संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|विश्वेश्वरसंहिता| अध्याय ८ वा विश्वेश्वरसंहिता विषयानुक्रमणिका अध्याय १ ला अध्याय २ रा अध्याय ३ रा अध्याय ४ था अध्याय ५ वा अध्याय ६ वा अध्याय ७ वा अध्याय ८ वा अध्याय ९ वा अध्याय १० वा अध्याय ११ वा अध्याय १२ वा अध्याय १३ वा अध्याय १४ वा अध्याय १५ वा अध्याय १६ वा अध्याय १७ वा अध्याय १८ वा अध्याय १९ वा अध्याय २० वा अध्याय २१ वा अध्याय २२ वा अध्याय २३ वा अध्याय २४ वा अध्याय २५ वा विश्वेश्वरसंहिता - अध्याय ८ वा शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्याय ८ वा Translation - भाषांतर नंदिकेश्वर उवाचससर्जाथ महादेवः पुरुषं कंचिदद्भुतम्भैरवाख्यं भ्रुवोर्मध्याद्ब्रह्मदर्पजिघांसया ॥१॥स वै तदा तत्र पतिं प्रणम्य शिवमंगणेकिं कार्यं करवाण्यत्र शीघ्रमाज्ञापय प्रभो ॥२॥वत्सयोऽयं विधिः साक्षाज्जगतामाद्यदैवतम्नूनमर्चय खड्गेन तिग्मेन जवसा परम् ॥३॥स वै गृहीत्वैककरेण केशं तत्पंचमं दृप्तमसत्यभाषणम्छित्त्वा शिरांस्यस्य निहंतुमुद्यतः प्रकंपयन्खड्गमतिस्फुटं करैः ॥४॥पिता तवोत्सृष्टविभूषणांबरस्रगुत्तरीयामलकेशसंहतिःप्रवातरंभेव लतेव चंचलः पपात वै भैरवपादपंकजे ॥५॥तावद्विधिं तात दिदृक्षुरच्युतः कृपालुरस्मत्पतिपादपल्लवम्निषिच्य बाष्पैरवदत्कृतांजलिर्यथा शिशुः स्वं पितरं कलाक्षरम् ॥६॥अच्युत उवाचत्वया प्रयत्नेन पुरा हि दत्तं यदस्य पंचाननमीशचिह्नम्तस्मात्क्षमस्वाद्यमनुग्रहार्हं कुरु प्रसादं विधये ह्यमुष्मै ॥७॥इत्यर्थितोऽच्युतेनेशस्तुष्टः सुरगणांगणेनिवर्तयामास तदा भैरवं ब्रह्मदंडतः ॥८॥अथाह देवः कितवं विधिं विगतकंधरम्ब्रह्मंस्त्वमर्हणाकांक्षी शठमीशत्वमास्थितः ॥९॥नातस्ते सत्कृतिर्लोके भूयात्स्थानोत्सवादिकम्ब्रह्मोवचस्वामिन्प्रसीदाद्य महाविभूते मन्ये वरं वरद मे शिरसः प्रमोक्षम् ॥१०॥नमस्तुभ्यं भगवते बंधवे विश्वयोनयेसहिष्णवे सर्वदोषाणां शंभवे शैलधन्वने ॥११॥ईश्वर उवाचअराजभयमेतद्वै जगत्सर्वं न शिष्यतिततस्त्वं जहि दंडार्हं वह लोकधुरं शिशो ॥१२॥वरं ददामि ते तत्र गृहाण दुर्लभं परम्वैतानिकेषु गृह्येषु यज्ञे च भवान् गुरुः ॥१३॥निष्फलस्त्वदृते यज्ञः सांगश्च सहदक्षिणःअथाह देवः कितवं केतकं कूटसाक्षिणम् ॥१४॥रे रे केतक दुष्टस्त्वं शठ दूरमितो व्रजममापि प्रेम ते पुष्पे मा भूत्पूजास्वितः परम् ॥१५॥इत्युक्ते तत्र देवेन केतकं देवजातयःसर्वानि वारयामासुस्तत्पार्श्वादन्यतस्तदा ॥१६॥केतक उवाचनमस्ते नाथ मे जन्मनिष्फलं भवदाज्ञयासफलं क्रियतां तात क्षम्यतां मम किल्बिषम् ॥१७॥ज्ञानाज्ञानकृतं पापं नाशयत्येव ते स्मृतिःतादृशे त्वयि दृष्टे मे मिथ्यादोषः कुतो भवेत् ॥१८॥तथा स्तुतस्तु भगवान्केतकेन सभातलेन मे त्वद्धारणं योग्यं सत्यवागहमीश्वरः ॥१९॥मदीयास्त्वां धरिष्यंति जन्म ते सफलं ततःत्वं वै वितानव्याजेन ममोपरि भविष्यसि ॥२०॥इत्यनुगृह्य भगवान्केतकं विधिमाधवौविरराज सभामध्ये सर्वदेवैरभिष्टुतः ॥२१॥इति श्रीशिवमहापुराणे विद्येश्वरसंहितायामष्टमोऽध्यायः ॥८॥ N/A References : N/A Last Updated : September 27, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP