पुरुषोत्तमसंहिता - पंचमोध्यायः
श्रीमत्पांचरात्र दिव्यागमे श्रीपुरुषोत्तम संहितायां
प्रतिमा लक्षण
ब्रह्मौवाच-
श्रवणार्थं ब्रह्म प्रश्नः
भगवन् देवदेवेश प्रतिमालक्षणं मम
सुविस्तरं यथा ब्रूहि श्रोतु मिच्छामितत्वतः ॥१॥
श्रीभगवानुवाच-
श्रीफगवत्प्रति वचनं बेंब निर्माणावसर निरूपणं
प्रतिमां कारये त्पूर्वं साधक स्सुसमाहितः
सुरूपां लक्षणोपेतां देवदेवस्य शार्ङ्गिणः ॥२॥
तस्यां जीवं समारोप्य समाराध्य न सीदति
निराकारे तु देवेशे चित्तं न रमते यतः ॥३॥
विग्रहाराधन विशेषः
तस्मा दाकारव त्पूर्वं लक्षणं कृद्विचक्षणः
चिंतयन् सततंतंचचित्तस्थैर्यमवाप्नुयात् ॥४॥
स्थिरे चेतसि तत्रैह क्लेशहानि मवाप्नुयात्
क्षीणक्लेशस्तु पुरुषः परं निर्वाण मृच्छति ॥५॥
विरक्ति मूलतां याति तस्मा दर्चां कृते सति
तस्मा दर्चां प्रकुर्वीत वित्तसालंबनाय वै ॥६॥
प्रतिमाद्रव्य भेदः
रत्नं लोहं शिला मृच्च दारुस्पटिक मेव च
सद्द्रव्याणि प्रशस्तानि प्रतिमाकरणेद्विज ॥७॥
शिलासंग्रहः शिलासंग्रहण स्थलनिर्देशः
प्रथमं तु शिलां वक्ष्ये येषु शैलेषु दृश्यते
हेमकूटश्च निषधो हिमवान्नीलपर्वतः ॥८॥
मंदरो माल्यवां श्चैव त्रिकूटो मलयाचलः
गंधमादन मेरु श्च द शैते सर्वतोत्तमाः ॥९॥
एतेषु प्रतिमा ग्राह्या तदलाभे शिलां शृणु
भूगताया शिला ग्राह्या तदलाभे शिलां शृणु ॥१०॥
गिरौ च चित्रकूटाख्ये रैवताख्ये महागिरौ
सिंहाचले चित्रकूटे वेंगटेदर्दु रेतथा ॥११॥
तथाश्वेतगिरौ ग्राह्या तदलाभे शिलां शृणु
भूगत शिलाभेद कथनं
भूगता याशिलाप्रोक्तास्तासांवक्ष्यामिलक्षणम् ॥१२॥
वारुणेचैव माहेंद्री आग्नेयी वायवी तथा
चतस्रस्तु शिलाः प्रोक्तास्तासां लक्षण मुच्यते ॥१३॥
वारुणी
या पुष्पवन संकीर्णा जलाशयसमावृता
साक्षिती वारुणी ज्ञेया तत्रत्या कामदा शिला ॥१४॥
माहेंद्री
यस्यां चोत्तरत स्योयं व्रीहिक्षेत्रं तु दक्षिणे
पश्चिमे क्षीरवृक्षाश्च सा माहेंद्रीति किर्तिता ॥१५॥
आग्नेयी
पालाशखदिराश्वद्थ काश्मीरः पूर्वदक्षिणः
तिंत्रिण्याश्चकपोताश्चगृद्ध्राश्चैवतु वायसाः ॥१६॥
बलाहका बकाश्चैव दृश्यंतेयत्र संततम्
आग्नेयीसाक्षितीज्ञेयातत्रदाः कामदाश्शिलाः ॥१७॥
वायवी
तोय मंतर्गतं स्वल्पं खनने यत्र दृश्यते
पिलु श्लेष्मातकाकीर्ण स्नुद्विभीतकसंयुता ॥१८॥
तृणोदकविहीना च शर्करोत्कर संयुता
सृगालायत्र दृश्यंते तथैव मृगतृष्णकाः ॥१९॥
वायवी साक्षितिज्ञेया शिलातत्रतु वर्जिता
वर्जरीय स्थलानि
नदितिरे कूपतटे पूतिभूमौ चतुष्पदे ॥२०॥
वल्मीके पितृभूवौ च लवणोदक संकुले
आमेध्यभूमौ शबर चंडालादिनिषेविते ॥२१॥
देवालयसमीपे च तप्ते वा तातपादिभिः
देशे वर्जा श्शिलास्सर्वाः गृहीताचे दनर्थता ॥२२॥
ग्राह्यप्रदेशानि
पुण्यक्षेत्रेशुभे देशे ब्रह्म वृक्षनिरंतरे
कुशकाशोदकयुते मृगैःकृष्णैर्निषेविते ॥२३॥
पद्मोत्पलसमाकीर्ण व्रीहिक्षेत्रनिरंतरे
हिंतालपूगपुन्नाग नारिकेळसमन्विते ॥२४॥
तपस्विजनसंबंधे देशे ग्राह्याश्शिला स्सदा
वर्जनीयं विदि त्वैवं गुणदोषौ निरूप्य च ॥२५॥
देशभेदांश्च भूभेदान् लिंगभेदान् स्तधैवच
त्याज्यशिला संग्रहे प्रत्यवायः
ज्ञात्वैवं लक्षणैर्युक्तांगृह्णीयाच्छुभदांशिलाम् ॥२६॥
वर्जिताभि श्शिलाभिर्यः प्रतिमान् लोभमोहितः
कुर्या द्वाकारये द्वापिभवे तस्याभिकारकम् ॥२७॥
शिलायांब्राह्मणादि जातिभेदाः तल्लक्षणाश्च
शिलाश्चतुर्विधा ब्रह्मन् वर्णभेदैश्शिलादिभिः
ब्राह्मणस्य शिलाशुभ्राक्षत्रियस्यतुपाटला ॥२८॥
पीता वैश्य स्य शूद्रस्य कृष्णा मुख्यायथोदिता
ब्राह्मणस्य शिला स्त्रीस्रस्तिस्रोराज्ञस्तथैवच ॥२९॥
वैश्यस्य द्वेच विज्ञेया शूद्र स्याका प्रकीर्तिता
शिलासंग्रहे काल विनियमनम् शिला संग्रहण विधिः
प्रशस्तं सर्वमासेषु शिला संग्रहणं द्विज ॥३०॥
शकुनादिनिमित्तानां अनुकूलेन चान्वितः
रथकारेण सहिता स्थपतीनां गणैस्सहा ॥३१॥
ब्राह्मणान् भोजयित्वातुकृत्वां तेस्वस्तिवाचकम्
निर्गत स्तु शिलां पश्यॆत् तदा प्रभ्रृति नित्यशः ॥३२॥
अंकुरार्पण कुंभ स्थापनादि
शिलासंग्रहणे देशे कारये न्महतीं प्रपाम्
कृत्वांकुरार्पणंतत्रब्रह्मचारीहविष्यभुक् ॥३३॥
आचार्यो यजमानेन सार्थं तत्र विचक्षणः
कुंभं संस्थापयेत्तत्रमूलमंत्रेण साधकः ॥३४॥
आवाहयेत्ततो देवं मूर्तिमंत्रेण सर्वगम्
पूण्याहंवाचयित्पातु चक्रमुद्रांप्रदर्शयेत् ॥३५॥
महामुद्रां प्रदर्श्याध प्रणम्यांजलिमुद्रया
शिलायांमंडलीकृत्वातत्रविष्णुं मुदार्चयेत् ॥३६॥
कर्तु मिच्छति यां मूर्तिं तन्मंत्रेण समर्चयेत्
अर्चयित्वातुदिग्दैवान् भुतान्क्रूरभलिंक्षिपेत् ॥३७॥
बलिप्रदानम्
पललं रजनीचूर्णं सलाजं दधिसक्तु च
भूतं क्रूर मितिप्रोक्तं तैन भूतबलिंहरेत् ॥३८॥
होमं
होमं कुर्या च्चतुर्दिक्षु कुंडे वा स्थंडिलेपि वा
पलाशसमिधं पुष्पं फल माज्यं सपल्लवम् ॥३९॥
जुहुया न्मूलमंत्रेण वृथगष्टोत्तरं शतम्
चरुणा च नृसूक्तेन पृथक्कुंड चतुष्टयम् ॥४०॥
नकुंडे जुहुया त्तत्र सर्पषा वनदेवताः
पार्षदा नंडशैलां श्च तटशृंगानि झर्जरान् ॥४१॥
समुद्रांश्च तथा वृक्षानोषधीश्च वनस्पतीः
जरायुजा नंडजांश्च स्वेदजानुद्भिदस्तथा ॥४२॥
तथा सर्वाणि भूतानि मंत्त्रैस्तद्देवतापदैः
स्वाहंतैर्जुहु यात्पश्चा (हुवेदाद्याहुतीस्तथा) द्दुनेद्व्याहृतिभिस्तथा ॥४३॥
स्वप्नार्थशयनं
स्वप्नाधिवतिमंत्रेण पृथगष्टोत्तरं शतम्
पूर्णाहुत्यंत मखिलं कृत्वाकर्म विचक्षणः ॥४४॥
उपोष्य धर्भशय्यायां प्रभाते च जितेंद्रियः
आचार्यस्सुस्थिलोभूत्वाइमंमंत्रमुदीरयॆत् ॥४५॥
ओंनमः स्सर्वलोकाय विष्णवे प्रभविष्णवे
विश्वाय विश्वरूपाय स्वप्नाधिपतये समः ॥४६॥
शत मष्टोत्तरं मंत्रं इमं जप्त्या स्वपे द्बुधः
सुप्त्वा स्वप्ने तत श्शैलंयदिवश्येत्समुज्वलम् ॥४७॥
प्रवृद्धशिखरं तत्र कांचनद्रुमभूषितम्
फलपुष्पसमायुक्तं रूपेत्वं शैलजैर्द्रुमैः ॥४८॥
एवंभूते यदि स्वप्नं प्रतिमा शोभना भवेत्
प्रात रेतु शिलाग्राह्या शांतिं कुर्याददर्मने ॥४९॥
शीलां मुहूर्ते संपश्येत् शोभने देशिकोत्तमः
यक्षाःपिशाचा नागाद्यायत्र तिष्ठंति नित्यशः ॥५०॥
सर्वेते प्यपगच्छंतु सन्निधत्तां सदा हरिः
इत्युक्त्वा मंत्रसंसिद्धासिद्धार्थान् तत्र निक्षिपेत् ॥५१॥
तेन मंत्रेण भूतेभ्यः प्रत्याशं निक्षिपेद्बलिम्
पुण्याहंवाचयित्वातु पौरुषेण शिलांस्पृशेत् ॥५२॥
मूलमंत्रेण दत्वार्घ्यं जपेदष्टोत्तरं शतम्
सूत्रपातादीनि
बिंबस्य चानुरूपेण पातये त्सूत्रमब्जज ॥५३॥
शिलां संस्थापयेत् स्थित्वा रथकारस्य शासनात्
ग्रीवभेदेन फलभेदः
दक्षिणोत्तर मायामं तथा वैपूर्वपश्चिमम् ॥५४॥
उत्तरे दक्षिणग्रीवा पूर्वग्रीवा जयप्रदा
श्रीकरी पश्मिमग्रीवा कर्त्रुर्भवति नित्यशः ॥५५॥
पूष्टिदा चोत्तरग्रीवा कोणग्रीवातु वर्जिता
मूलभागशिला यातु उपरिष्ठा द्भवेत्सदा ॥५६॥
अधस्था च्छे च्छिरोभागो विपत्यो नेत्र दंष्ट्रयोः
महाकुंभस्थतोयेनस्नापयेत्संभृतांशिलाम् ॥५७॥
महाकुंभ स्नपनादि
स्वर्णगोभूतिलांदत्वा शांतिहोमं समाचरेत्
उत्पाट्यमानेदृश्यंतेस्फुलिंगा यत्रचाग्निवत् ॥५८॥
नादेनवर्चनीयशिला निरूपणं
नादश्च कांस्यघंटाच एतच्छिन्हानि वर्जयेत्
कांस्य वन्मध्यभागेतुमूले वैकांस्यताडने ॥५९॥
नादेनलिंग निरूपणं
ध्पनिर्यस्या श्सिलायास्तु सपुमा नितिकीर्तितः
न्यून स्तस्मा ध्वनेःकिंचिच्छेदने यत्रसा रमा ॥६०॥
शीलानादविहीनंतु नपुंसक मुदाहृतम्
