विश्वेश्वरसंहिता - अध्याय २१ वा
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
ऋषय ऊचुः
सूत सूत महाभाग व्यासशिष्य नमोस्तु ते
सम्यगुक्तं त्वया तात पार्थिवार्चाविधानकम् ॥१॥
कामनाभेदमाश्रित्य संख्यां ब्रूहि विधानतः
शिवपार्थिवलिंगानां कृपया दीनवत्सल ॥२॥
सूत उवाच
शृणुध्वमृषयः सर्वे पार्थिवार्चाविधानकम्
यस्यानुष्ठानमात्रेण कृतकृत्यो भवेन्नरः ॥३॥
अकृत्वा पार्थिवं लिंगं योन्यदेवं प्रपूजयेत्
वृथा भवति सा पूजा दमदानादिकं वृथा ॥४॥
संख्या पार्थिवलिंगानां यथाकामं निगद्यते
संख्या सद्यो मुनिश्रेष्ठ निश्चयेन फलप्रदा ॥५॥
प्रथमावाहनं तत्र प्रतिष्ठा पूजनं पृथक्
लिंगाकारं समं तत्र सर्वं ज्ञेयं पृथक्पृथक् ॥६॥
विद्यार्थी पुरुषः प्रीत्या सहस्रमितपार्थिवम्
पूजयेच्छिवलिंगं हि निश्चयात्तत्फलप्रदम् ॥७॥
नरः पार्थिवलिंगानां धनार्थी च तदर्द्धकम्
पुत्रार्थी सार्द्धसाहस्रं वस्त्रार्थी शतपंचक्रम् ॥८॥
मोक्षार्थी कोटिगुणितं भूकामश्च सहस्रकम्
दयार्थी च त्रिसाहस्रं तीर्थार्थी द्विसहस्रकम् ॥९॥
सुहृत्कामी त्रिसाहस्रं वश्यार्थी शतमष्टकम्
मारणार्थी सप्तशतं मोहनार्थी शताष्टकम् ॥१०॥
उच्चाटनपरश्चैव सहस्रं च यथोक्ततः
स्तंभनार्थी सहस्रं तु द्वेषणार्थी तदर्द्धकम् ॥११॥
निगडान्मुक्तिकामस्तु सहस्रं सर्द्धमुत्तमम्
महाराजभये पंचशतं ज्ञेयं विचक्षणैः ॥१२॥
चौरादिसंकटे ज्ञेयं पार्थिवानां शतद्वयम्
डाकिन्यादिभये पंचशतमुक्तं जपार्थिवम् ॥१३॥
दारिद्र ये! पंचसाहस्रमयुतं सर्वकामदम्
अथ नित्यविधिं वक्ष्ये शृणुध्वं मुनिसत्तमाः ॥१४॥
एकं पापहरं प्रोक्तं द्विलिंगं चार्थसिद्धिदम्
त्रिलिंगं सर्वकामानां कारणं परमीरितम् ॥१५॥
उत्तरोत्तरमेवं स्यात्पूर्वोक्तगणनाविधि
मतांतरमथो वक्ष्ये संख्यायां मुनिभेदतः ॥१६॥
लिंगानामयुतं कृत्वा पार्थिवानां सुबुद्धिमान्
निर्भयो हि भवेन्नूनं महाराजभयं हरेत् ॥१७॥
कारागृहादिमुक्त्यर्थमयुतं कारयेद्बुधः
डाकिन्यादिभये सप्तसहस्रं कारयेत्तथा ॥१८॥
सहस्राणि पंचपंचाशदपुत्रः प्रकारयेत्
लिंगानामयुतेनैव कन्यकासंततिं लभेत् ॥१९॥
लिंगानामयुतेनैव विष्ण्वादैश्वर्यमाप्नुयात्
लिंगानां प्रयुतेनैव ह्यतुलां श्रियमाप्नुयात् ॥२०॥
कोटिमेकां तु लिंगानां यः करोति नरो भुवि
शिव एव भवेत्सोपि नात्र कार्य्या विचारणा ॥२१॥
अर्चा पार्थिवलिंगानां कोटियज्ञफलप्रदा
भुक्तिदा मुक्तिदा नित्यं ततः कामर्थिनां नृणाम् ॥२२॥
विना लिंगार्चनं यस्य कालो गच्छति नित्यशः
महाहानिर्भवेत्तस्य दुर्वृत्तस्य दुरात्मनः ॥२३॥
एकतः सर्वदानानि व्रतानि विविधानि च
तीर्थानि नियमा यज्ञा लिंगार्चा चैकतः स्मृता ॥२४॥
कलौ लिंगार्चनं श्रेष्ठं तथा लोके प्रदृश्यते
तथा नास्तीति शास्त्राणामेष सिद्धान्तनिश्चयः ॥२५॥
भुक्तिमुक्तिप्रदं लिंगं विविधापन्निवारणम्
पूजयित्वा नरो नित्यं शिवसायुज्यमाप्नुयात् ॥२६॥
शिवानाममयं लिंगं नित्यं पूज्यं महर्षिभिः
यतश्च सर्वलिंगेषु तस्मात्पूज्यं विधानतः ॥२७॥
उत्तमं मध्यमं नीचं त्रिविधं लिंगमीरितम्
मानतो मुनिशार्दूलास्तच्छृणुध्वं वदाम्यहम् ॥२८॥
चतुरंगुलमुच्छ्रायं रम्यं वेदिकया युतम्
उत्तमं लिंगमाख्यातं मुनिभिः शास्त्रकोविदैः ॥२९॥
तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमघमं स्मृतम्
इत्थं त्रिविधमाख्यातमुत्तरोत्तरतः परम् ॥३०॥
अनेकलिंगं यो नित्यं भक्तिश्रद्धासमन्वितः
पूजयेत्स लभेत्कामान्मनसा मानसेप्सितान् ॥३१॥
न लिंगाराधनादन्यत्पुण्यं वेदचतुष्टये
विद्यते सर्वशास्त्राणामेष एव विनिश्चयः ॥३२॥
सर्वमेतत्परित्यज्य कर्मजालमशेषतः
भक्त्या परमया विद्वाँ ल्लिंगमेकं प्रपूजयेत् ॥३३॥
लिंगेर्चितेर्चितं सर्वं जगत्स्थावरजंगमम्
संसारांबुधिमग्नानां नान्यत्तारणसाधनम् ॥३४॥
अज्ञानतिमिरांधानां विषयासक्तचेतसाम्
प्लवो नान्योस्ति जगति लिंगाराधनमंतरा ॥३५॥
हरिब्रह्मादयो देवा मुनयो यक्षराक्षसाः
गंधर्वाश्चरणास्सिद्धा दैतेया दानवास्तथा ॥३६॥
नागाः शेषप्रभृतयो गरुडाद्याःखगास्तथा
सप्रजापतयश्चान्ये मनवः किन्नरा नराः ॥३७॥
पूजयित्वा महाभक्त्या लिंगं सर्वार्थसिद्धिदम्
प्राप्ताः कामानभीष्टांश्च तांस्तान्सर्वान्हृदि स्थितान् ॥३८॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा प्रतिलोमजः
पूजयेत्सततं लिंगं तत्तन्मंत्रेण सादरम् ॥३९॥
किं बहूक्तेन मुनयः स्त्रीणामपि तथान्यतः
अधिकारोस्ति सर्वेषां शिवलिंगार्चने द्विजाः ॥४०॥
द्विजानां वैदिकेनापि मार्गेणाराधनं वरम्
अन्येषामपि जंतूनां वैदिकेन न संमतम् ॥४१॥
वैदिकानां द्विजानां च पूजा वैदिकमार्गतः
कर्तव्यानान्यमार्गेण इत्याह भगवाञ्छिवः ॥४२॥
दधीचिगौतमादीनां शापेनादग्धचेतसाम्
द्विजानां जायते श्रद्धानैव वैदिककर्मणि ॥४३॥
यो वैदिकमनादृत्य कर्म स्मार्तमथापि वा
अन्यत्समाचरेन्मर्त्यो न संकल्पफलं लभेत् ॥४४॥
इत्थं कृत्वार्चनं शंभोर्नैवेद्यांतं विधानतः
पूजयेदष्टमूर्तीश्च तत्रैव त्रिजगन्मयीः ॥४५॥
क्षितिरापोनलो वायुराकाशः सूर्य्यसोमकौ
यजमान इति त्वष्टौ मूर्तयः परिकीर्तिताः ॥४६॥
शर्वो भवश्च रुद्र श्च उग्रोभीम इतीश्वरः
महादेवः पशुपतिरेतान्मूर्तिभिरर्चयेत् ॥४७॥
पूजयेत्परिवारं च ततः शंभोः सुभक्तितः
ईशानादिक्रमात्तत्र चंदनाक्षतपत्रकैः ॥४८॥
ईशानं नंदिनं चंडं महाकालं च भृंगिणम्
वृषं स्कंदं कपर्दीशं सोमं शुक्रं च तत्क्रमात् ॥४९॥
अग्रतो वीरभद्रं च पृष्ठे कीर्तिमुखं तथा
तत एकादशान्रुद्रा न्पूजयेद्विधिना ततः ॥५०॥
ततः पंचाक्षरं जप्त्वा शतरुद्रि यमेव च
स्तुतीर्नानाविधाः कृत्वा पंचांगपठनं तथा ॥५१॥
ततः प्रदक्षिणां कृत्वा नत्वा लिंगं विसर्जयेत्
इति प्रोक्तमशेषं च शिवपूजनमादरात् ॥५२॥
रात्रावुदण्मुखः कुर्याद्देवकार्यं सदैव हि
शिवार्चनं सदाप्येवं शुचिः कुर्यादुदण्मुखः ॥५३॥
न प्राचीमग्रतः शंभोर्नोदीचीं शक्तिसंहितान्
न प्रतीचीं यतः पृष्ठमतो ग्राह्यं समाश्रयेत् ॥५४॥
विना भस्मत्रिपुंड्रेण विना रुद्रा क्षमालया
बिल्वपत्रं विना नैव पूजयेच्छंकरं बुधः ॥५५॥
भस्माप्राप्तौ मुनिश्रेष्ठाः प्रवृत्ते शिवपूजने
तस्मान्मृदापि कर्तव्यं ललाटे च त्रिपुंड्रकम् ॥५६॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवपूजनवर्णनं नामैकविंशोऽध्यायः ॥२१॥
N/A
References : N/A
Last Updated : September 27, 2020
TOP