पुरुषोत्तमसंहिता - द्वितीयोध्यायः
श्रीमत्पांचरात्र दिव्यागमे श्रीपुरुषोत्तम संहितायां
ऋषयः-
आचार्यादि लक्षण श्रवणार्थं ऋषि प्रश्नः
मौनींद्र भवता प्रोक्त माचार्यं वरये दिति
कीदृशो यजमानस्तुकिमाचार्यस्य लक्षणम् ॥१॥
लक्षणं वद चास्माक माचार्ययजमानयोः
श्रीवसिष्ठः-
श्रीवसिष्ठ प्रतिवचनं आचार्य लक्षणं
ब्राह्मणःक्षत्रियोवैश्यश्शूद्रोवाप्यनुलोमजः ॥२॥
श्रद्धाभक्तिसमायुक्तो धनाढ्यो धर्मतत्परः
यजमानःप्रसन्नात्मा देवयागार्थ मादरात् ॥३॥
आचार्यं वरये त्पूर्वं ततधीना हि सिद्धयः
पांचरात्रविदं शांतं सिद्धांतेषु कृतश्रमम् ॥४॥
भगवद्वंशजं शुद्ध मलोलुप मदांभिकम्
महाभागवत श्रेष्ठ (मेकपत्नीदृढव्रतम्) मेकपत्नीव्रतं शुभम् ॥५॥
ब्राह्मणं सत्यसंपन्नं सदाचारसमन्वितम्
सर्वावयव(संपन्नं)सौंदर्यं युवानं वेदवेदिनम् ॥६॥
सर्वशास्त्रार्थतत्वज्ञ मग्निहोत्रधरं शुचिम्
उत्पत्तिस्थितिसंहार वेदिनं ब्रह्मवादिनम् ॥७॥
[अधिकपाठाणि
श्ला ॥श्रद्धाभक्तिसमायुक्तं प्रपन्नं दीक्षितंगुरुम्
परोपकारनिरतं योगविद्याकृतश्रमम्
शांतंदांतंकीर्तिमंतं सर्वसद्गुण शोभितम्
पापदूरं प्रसन्नात्म मष्टाक्षरपरायणम्.]
प्रतिष्ठाकर्मतत्वज्ञं संध्योपासनतत्परम्
आचार्यवरण क्रमः
एवं लक्षणंसंयुक्त माचार्यं परये त्ततः ॥८॥
समये यजमानस्तुगां भुवं कांचनं तथा
नारिकेळंच कर्मादावाचार्याय प्रदावयेत् ॥९॥
भूपरीक्षा
आचार्यो यजमानश्च देवागारस्य सिद्धये
भूपरीक्षादिकं कुर्यात् (शास्त्रोक्तेनतुवर्त्मना)शास्त्रदृष्टेन वर्त्मना ॥१०॥
वसुधाभेद कथनम् योग्यायोग्य वसुधा निरूपणं
सुपद्माभद्रका पूर्णाधूम्राचेति चतुर्विधा
आद्यस्तिस्त्रःपरिग्राह्याश्चांत्या स्त्याज्याद्विजोत्तमाः ॥११॥
कुशदर्भैस्समाकीर्णा नित्यं तोयेन संयुता
सुपद्मालक्षणं
हरिणोयत्र तिष्ठंति सा सुपद्मेति कीर्तिता ॥१२॥
भद्रका लक्षणं
फलिनो याज्ञिका वृक्षा लतागुल्मसमन्विताः
पूर्णा लक्षणं
दृश्यंते भद्रका सा च पूर्णेति परिकीर्त्यते ॥१३॥
धूम्रा लक्षणं
अधोजलसमायुक्ता गिरेश्शिखर माश्रिता
वायसश्येनगृध्राढ्या कठिना वृकसंकुला ॥१४॥
ऊसरक्षेत्र संयुक्ता साधूम्रेति प्रकीर्तिता
धूम्रांचवर्जयेध्भूमिं भद्रकादिषुकारयेत् ॥१५॥
खननविधिः
जानुमात्रं खनेद्भूमिंमृदमुधृत्यपूरयेत्
उत्तमाभूमिः
पांसुरभ्यधिको यत्रसाभूमिश्चोत्तमामता ॥१६॥
मध्यमा अधमा कर्षणं बीजावापः बीजावापेन ग्राह्याग्राह्यभू निरूपणं
समत्वे मध्यमा चैव हीना स्या दधमा मतौ
सम्यक्परीक्ष्यबहुधाकर्षयेल्लांगलैःक्रमात् ॥१७॥
वावये त्तिल मुद्गांश्च यवनीवारसर्षपान्
अधवा सर्वधान्यानि याज्ञीकानि समंततः ॥१८॥
त्रिरात्रा दधिरोहंति उत्तमा भूमिरुच्यते
अप्ररूढेन याभूमिः प्रयत्नेनविवर्जयेत् ॥१९॥
फलकाले तु सस्यानां गवांतृप्तिं च कारयेत्
ततस्तु लोकपालांश्च पूजये द्देशिकोत्तमः ॥२०॥
लाजैः फलैरपूपैश्च निशीधेतु बलिंक्षिपेत्
रक्तगंधैश्चपुष्पैश्चकुमुदादींश्च पूजयेत् ॥२१॥
भूपूजावास्तु पूजादिकं
(ततोभूमिं समभ्यर्च्य)भूदेवींच समभ्यर्च्य वास्तुपूजां च कारयेत्
शांतिहोमंततःकृत्वारात्रौजागरणंचरेत् ॥२२॥
ततश्च विमले शुद्धे प्रभाते कृतकृत्यवान्
(पुण्याहंचयित्वातु)पुण्याहंतुप्रकुर्वीत ब्राह्मणान्भोजयेत्ततः ॥२३॥
पुनःखननं
क्षेत्रं तत्खातये त्पश्चा दाजलांतं समंततः
तज्जले वरुणं पूज्य शिलाशंकुंच कारयेत् ॥२४॥
शंकुस्थापन विधिः
तच्छंकुं त्रिविधं कृत्वा चा धस्ता च्चतुरं तथा
तन्मध्येचाष्टफलकंतदग्रं कमलाकृतिः ॥२५॥
एवं लक्षण संयुक्तं शंकुं संपूजये त्ततः
रक्षासूत्रेण संवेष्ट्यगर्ते रत्नादिकं न्यसेत् ॥२६॥
कूर्मयंत्रं प्रतिष्ठाव्य यंत्रं सौदर्शनंमहत्
तस्योपरि च विन्यन्यशिलाशंकुं निवेशयेत् ॥२७॥
पूरण विधिः
प्रथमे सैकतं पूर्य द्वितीये शर्करास्तथा
धात्रीफलं तृतीयेतु चतुर्थे जंबुकाफलं ॥२८॥
पंचमेतु कपित्थंच नारिकेळं तु षष्ठके
सप्तमे तु फलं बिल्वमेताव त्प्रस्तरावधि ॥२९॥
संपूर्य चाष्टभागेच पंकिलं पूरयेत्ततः
चतुरश्रं समं कुर्या दस्तिपादेन घट्टयेत् ॥३०॥
शंकु मेवं प्रतिष्ठाव्य चालयंतु समारभेत्
विभवानुगुणेनैव कारयेदालयोन्नतिम् ॥३१॥
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तम संहितायां
आचार्यादिलक्षण भूपरीक्षाविधिर्नाम
द्वितियोध्यायः
N/A
References : N/A
Last Updated : January 20, 2021
TOP