स्त्रीपुन्नपुंसक शिलानामुपयोगानि गर्भवतीशिलावर्जनीयां गर्भपरीक्षा
पुल्लिंगे प्रतिमा प्रोक्ता स्त्रीलिंगे पादपीठिका ॥६१॥
नपुंसकशिलायांतु रत्नन्यास मुदाहृतम्
गर्भवत्यं शिला वर्जागर्भाच्चांतर्व्यवस्थिताः ॥६२॥
तस्माद्गर्भं परीक्ष्येत च्छेदने भेदने पिवा
नवनीतं महिषजं शृंगमेषस्य चूर्णितम् ॥६३॥
चूर्णं च कुरविंदस्य संपेष्य पयसा गवाम्
शिलायां सर्वतो लिंपेद्गर्भव्यक्तिस्ततो भवेत् ॥६४॥
मंडला यत्र दृश्यंते तत्र गर्भं विनिक्षिपेत्
मांजिष्ठवर्णसदृशे मंडले दर्दुरो भवेत् ॥६५॥
पीतके मंडलेगोधा कृष्णेकृष्णाहि रेव च
कपिले मूषिका प्रोक्ताकृकलानस्तुवारुणि ॥६६॥
गुडवर्णॆतु पाषाणः तंडुले गृहगौळिका
अंभःकृपाणसदृशे वालुकापद्मसन्निभे ॥६७॥
विचित्तेवृश्चिकंज्ञेयः नीले वीते पतंगकः
मधुवर्णेतु खद्यॊतो मंडले निर्दिशे द्बुधः ॥६८॥
गर्भभेदफलानि
दर्दुरेश्या दनारोग्यं गोधाया दुर्भयोभवेत्
विषेण म्रिय्यते सर्पिरनपत्यस्तुमूषके ॥६९॥
कृकलासे तु चाल्पायुः पाषाणे शनिना हतः
गौळिकायां धनापायो जलेवै गर्भनाशनम् ॥७०॥
शिकते तु जलापायः वृश्चिके कलहस्तथा
शलभे राष्ठ्रनाशस्वात् खद्योतेतु कुलक्षयम् ॥७१॥
तस्माद्यत्ना त्परीक्ष्येत गर्फं नित्य मतंद्रितः
गर्भिणी शिलासंग्रहे प्रत्यवायः
गर्भयुक्तांशिलांमोहात्प्रतिमांक्रियतेयदि ॥७२॥
तन्मंडलाधिपो राजा कारक स्तापक स्तथा
नीमिलिता भवं त्येते तस्माद्गर्भं परीक्षयेत् ॥७३॥
श्रीयादिबिंबनिर्माण विषये शिला संग्रलणे विशेषः
देविनां च रमादीनां निर्माणे स्त्रीशिला वरा
पुंश्शिला पादपीठं स्या द्रत्नन्यासोनपुंसके ॥७४॥
देवी बिंबविनिर्माणे कुंभमध्ये विचक्षणः
आवाह्य मूलमंत्रेणश्रियं त्रैलोक्यमातरम् ॥७५॥
होमादि पूर्ववत्कुर्यात् श्रीसूक्तेन तु साधाः
अस्त्रिया शिलया देवी निर्मिता चे त्प्रमादतः ॥७६॥
लोभयुक्तेन मरसा स नाश मधिगच्छति
परिवार शिलासंग्रहः
तत्रैव देशे संग्राह्य् परिवारशिला श्शुभाः ॥७७॥
शिलासंग्रहणं तेषां (स्वस्यमंत्रैर्यधाक्रमम्) कुर्यान्मंत्रैर्यधा क्रमम्
आचार्यदचक्षिणां दत्यात् यथाविभवविस्तरम् ॥७८॥
शिलां गृहित्वातांयत्ना दारोप्य शकटादिषु
नीत्वा धाम्नि स्थपतयो रथकारमतानुगाः ॥७९॥
कुर्युरर्चां यधाशास्त्रं चोदितैर्लक्षणैर्युतम्
इति श्रीपांचरात्रेमहोपनिषदि पुरुषोत्तमसंहितायां
शिलासंग्रहणविधानं नाम पंचमोध्यायः
श्रीश्रीश्री
N/A
References : N/A
Last Updated : January 20, 2021
TOP