वामनपुराण - अध्याय ३ रा
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
व्यास उवाच
इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः
वेदांतसारसर्वस्वं पुराणं श्रावयाद्भुतम् ॥१॥
इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः
संस्मरञ्छंकरं सूतः प्रोवाच मुनिसत्तमान् ॥२॥
सूत उवाच
शृण्वंतु ऋषयः सर्वे स्मृत्वा शिवमनामयम्
पुराणप्रवणं शैवं पुराणं वेदसारजम् ॥३॥
यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम् ॥४॥
वेदांतवेद्यं सद्वस्तु विशेषेण प्रवर्णितम् ॥५॥
सूत उवाच
शृण्वंतु ऋषयः सर्वे पुराणं वेदसारजम्
पुरा कालेन महता कल्पेऽतीते पुनःपुनः ॥६॥
अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि
मुनीनां षट्कुलीनानां ब्रुवतामितरेतरम् ॥७॥
इदं परमिदं नेति विवादः सुमहानभूत्
तेऽभिजग्मुर्विधातारं ब्रह्माणं प्रष्टुमव्ययम् ॥८॥
वाग्भिर्विनयगर्भाभिः सर्वे प्रांजलयोऽब्रुवन्
त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥९॥
कः पुमान्सर्वतत्त्वेभ्यः पुराणः परतः परः
ब्रह्मोवाच
यतो वाचो निवर्तंते अप्राप्य मनसा सह ॥१०
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रे द्रं! पूर्वकम्
सहभूतेंद्रि यैः सर्वैः प्रथमं संप्रसूयते ॥११॥
एष देवो महादेवः सर्वज्ञो जगदीश्वरः
अयं तु परया भक्त्या दृश्यते नाऽन्यथा क्वचित् ॥१२॥
रुद्रो हरिर्हरश्चैव तथान्ये च सुरेश्वराः
भक्त्या परमया तस्य नित्यं दर्शनकांक्षिणः ॥१३॥
बहुनात्र किमुक्तेन शिवे भक्त्या विमुच्यते
प्रसादाद्देवताभक्तिः प्रसादो भक्तिसंभवः
यथेहांकुरतो बीजं बीजतो वा यथांकुरः ॥१४॥
तस्मादीशप्रसादार्थं यूयं गत्वा भुवं द्विजाः
दीर्घसत्रं समाकृध्वं यूयं वर्षसहस्रकम् ॥१५॥
अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः
वेदोक्तविद्यासारं तु ज्ञायते साध्यसाधनं ॥१६॥
मुनय ऊचुः
अथ किं परमं साध्यं किंवा तत्साधनं परम्
साधकः कीदृशस्तत्र तदिदं ब्रूहि तत्त्वतः ॥१७॥
ब्रह्मोवाच
साध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम्
साधकस्तत्प्रसादाद्योऽनित्यादिफलनिःस्पृहः ॥१८॥
कर्म कृत्वा तु वेदोक्तं तदर्पितमहाफलम्
परमेशपदप्राप्तः सालोक्यादिक्रमात्ततः ॥१९॥
तत्तद्भक्त्यनुसारेण सर्वेषां परमं फलम्
तत्साधनं बहुविधं साक्षादीशेन बोधितम् ॥२०॥
संक्षिप्य तत्र वः सारं साधनं प्रब्रवीम्यहम्
श्रोत्रेण श्रवणं तस्य वचसा कीर्तनं तथा ॥२१॥
मनसा मननं तस्य महासाधनमुच्यते
श्रोतव्यः कीर्तितव्यश्च मन्तव्यश्च महेश्वरः ॥२२॥
इति श्रुतिप्रमाणं नः साधनेनाऽमुना परम्
साध्यं व्रजत सर्वार्थसाधनैकपरायणाः ॥२३॥
प्रत्यक्षं चक्षुषा दृष्ट्वा तत्र लोकः प्रवर्तते
अप्रत्यक्षं हि सर्वत्र ज्ञात्वा श्रोत्रेण चेष्टते ॥२४॥
तस्माच्छ्रवणमेवादौ श्रुत्वा गुरुमुखाद्बुधः
ततः संसाधयेदन्यत्कीर्तनं मननं सुधीः ॥२५॥
क्रमान्मननपर्यंते साधनेऽस्मिन्सुसाधिते
शिवयोगो भवेत्तेन सालोक्यादिक्रमाच्छनैः ॥२६॥
सर्वांगव्याधयः पश्चात्सर्वानंदश्च लीयते
अभ्यासात्क्लेशमेतद्वै पश्चादाद्यंतमंगलम् ॥२७॥
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे तृतीयोऽध्यायः ॥३॥
N/A
References : N/A
Last Updated : September 27, 2020
TOP