विश्वेश्वरसंहिता - अध्याय १४ वा

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः
अग्नियज्ञं देवयज्क्तं ब्रह्मयज्क्तं तथैव च
गुरुपूजां ब्रह्मतृप्तिं क्रमेण ब्रूहि नः प्रभो ॥१॥
सूत उवाच
अग्नौ जुहोति यद्द्रव्यमग्नियज्ञः स उच्यते
ब्रह्मचर्याश्रमस्थानां समिदाधानमेव हि ॥२॥
समिदग्रौ व्रताद्यं च विशेषयजनादिकम्
प्रथमाश्रमिणामेवं यावदौपासनं द्विजाः ॥३॥
आत्मन्यारोपिताग्नीनां वनिनां यतिनां द्विजाः
हितं च मितमेध्यान्नं स्वकाले भोजनं हुतिः ॥४॥
औपासनाग्निसंधानं समारभ्य सुरक्षितम्
कुंडे वाप्यथ भांडे वा तदजस्रं समीरितम् ॥५॥
अग्निमात्मन्यरण्यां वा राजदैववशाद्ध्रुवम्
अग्नित्यागभयादुक्तं समारोपितमुच्यते ॥६॥
संपत्करी तथा ज्ञेया सायमग्न्याहुतिर्द्विजाः
आयुष्करीति विज्ञेया प्रातः सूर्याहुतिस्तथा ॥७॥
अग्नियज्ञो ह्ययं प्रोक्तो दिवा सूर्यनिवेशनात्
इंद्रा दीन्सकलान्देवानुद्दिश्याग्नौ जुहोतियत् ॥८॥
देवयज्ञं हि तं विद्यात्स्थालीपाकादिकान्क्रतून्
चौलादिकं तथा ज्ञेयं लौकिकाग्नौ प्रतिष्ठितम् ॥९॥
ब्रह्मयज्ञं द्विजः कुर्याद्देवानां तृप्तये सकृत्
ब्रह्मयज्ञ इति प्रोक्तो वेदस्याऽध्ययनं भवेत् ॥१०
नित्यानंतरमासोयं ततस्तु न विधीयते
अनग्नौ देवयजनं शृणुत श्रद्धयादरात् ॥११॥
आदिसृष्टौ महादेवः सर्वज्ञः करुणाकरः
सर्वलोकोपकारार्थं वारान्कल्पितवान्प्रभुः ॥१२॥
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम्
आदावारोग्यदं वारं स्ववारं कृतवान्प्रभुः ॥१३॥
संपत्कारं स्वमायाया वरं च कृतवांस्ततः
जनने दुर्गतिक्रांते कुमारस्य ततः परम् ॥१४॥
आलस्यदुरितक्रांत्यै वारं कल्पितवान्प्रभुः
रक्षकस्य तथा विष्णोर्लोकानां हितकाम्यया ॥१५॥
पुष्ट्यर्थं चैव रक्षार्थं वारं कल्पितवान्प्रभुः
आयुष्करं ततो वारमायुषां कर्तुरेव हि ॥१६॥
त्रैलोक्यसृष्टिकर्त्तुर्हि ब्रह्मणः परमेष्ठिनः
जगदायुष्यसिद्ध्यर्थं वारं कल्पितवान्प्रभुः ॥१७॥
आदौ त्रैलोक्यवृद्ध्यर्थं पुण्यपापे प्रकल्पिते
तयोः कर्त्रोस्ततो वारमिंद्र स्य च यमस्य च ॥१८॥
भोगप्रदं मृत्युहरं लोकानां च प्रकल्पितम्
आदित्यादीन्स्वस्वरूपान्सुखदुःखस्य सूचकान् ॥१९॥
वारेशान्कल्पयित्वादौ ज्योतिश्चक्रेप्रतिष्ठितान्
स्वस्ववारे तु तेषां तु पूजा स्वस्वफलप्रदा ॥२०॥
आरोग्यं संपदश्चैव व्याधीनां शांतिरेव च
पुष्टिरायुस्तथा भोगो मृतेर्हानिर्यथाक्रमम् ॥२१॥
वारक्रमफलं प्राहुर्देवप्रीतिपुरःसरम्
अन्येषामपि देवानां पूजायाः फलदः शिवः ॥२२॥
देवानां प्रीतये पूजापंचधैव प्रकल्पिता
तत्तन्मंत्रजपो होमो दानं चैव तपस्तथा ॥२३॥
स्थंडिले प्रतिमायां च ह्यग्नौ ब्राह्मणविग्रहे
समाराधनमित्येवं षोडशैरुपचारकैः ॥२४॥
उत्तरोत्तरवैशिष्ट्यात्पूर्वाभावे तथोत्तरम्
नेत्रयोः शिरसो रोगे तथा कुष्ठस्य शांतये ॥२५॥
आदित्यं पूजयित्वा तु ब्राह्मणान्भोजयेत्ततः
दिनं मासं तथा वर्षं वर्षत्रयमथवापि वा ॥२६॥
प्रारब्धं प्रबलं चेत्स्यान्नश्येद्रो गजरादिकम्
जपाद्यमिष्टदेवस्य वारादीनां फलं विदुः ॥२७॥
पापशांतिर्विशेषेण ह्यादिवारे निवेदयेत्
आदित्यस्यैव देवानां ब्राह्मणानां विशिष्टदम् ॥२८॥
सोमवारे च लक्ष्म्यादीन्संपदर्थं यजेद्बुधः
आज्यान्नेन तथा विप्रान्सपत्नीकांश्च भोजयेत् ॥२९॥
काल्यादीन्भौम वारे तु यजेद्रो गप्रशांतये
माषमुद्गाढकान्नेन ब्रह्मणांश्चैव भोजयेत् ॥३०॥
सौम्यवारे तथा विष्णुं दध्यन्नेन यजेद्बुधः
पुत्रमित्रकलत्रादिपुष्टिर्भवति सर्वदा ॥३१॥
आयुष्कामो गुरोर्वारे देवानां पुष्टिसिद्धये
उपवीतेन वस्त्रेण क्षीराज्येन यजेद्बुधः ॥३२॥
भोगार्थं भृगवारे तु यजेद्देवान्समाहितः
षड्रसोपेतमन्नं च दद्याद्ब्राह्मणतृप्तये ॥३३॥
स्त्रीणां च तृप्तये तद्वद्देयं वस्त्रादिकं शुभम्
अपमृत्युहरे मंदे रुद्रा द्री श्चं! यजेद्बुधः ॥३४॥
तिलहोमेन दानेन तिलान्नेन च भोजयेत्
इत्थं यजेच्च विबुधानारोग्यादिफलं लभेत् ॥३५॥
देवानां नित्ययजने विशेषयजनेपि च
स्नाने दाने जपे होमे ब्राह्मणानां च तर्पणे ॥३६॥
तिथिनक्षत्रयोगे च तत्तद्देवप्रपूजने
आदिवारादिवारेषु सर्वज्ञो जगदीश्वरः ॥३७॥
तत्तद्रू पेण सर्वेषामारोग्यादिफलप्रदः
देशकालानुसारेण तथा पात्रानुसारतः ॥३८॥
द्र व्यश्रद्धानुसारेण तथा लोकानुसारतः ॥३९॥
तारतम्यक्रमाद्देवस्त्वारोग्यादीन्प्रयच्छति ॥३९॥
शुभादावशुभांते च जन्मर्क्षेषु गृहे गृही
आरोग्यादिसमृद्ध्यर्थमादित्यादीन्ग्रहान्यजेत् ॥४०॥
तस्माद्वै देवयजनं सर्वाभीष्टफलप्रदम्
समंत्रकं ब्राह्मणानामन्येषां चैव तांत्रिकम् ॥४१॥
यथाशक्त्यानुरूपेण कर्तव्यं सर्वदा नरैः
सप्तस्वपि च वारेषु नरैः शुभफलेप्सुभिः ॥४२॥
दरिद्र स्तपसा देवान्यजेदाढ्यो धनेन हि
पुनश्चैवंविधं धर्मं कुरुते श्रद्धया सह ॥४३॥
पुनश्च भोगान्विविधान्भुक्त्वा भूमौ प्रजायते
छायां जलाशयं ब्रह्मप्रतिष्ठां धर्मसंचयम् ॥४४॥
सर्वं च वित्तवान्कुर्यात्सदा भोगप्रसिद्धये
कालाच्च पुण्यपाकेन ज्ञानसिद्धिः प्रजायते ॥४५॥
य इमं शृणुतेऽध्यायं पठते वा नरो द्विजाः
श्रवणस्योपकर्त्ता च देवयज्ञफलं लभेत् ॥४६॥
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : September 27, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP