्मकुंडे महालक्ष्मींध्याययेत्पुजयेत्ततः ॥२४॥
[अधिकपाठाणि
अग्नि बीजेन मतिमान्‌ वायुमंत्र मनुस्मरन्]
शालादक्षिणपार्श्वॆतु स्थाप्यधेनुचतुष्टयं
गंगा सरस्वति गोदा यमुना स्तासु पूजयेत् ॥२५॥
तादुहित्वा पायसान्नं पाचयेस्सविचक्षणः
प्राक्कुंडे जूहूया दग्ना वष्टोत्तरसहस्रकं ॥२६॥
कुंडस्थदेवमंत्रेण पायसान्नं तुहोमयेत्
कृसरान्नं दक्षिणाग्नौ गुडान्नं पश्चिमेतथा ॥२७॥
हरिद्रान्न मुदीच्यां तु (मुद्गान्न मीतराग्निषु)दुग्थान्न मितराग्निषु
तिलशालि (यवव्रीहि)यवै श्चैव वेणु बीजैर्यथाक्रमं ॥२८॥
ऋत्विजो जुहुया स्सर्वे गुर्वरुज्ञापुरस्सरं
कुंभावाहन विधिः
एवं जुत्विक्षु जुह्वत्सु महाकुंभे, गुरु र्यजेत् ॥२९॥
परंज्योति र्ज्ञानघनं समावाह्यच्युच्युतं हरिं
मूलमंत्रेण चार्ष्याद्यै श्पकळीकृत्य पूजयेत् ॥३०॥
सुदर्शनं तु करके ज्वालाभिः परिवेष्टितं
सहस्कादित्यसंकाशं सहस्रारं यधाविधिः ॥३१॥
षडक्षरेण मंत्रेण चावाह्य स्वयमर्चयेत्
तत्त्व संहार न्यासहोमादीनि
शयनस्धन्य देवस्य न्यासं संहार मेव च ॥३२॥
कृत्वासृष्टि क्रमेणैव (सृजॆत्तत्वानि देशिकः)पुनस्तत्वानि संसृजेत्.
तत्त्वानि गोघृतेनैव प्राक्कुंडे जूहुयात्ततः ॥३३
अष्टोत्तरशरं वापि चाष्टाविंशतिरेव वा
अष्टौवा तुयथाशक्ति(कुर्या दाहुतय स्तदा (दद्या दाहुतमो गुरुः)जुहुया त्तुपृधक्‌ पृधक् ॥३३॥
त्तत्त्वन्यासस्यहोमंतु कृत्वैवं तदनंतरं
दशप्राणादिवायूनां न्यासं कुर्यादिडादिषु ॥३४॥
षोडशन्यासक्रमः
मत्स्यादिव्यतिरिक्तेषु षोडनन्यास मीरितं
प्रधमं प्रणवन्यासं व्याहृती नां द्वितीयकं ॥३५॥
तृतीय मक्षरन्यासं ऋक्षाणां च चतुर्थकं
(कालन्या सं पंचमंच)कालस्य पंचमं ज्ञेयं वासरस्यतुषष्ठकम् ॥३६॥
वर्णन्यासं सप्तमं तु तोयन्यास मधाष्टमं
नवमं निगमन्यासं देवानां दशमं हितं ॥३७॥
एकादशं विराजं चक्रतुन्यासं तु द्वादशं
त्रयोदशं गुणन्यासं मूर्तिन्यासं चतुर्दशं ॥३८॥
शक्तिन्यासं ततःप्रोक्तं लोकन्या संतु षोडशं
शांतिहोमं
कृत्वैवं षोडशन्यासं शांतिहोमं समाचरेत् ॥३९॥
प्राक्कुंडेमधुवाहुत्वाभूस्वाहेतिशताहुतीः
संपाताज्यं तुसंगृह्य स्पृसेद्दॆवस्य पादयोः ॥४०॥
तधैव दक्षिणे कुंडे भुवस्वायेति मंत्रतः
पयसा च ततोहुत्वा हृदयं संन्पृशेद्बुधः ॥४१॥
ततः पश्चिमकुंडे तुसुवस्वाहेतिमंत्रतः
दध्नाहुत्वा मुखं न्पृन्य चोत्तरेत्रिश्रकुंडके ॥४२॥
सर्वैर्व्याहृतिभिश्चैव सर्पिषाहोममाचरेत्
संपातेन शिरोदेशेस्पृसे द्भिंबस्य देशिकः ॥४३॥
प्राक्कुंडे सर्पिषा चैव गुडेन मधुना स्वयम्
हुत्वातु विष्णुगायत्य्रा शत मष्टोत्तरं गुरुः ॥४४॥
कळावाहनं
संपातेन मुखं स्पृश्य वेदीदिक्कलशस्थितैः
खधिराश्वद्थपालाश बिल्वशाखाभि रंबुभिः ॥४५॥
सिंचेयुर्मूर्तिपास्सर्वे चाब्लिंगैः पावनैरपि
वेदिकाकोणकुंभस्थ वैतस्या शाखया गुरुः ॥४६॥
विष्णुगायत्रिया सिंचेद्बिंबानि नकलानि च
(सजीवकरणं कृत्वानैवे)सजीवकरणं कृत्वा निवेद्य चयधाविधि ॥४७॥
[अधिकपाठाणि
महाराजोपचारै श्च पूजयेद्देव मव्ययं
सहस्रनामपूजां च कृत्वा स्तुत्वा मुहुर्मुहुः
मूर्ति मंत्रं यधाशक्ति जपित्वातु गुरुस्स्वयं
तपश्शक्त्यास्वकीयेन गुरुहृत्पद्म संस्धितं
देवं बिंबे समारोस्य ब्रह्मरंध्रेण वर्त्मना
प्रणम्य शिरसा भूमौ नैवेद्यांतं समर्पयेत्
अर्घ्यपाद्योबचाराणि चामरव्यजनाडिकान्
समर्प्य प्रार्धयेद्देव माचार्यो निर्मलात्मवान्.]
कंकण बंधनं ब्रलि प्रदानं स्वप्नार्धशयनं
बध्नीया द्दक्षिणेहस्ते कौतुकं मूलजेरके
द्वारेषु च बलिं दत्वा स्वप्नाधिपतिमंत्रतः ॥४८॥
अष्टोत्तरशतं हुत्वापूर्णाहुति मधाचरेत्
[अधिकपाठाणि
अष्टदिग्बंधनं कृत्वा देवमाच्छाद्यवासना
वेदघोषै स्तूर्यघोषै स्तोत्रैर्नानाविधैप्तधा ॥४९॥
नृत्तगीतजयध्वानैर्भगवन्नामकीर्तनैः
मूर्तिमंत्रजपैश्चैव रात्रिशेषं समापयेत्.]
(आचार्यो यजमानाद्यैः)आचार्य यजमानाद्याः स्वप्नार्धं दर्भविष्टरे ॥५०॥
शायीर न्प्रात रुद्दाय भगवन्नाम उच्चरन्
[अधिकाठाणि
ग्रामं प्रदक्षिणी कृत्य महोत्सव समन्वितम्
आलयं संप्रविश्याध नित्यकर्म समाप्यच]
स्वप्नाभावेपिदुस्स्वप्ने शांतिंकुर्याद्गुरुस्स्वयं ॥५१॥
शुभं भवति चेत्कर्म प्रारभेत (यधाविधि)विचक्षणः
इत्येवं संग्रहेणैव प्रोक्तं शयन लक्षणम् ॥५२॥
इति पांचरात्रे महोपनिषदि श्रीपुरुषोत्तम संहितायां
शय्यादिवासविधिर्नाम एकोनविंशोध्यायः
श्रीश्रीश्री

N/A

References : N/A
Last Updated : January 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP