संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|विश्वेश्वरसंहिता| अध्याय १८ वा विश्वेश्वरसंहिता विषयानुक्रमणिका अध्याय १ ला अध्याय २ रा अध्याय ३ रा अध्याय ४ था अध्याय ५ वा अध्याय ६ वा अध्याय ७ वा अध्याय ८ वा अध्याय ९ वा अध्याय १० वा अध्याय ११ वा अध्याय १२ वा अध्याय १३ वा अध्याय १४ वा अध्याय १५ वा अध्याय १६ वा अध्याय १७ वा अध्याय १८ वा अध्याय १९ वा अध्याय २० वा अध्याय २१ वा अध्याय २२ वा अध्याय २३ वा अध्याय २४ वा अध्याय २५ वा विश्वेश्वरसंहिता - अध्याय १८ वा शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्याय १८ वा Translation - भाषांतर ऋषयः ऊचुःबंधमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तमसूत उवाचबंधमोक्षं तथोपायं वक्ष्येऽहं शृणुतादरात् ॥१॥प्रकृत्याद्यष्टबंधेन बद्धो जीवः स उच्यतेप्रकृत्याद्यष्टबंधेन निर्मुक्तो मुक्त उच्यते ॥२॥प्रकृत्यादिवशीकारो मोक्ष इत्युच्यते स्वतःबद्धजीवस्तु निर्मुक्तो मुक्तजीवः स कथ्यते ॥३॥प्रकृत्यग्रे ततो बुद्धिरहंकारो गुणात्मकःपंचतन्मात्रमित्येते प्रकृत्याद्यष्टकं विदुः ॥४॥प्रकृट्याद्यष्टजो देहो देहजं कर्म उच्यतेपुनश्च कर्मजो देहो जन्मकर्म पुनः पुनः ॥५॥शरीरं त्रिविधं ज्ञेयं स्थूलं सूक्ष्मं च कारणम्स्थूलं व्यापारदं प्रोक्तं सूक्ष्ममिंद्रि यभोगदम् ॥६॥कारणं त्वात्मभोगार्थं जीवकर्मानुरूपतःसुखं दुःखं पुण्यपापैः कर्मभिः फलमश्नुते ॥७॥तस्माद्धि कर्मरज्ज्वा हि बद्धो जीवः पुनः पुनःशरीरत्रयकर्मभ्यां चक्रवद्भ्राम्यते सदा ॥८॥चक्रभ्रमनिवृत्यर्थं चक्रकर्तारमीडयेत्प्रकृत्यादि महाचक्रं प्रकृतेः परतः शिवः ॥९॥चक्रकर्ता महेशो हि प्रकृतेः परतोयतःपिबति वाथ वमति जीवन्बालो जलं यथा ॥१०॥शिवस्तथा प्रकृत्यादि वशीकृत्याधितिष्ठतिसर्वं वशीकृतं यस्मात्तस्माच्छिव इति स्मृतःशिव एव हि सर्वज्ञः परिपूर्णश्च निःस्पृहः ॥११॥सर्वज्ञता तृप्तिरनादिबोधः स्वतंत्रता नित्यमलुप्तशक्तिःअनंतशक्तिश्च महेश्वरस्य यन्मानसैश्वर्यमवैति वेदः ॥१२॥अतः शिवप्रसादेन प्रकृत्यादिवशं भवेत्शिवप्रसादलाभार्थं शिवमेव प्रपूजयेत् ॥१३॥निःस्पृहस्य च पूर्णस्य तस्य पूजा कथं भवेत्शिवोद्देशकृतं कर्म प्रसादजनकं भवेत् ॥१४॥लिंगे बेरे भक्तजने शिवमुद्दिश्य पूजयेत्कायेन मनसा वाचा धनेनापि प्रपूजयेत् ॥१५॥पुजया तु महेशो हि प्रकृतेः परमः शिवःप्रसादं कुरुते सत्यं पूजकस्य विशेषतः ॥१६॥शिवप्रसादात्कर्माद्यं क्रमेण स्ववशं भवेत्कर्मारभ्य प्रकृत्यंतं यदासर्वं वशं भवेत् ॥१७॥तदामुक्त इति प्रोक्तः स्वात्मारामो विराजतेप्रसादात्परमेशस्य कर्म देहो यदावशः ॥१८॥तदा वै शिवलोके तु वासः सालोक्यमुच्यतेसामीप्यं याति सांबस्य तन्मात्रे च वशं गते ॥१९॥तदा तु शिवसायुज्यमायुधाद्यैः क्रियादिभिःमहाप्रसादलाभे च बुद्धिश्चापि वशा भवेत् ॥२०॥बुद्धिस्तु कार्यं प्रकृतेस्तत्सृष्टिरिति कथ्यतेपुनर्महाप्रसादेन प्रकृतिर्वशमेष्यति ॥२१॥शिवस्य मानसैश्वर्यं तदाऽयत्नं भविष्यतिसार्वज्ञाद्यं शिवैश्वर्यं लब्ध्वा स्वात्मनि राजते ॥२२॥तत्सायुज्यमिति प्राहुर्वेदागमपरायणाःएवं क्रमेण मुक्तिः स्याल्लिंगादौ पूजया स्वतः ॥२३॥अतः शिवप्रसादार्थं क्रियाद्यैः पूजयेच्छिवम्शिवक्रिया शिवतपः शिवमंत्रजपः सदा ॥२४॥शिवज्ञानं शिवध्यानमुत्तरोत्तरमभ्यसेत्आसुप्तेरामृतेः कालं नयेद्वै शिवचिंतया ॥२५॥सद्यादिभिश्च कुसुमैरर्चयेच्छिवमेष्यतिऋषय ऊचुःलिंगादौ शिवपूजाया विधानं ब्रूहि सर्वतः ॥२६॥सूत उवाचलिंगानां च क्रमं वक्ष्ये यथावच्छृणुत द्विजाःतदेव लिंगं प्रथमं प्रणवं सार्वकामिकम् ॥२७॥सूक्ष्मप्रणवरूपं हि सूक्ष्मरूपं तु निष्फलम्स्थूललिंगं हि सकलं तत्पंचाक्षरमुच्यते ॥२८॥तयोः पूजा तपः प्रोक्तं साक्षान्मोक्षप्रदे उभेपौरुषप्रकृतिभूतानि लिंगानिसुबहूनि च ॥२९॥तानि विस्तरतो वक्तुं शिवो वेत्ति न चापरःभूविकाराणि लिंगानि ज्ञातानि प्रब्रवीमि वः ॥३०॥स्वयं भूलिंगं प्रथमं बिंदुलिंगंद्वितीयकम्प्रतिष्ठितं चरंचैव गुरुलिंगं तु पंचमम् ॥३१॥देवर्षितपसा तुष्टः सान्निध्यार्थं तु तत्र वैपृथिव्यन्तर्गतः शर्वो बीजं वै नादरूपतः ॥३२॥स्थावरांकुरवद्भूमिमुद्भिद्य व्यक्त एव सःस्वयंभूतं जातमिति स्वयंभूरिति तं विदुः ॥३३॥तल्लिंगपूजया ज्ञानं स्वयमेव प्रवर्द्धतेसुवर्णरजतादौ वा पृथिव्यां स्थिंडिलेपि वा ॥३४॥स्वहस्ताल्लिखितं लिंगं शुद्धप्रणवमंत्रकम्यंत्रलिंगं समालिख्य प्रतिष्ठावाहनं चरेत् ॥३५॥बिंदुनादमयं लिंगं स्थावरं जंगमं च यत्भावनामयमेतद्धि शिवदृष्टं न संशयः ॥३६॥यत्र विश्वस्य ते शंभुस्तत्र तस्मै फलप्रदःस्वहस्ताल्लिख्यते यंत्रे स्थावरादावकृत्रिमे ॥३७॥आवाह्य पूजयेच्छंभुं षोडशैरुपचारकैःस्वयमैश्वर्यमाप्नोति ज्ञानमभ्यासतो भवेत् ॥३८॥देवैश्च ऋषिभिश्चापि स्वात्मसिद्ध्यर्थमेव हिसमंत्रेणात्महस्तेन कृतं यच्छुद्धमंडले ॥३९॥शुद्धभावनया चैव स्थापितं लिंगमुत्तमम्तल्लिंगं पौरुषं प्राहुस्तत्प्रतिष्ठितमुच्यते ॥४०॥तल्लिंगपूजया नित्यं पौरुषैश्वर्यमाप्नुयात्महद्भिर्ब्राह्मणैश्चापि राजभिश्च महाधनैः ॥४१॥शिल्पिनाकल्पितं लिंगं मंत्रेण स्थापितं च यत्प्रतिष्ठितं प्राकृतं हि प्राकृतैश्वर्यभोगदम् ॥४२॥यदूर्जितं च नित्यं च तद्धि पौरुषमुच्यतेयद्दुर्बलमनित्यं च तद्धि प्राकृतमुच्यते ॥४३॥लिंगं नाभिस्तथा जिह्वा नासाग्रञ्च शिखा क्रमात्कट्यादिषु त्रिलोकेषु लिंगमाध्यात्मिकं चरम् ॥४४॥पर्वतं पौरुषं प्रोक्तं भूतलं प्राकृतं विदुःवृक्षादि पौरुषं ज्ञेयं गुल्मादि प्राकृतं विदुः ॥४५॥षाष्टिकं प्राकृतं ज्ञेयं शालिगोधूमपौरुषम्ऐश्वर्यं पौरुषं विद्यादणिमाद्यष्टसिद्धिदम् ॥४६॥सुस्त्रीधनादिविषयं प्राकृतं प्राहुरास्तिकाःप्रथमं चरलिंगेषु रसलिंगं प्रकथ्यते ॥४७॥रसलिंगं ब्राह्मणानां सर्वाभीष्टप्रदं भवेत्बाणलिंगं क्षत्रियाणां महाराज्यप्रदं शुभम् ॥४८॥स्वर्णलिंगं तु वैश्यानां महाधनपतित्वदम्शिलालिंगं तु शूद्रा णां महाशुद्धिकरं शुभम् ॥४९॥स्फाटिकं बाणलिंगं च सर्वेषांसर्वकामदम्स्वीयाभावेऽन्यदीयं तु पूजायां न निषिद्ध्यते ॥५०॥स्त्रीणां तु पार्थिवं लिंगं सभर्तृणां विशेषतःविधवानां प्रवृत्तानां स्फाटिकं परिकीर्तितम् ॥५१॥विधवानां निवृत्तानां रसलिंगं विशिष्यतेबाल्येवायौवनेवापि वार्द्धकेवापि सुव्रताः ॥५२॥शुद्धस्फटिकलिंगं तु स्त्रीणां तत्सर्वभोगदम्प्रवृत्तानां पीठपूजा सर्वाभीष्टप्रदा भुवि ॥५३॥पात्रेणैव प्रवृत्तस्तु सर्वपूजां समाचरेत्अभिषेकांते नैवेद्यं शाल्यन्नेन समाचरेत् ॥५४॥पूजांते स्थापयेल्लिंगं संपुटेषु पृथग्गृहेकरपूजानि वृत्तानां स्वभोज्यं तु निवेदयेत् ॥५५॥निवृत्तानां परं सूक्ष्मलिंगमेव विशिष्यतेविभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् ॥५६॥पूजां कृत्वाथ तल्लिंगं शिरसा धारयेत्सदाविभूतिस्त्रिविधा प्रोक्ता लोकवेदशिवाग्निभिः ॥५७॥लोकाग्निजमथो भस्मद्र व्यशुद्ध्यर्थमावहेत्मृद्दारुलोहरूपाणां धान्यानां च तथैव च ॥५८॥तिलादीनां च द्र व्याणां वस्त्रादीनां तथैव चतथा पर्युषितानां च भस्मना शिद्धिरिष्यते ॥५९॥श्वादिभिर्दूषितानां च भस्मना शुद्धिरिष्यतेसजलं निर्जलं भस्म यथायोग्यं तु योजयेत् ॥६०॥वेदाग्निजं तथा भस्म तत्कर्मांतेषु धारयेत्मंत्रेण क्रियया जन्यं कर्माग्नौ भस्मरूपधृक् ॥६१॥तद्भस्मधारणात्कर्म स्वात्मन्यारोपितं भवेत्अघोरेणात्ममंत्रेण बिल्वकाष्ठं प्रदाहयेत् ॥६२॥शिवाग्निरिति संप्रोक्तस्तेन दग्धं शिवाग्निजम्कपिलागोमयं पूर्वं केवलं गव्यमेव वा ॥६३॥शम्यस्वत्थपलाशान्वा वटारम्वधबिल्वकान्शिवाग्निना दहेच्छुद्धं तद्वै भस्म शिवाग्निजम् ॥६४॥दर्भाग्नौ वा दहेत्काष्ठं शिवमंत्रं समुच्चरन्सम्यक्संशोध्य वस्त्रेण नवकुंभे निधापयेत् ॥६५॥दीप्त्यर्थं तत्तु संग्राह्यं मन्यते पूज्यतेपि चभस्मशब्दार्थ एवं हि शिवः पूर्वं तथाऽकरोत् ॥६६॥यथा स्वविषये राजा सारं गृह्णाति यत्करम्यथा मनुष्याः सस्यादीन्दग्ध्वा सारं भजंति वै ॥६७॥यथा हि जाठराग्निश्च भक्ष्यादीन्विविधान्बहून्दग्ध्वा सारतरं सारात्स्वदेहं परिपुष्यति ॥६८॥तथा प्रपंचकर्तापि स शिवः परमेश्वरःस्वाधिष्ठेयप्रपंचस्य दग्ध्वा सारं गृहीतवान् ॥६९॥दग्ध्वा प्रपंचं तद्भस्म् अस्वात्मन्यारोपयच्छिवःउद्धूलनेन व्याजेन जगत्सारं गृहीतवान् ॥७०॥स्वरत्नं स्थापयामास स्वकीये हि शरीरकेकेशमाकाशसारेण वायुसारेण वै मुखम् ॥७१॥हृदयं चाग्निसारेण त्वपां सारेण वैकटिम्जानु चावनिसारेण तद्वत्सर्वं तदंगकम् ॥७२॥ब्रह्मविष्ण्वोश्च रुद्रा णां सारं चैव त्रिपुंड्रकम्तथा तिलकरूपेण ललाटान्ते महेश्वरः ॥७३॥भवृद्ध्या सर्वमेतद्धि मन्यते स्वयमैत्यसौप्रपंचसारसर्वस्वमनेनैव वशीकृतम् ॥७४॥तस्मादस्य वशीकर्ता नास्तीति स शिवः स्मृतःयथा सर्वमृगाणां च हिंसको मृगहिंसकः ॥७५॥अस्य हिंसामृगो नास्ति तस्मात्सिंह इतीरितःशं नित्यं सुखमानंदमिकारः पुरुषः स्मृतः ॥७६॥वकारः शक्तिरमृतं मेलनं शिव उच्यतेतस्मादेवं स्वमात्मानं शिवं कृत्वार्चयेच्छिवम् ॥७७॥तस्मादुद्धूलनं पूर्वं त्रिपुंड्रं धारयेत्परम्पूजाकाले हि सजलं शुद्ध्यर्थं निर्जलं भवेत् ॥७८॥दिवा वा यदि वारात्रौ नारी वाथ नरोपि वापूजार्थं सजलं भस्म त्रिपुंड्रेणैव धारयेत् ॥७९॥त्रिपुंड्रं सजलं भस्म धृत्वा पूजां करोति यःशिवपूजां फलं सांगं तस्यैव हि सुनिश्चितम् ॥८०॥भस्म वै शिवमंत्रेण धृत्वा ह्यत्याश्रमी भवेत्शिवाश्रमीति संप्रोक्तः शिवैकपरमो यतः ॥८१॥शिवव्रतैकनिष्ठस्य नाशौचं न च सूतकम्ललाटेऽग्रे सितं भस्म तिलकं धारयेन्मृदा ॥८२॥स्वहस्ताद्गुरुहस्ताद्वाशिवभक्तस्य लक्षणम्गुणान्रुंध इति प्रोक्तो गुरुशब्दस्य विग्रहः ॥८३॥सविकारान्राजसादीन्गुणान्रुंधे व्यपोहतिगुणातीतः परशिवो गुरुरूपं समाश्रितः ॥८४॥गुणत्रयं व्यपोह्याग्रे शिवं बोधयतीति सःविश्वस्तानां तु शिष्याणां गुरुरित्यभिधीयते ॥८५॥तस्माद्गुरुशरीरं तु गुरुलिंगं भवेद्बुधःगुरुलिंगस्य पूजा तु गुरुशुश्रूषणं भवेत् ॥८६॥श्रुतं करोति शुश्रूषा कायेन मनसा गिराउक्तं यद्गुरुणा पूर्वं शक्यं वाऽशक्यमेव वा ॥८७॥करोत्येव हि पूतात्मा प्राणैरपि धनैरपितस्माद्वै शासने योग्यः शिष्य इत्यभिधीयते ॥८८॥शरीराद्यर्थकं सर्वं गुरोर्दत्त्वा सुशिष्यकःअग्रपाकं निवेद्याग्रेभुंजीयाद्गुर्वनुज्ञया ॥८९॥शिष्यः पुत्र इति प्रोक्तः सदाशिष्यत्वयोगतःजिह्वालिंगान्मंत्रशुक्रं कर्णयोनौ निषिच्यवै ॥९०॥जातः पुत्रो मंत्रपुत्रः पितरं पूजयेद्गुरुम्निमज्जयति पुत्रं वै संसारे जनकः पिता ॥९१॥संतारयति संसाराद्गुरुर्वै बोधकः पिताउभयोरंतरं ज्ञात्वा पितरं गुरुमर्चयेत् ॥९२॥अंगशुश्रूषया चापि धनाद्यैः स्वार्जितैर्गुरुम्पादादिकेशपर्यंतं लिंगान्यंगानि यद्गुरोः ॥९३॥धनरूपैः पादुकाद्यैः पादसंग्रणादिभिःस्नानाभिषेकनैवेद्यैर्भोजनैश्च प्रपूजयेत् ॥९४॥गुरुपूजैव पूजा स्याच्छिवस्य परमात्मनःगुरुशेषं तु यत्सर्वमात्मशुद्धिकरं भवेत् ॥९५॥गुरोः शेषः शिवोच्छिष्टं जलमन्नादिनिर्मितम्शिष्याणां शिवभक्तानां ग्राह्यं भोज्यं भवेद्द्विजाः ॥९६॥गुर्वनुज्ञाविरहितं चोरवत्सकलं भवेत्गुरोरपि विशेषज्ञं यत्नाद्गृह्णीत वै गुरुम् ॥९७॥अज्ञानमोचनं साध्यं विशेषज्ञो हि मोचकःआदौ च विघ्नशमनं कर्तव्यं कर्म पूर्तये ॥९८॥निर्विघ्नेन कृतं सांगं कर्म वै सफलं भवेत्तस्मात्सकलकर्मादौ विघ्नेशं पूजयेद् बुधः ॥९९सर्वबाधानिवृत्त्यर्थं सर्वान्देवान्यजेद्बुधःज्वरादिग्रंथिरोगाश्च बाधा ह्याध्यात्मिका मता ॥१००॥पिशाचजंबुकादीनां वल्मीकाद्युद्भवे तथाअकस्मादेव गोधादिजंतूनां पतनेपि च ॥१०१॥गृहे कच्छपसर्पस्त्रीदुर्जनादर्शनेपि चवृक्षनारीगवादीनां प्रसूतिविषयेपि च ॥१०२॥भाविदुःखं समायाति तस्मात्ते भौतिका मताअमेध्या शनिपातश्च महामारी तथैव च ॥१०३॥ज्वरमारी विषूचिश्च गोमारी च मसूरिकाजन्मर्क्षग्रहसंक्रांतिग्रहयोगाः स्वराशिके ॥१०४॥दुःस्वप्नदर्शनाद्याश्च मता वै ह्यधिदैविकाःशवचांडालपतितस्पर्शाद्येंतर्गृहे गते ॥१०५॥एतादृशे समुत्पन्ने भाविदुःखस्य सूचकेशांतियज्ञं तु मतिमान्कुर्यात्तद्दोषशांतये ॥१०६॥देवालयेऽथ गोष्ठे वा चैत्ये वापि गृहांगणेप्रादेशोन्नतधिष्ण्ये वै द्विहस्ते च स्वलंकृते ॥१०७॥भारमात्रव्रीहिधान्यं प्रस्थाप्य परिसृत्य चमध्ये विलिख्यकमलं तथा दिक्षुविलिख्य वै ॥१०८॥तंतुना वेष्टितं कुंभं नवगुग्गुलधूपितम्मध्ये स्थाप्य महाकुंभं तथा दिक्ष्वपि विन्यसेत् ॥१०९॥सनालाम्रककूर्चादीन्कलशांश्च तथाष्टसुपूरयेन्मंत्रपूतेन पंचद्र व्ययुतेन हि ॥११०॥प्रक्षिपेन्नव रत्नानि नीलादीन्क्रमशस्तथाकर्मज्ञं च सपत्नीकमाचार्यं वरयेद्बुधः ॥१११॥सुवर्णप्रतिमां विष्णोरिंद्रा दीनां च निक्षिपेत्सशिरस्के मध्यकुंभे विष्णुमाबाह्य पूजयेत् ॥११२॥प्रागादिषु यथामंत्रमिंद्रा दीन्क्रमशो यजेत्तत्तन्नाम्ना चतुर्थ्यां च नमोन्ते न यथाक्रमम् ॥११३॥आवाहनादिकं सर्वमाचार्येणैव कारयेत्आचार्य ऋत्विजा सार्धं तन्मात्रान्प्रजपेच्छतम् ॥११४॥कुंभस्य पश्चिमे भागे जपांते होममाचरेत्कोटिं लक्षं सहस्रं वा शतमष्टोत्तरं बुधाः ॥११५॥एकाहं वा नवाहं वा तथा मंडलमेव वायथायोग्यं प्रकुर्वीत कालदेशानुसारतः ॥११६॥शमीहोमश्च शांत्यर्थे वृत्त्यर्थे च पलाशकम्समिदन्नाज्यकैर्द्र व्यैर्नाम्ना मंत्रेण वा हुनेत् ॥११७॥प्रारंभे यत्कृतं द्र व्यं तत्क्रियांतं समाचरेत्पुण्याहं वाचयित्वांते दिने संप्रोक्ष्ययेज्जलैः ॥११८॥ब्राह्मणान्भोजयेत्पश्चाद्यावदाहुतिसंख्ययाआचार्यश्च हविष्याशीऋत्विजश्च भवेद्बुधाः ॥११९॥आदित्यादीन्ग्रहानिष्ट्वा सर्वहोमांत एव हिऋत्विभ्यो दक्षिणां दद्यान्नवरत्नं यथाक्रमम् ॥१२०॥दशदानं ततः कुर्याद्भूरिदानं ततः परम्बालानामुपनीतानां गृहिणां वनिनां धनम् ॥१२१॥कन्यानां च सभर्तृ-णां विधवानां ततः परम्तंत्रोपकरणं सर्वमाचार्याय निवेदयेत् ॥१२२॥उत्पातानां च मारीणां दुःखस्वामी यमः स्मृतःतस्माद्यमस्य प्रीत्यर्थं कालदानं प्रदापयेत् ॥१२३॥शतनिष्केण वा कुर्याद्दशनिष्केण वा पुनःपाशांकुशधरं कालं कुर्यात्पुरुषरूपिणम् ॥१२४॥तत्स्वर्णप्रतिमादानं कुर्याद्दक्षिणया सहतिलदानं ततः कुर्यात्पूर्णायुष्यप्रसिद्धये ॥१२५॥आज्यावेक्षणदानं च कुर्याद्व्याधिनिवृत्तयेसहस्रं भोजयेद्विप्रान्दरिद्र ः! शतमेव वा ॥१२६॥वित्ताभावे दरिद्र स्तु यथाशक्ति समाचरेत्भैरवस्य महापूजां कुर्याद्भूतादिशांतये ॥१२७॥महाभिषेकं नैवेद्यं शिवस्यान्ते तुकारयेत्ब्राह्मणान्भोजयेत्पश्चाद्भूरिभोजनरूपतः ॥१२८॥एवं कृतेन यज्ञेन दोषशांतिमवाप्नुयात्शांतियज्ञमिमं कुर्याद्वर्षे वर्षे तु फाल्गुने ॥१२९॥दुर्दर्शनादौ सद्यो वै मासमात्रे समाचरेत्महापापादिसंप्राप्तौ कुर्याद्भैरवपूजनम् ॥१३०॥महाव्याधिसमुत्पत्तौ संकल्पं पुनराचरेत्सर्वभावे दरिद्र स्तु दीपदानमथाचरेत् ॥१३१॥तदप्यशक्तः स्नात्वा वै यत्किंचिद्दानमाचरेत्दिवाकरं नमस्कुर्यान्मन्त्रेणाष्टोत्तरं शतम् ॥१३२॥सहस्रमयुतं लक्षं कोटिं वा कारयेद् बुधःनमस्कारात्मयज्ञेन तुष्टाः स्युः सर्वदेवताः ॥१३३॥त्वत्स्वरूपेर्पिता बुद्धिर्नतेऽशून्ये च रोचतिया चास्त्यस्मदहंतेति त्वयि दृष्टे विवर्जिता ॥१३४॥नम्रोऽहं हि स्वदेहेन भो महांस्त्वमसि प्रभोन शून्यो मत्स्वरूपो वै तव दासोऽस्मि सांप्रतम् ॥१३५॥यथायोग्यं स्वात्मयज्ञं नमस्कारं प्रकल्पयेत्अथात्र शिवनैवेद्यं दत्त्वा तांबूलमाहरेत् ॥१३६॥शिवप्रदक्षिणं कुर्यात्स्वयमष्टोत्तरं शतम्सहस्रमयुतं लक्षं कोटिमन्येन कारयेत् ॥१३७॥शिवप्रदक्षिणात्सर्वं पातकं नश्यति क्षणात्दुःखस्य मूलं व्याधिर्हि व्याधेर्मूलं हि पातकम् ॥१३८॥धर्मेणैव हि पापानामपनोदनमीरितम्शिवोद्देशकृतो धर्मः क्षमः पापविनोदने ॥१३९॥अध्यक्षं शिवधर्मेषु प्रदक्षिणमितीरितम्क्रियया जपरूपं हि प्रणवं तु प्रदक्षिणम् ॥१४०॥जननं मरणं द्वंद्वं मायाचक्रमितीरितम्शिवस्य मायाचक्रं हि बलिपीठं तदुच्यते ॥१४१॥बलिपीठं समारभ्य प्रादक्षिण्यक्रमेण वैपदे पदांतरं गत्वा बलिपीठं समाविशेत् ॥१४२॥नमस्कारं ततः कुर्यात्प्रदक्षिणमितीरितम्निर्गमाज्जननं प्राप्तं नमस्त्वात्मसमर्पणम् ॥१४३॥जननं मरणं द्वंद्वं शिवमायासमर्पितम्शिवमायार्पितद्वंद्वो न पुनस्त्वात्मभाग्भवेत् ॥१४४॥यावद्देहं क्रियाधीनः सजीवो बद्ध उच्यतेदेहत्रयवशीकारे मोक्ष इत्युच्यते बुधैः ॥१४५॥मायाचक्रप्रणेता हि शिवः परमकारणम्शिवमायार्पितद्वंद्वं शिवस्तु परिमार्जति ॥१४६॥शिवेन कल्पितं द्वंद्वं तस्मिन्नेव समर्पयेत्शिवस्यातिप्रियं विद्यात्प्रदक्षिणं नमो बुधाः ॥१४७॥प्रदक्षिणनमस्काराः शिवस्य परमात्मनःषोडशैरुपचारैश्च कृतपूजा फलप्रदा ॥१४८॥प्रदक्षिणाऽविनाश्यं हि पातकं नास्ति भूतलेतस्मात्प्रदक्षिणेनैव सर्वपापं विनाशयेत् ॥१४९॥शिवपूजापरो मौनी सत्यादिगुणसंयुतःक्रियातपोजपज्ञानध्यानेष्वेकैकमाचरेत् ॥१५०॥ऐश्वर्यं दिव्यदेहश्च ज्ञानमज्ञानसंशयःशिवसान्निध्यमित्येते क्रियादीनां फलं भवेत् ॥१५१॥करणेन फलं याति तमसः परिहापनात्जन्मनः परिमार्जित्वाज्ज्ञबुद्ध्या जनितानि च ॥१५२॥यथादेशं यथाकालं यथादेहं यथाधनम्यथायोग्यं प्रकुर्वीत क्रियादीञ्छिवभक्तिमान् ॥१५३॥न्यायार्जितसुवित्तेन वसेत्प्राज्ञः शिवस्थलेजीवहिंसादिरहितमतिक्लेशविवर्जितम् ॥१५४॥पंचाक्षरेण जप्तं च तोयमन्नं विदुः सुखम्अथवाऽहुर्दरिद्र स्य भिक्षान्नंज्ञानदं भवेत् ॥१५५॥शिवभक्तस्य भिक्षान्नंशिवभक्तिविवर्धनम्शंभुसत्रमिति प्राहुर्भिक्षान्नंशिवयोगिनः ॥१५६॥येन केनाप्युपायेन यत्र कुत्रापि भूतलेशुद्धान्नभुक्सदा मौनीरहस्यं न प्रकाशयेत् ॥१५७॥प्रकाशयेत्तु भक्तानां शिवमाहात्म्यमेव हिरहस्यं शिवमंत्रस्य शिवो जानाति नापरः ॥१५८॥शिवभक्तो वसेन्नित्यं शिवलिंगं समाश्रितःस्थाणुलिंगाश्रयेणैव स्थाणुर्भवति भूसुराः ॥१५९॥पूजया चरलिंगस्य क्रमान्मुक्तो भवेद्ध्रुवम्सर्वमुक्तं समासेन साध्यसाधनमुत्तमम् ॥१६०॥व्यासेन यत्पुराप्रोक्तं यच्छ्रुतं हि मया पुराभद्र मस्तु हि वोऽस्माकं शिवभक्तिर्दृढाऽस्तुसा ॥१६१॥य इमं पठतेऽध्यायं यः शृणोति नरः सदाशिवज्ञानं स लभतेशिवस्य कृपया बुधाः ॥१६२॥इति श्रीशैवेमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडे शिवलिंगमहिमावर्णनं नामाष्टादशोऽध्यायः ॥१८॥ N/A References : N/A Last Updated : September 27, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP