विश्वेश्वरसंहिता - अध्याय ११ वा

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः
कथं लिंगं प्रतिष्ठाप्यं कथं वातस्य लक्षणम्
कथं वा तत्समभ्यर्च्यं देशे काले च केन हि ॥१॥
सूत उवाच
युष्मदर्थं प्रवक्ष्यामि बुद्ध्यतामवधानतः
अनुकूले शुभे काले पुण्ये तीर्थे तटे तथा ॥२॥
यथेष्टं लिंगमारोप्यं यत्र स्यान्नित्यमर्चनम्
पार्थिवेन तथाप्येनं तैजसेन यथारुचि ॥३॥
कल्पलक्षणसंयुक्तं लिंगं पूजाफलं लभेत्
सर्वलक्षणसंयुक्तं सद्यः पूजाफलप्रदम् ॥४॥
चरे विशिष्यते सूक्ष्मं स्थावरे स्थूलमेव हि
सलक्षणं सपीठं च स्थापयेच्छिवनिर्मितम् ॥५॥
मंडलं चतुरस्रं वा त्रिकोणमथवा तथा
खट्वांगवन्मध्यसूक्ष्मं लिंगपीठं महाफलं ॥६॥
प्रथमं मृच्छिलादिभ्यो लिगं लोहादिभिः कृतम्
येन लिंगं तेन पीठं स्थावरे हि विशिष्यते ॥७॥
लिंगं पीठं चरे त्वेकं लिंगं बाणकृतं विना
लिंगप्रमाणं कर्तृ-णां द्वादशांगुलमुत्तमम् ॥८॥
न्यूनं चेत्फलमल्पं स्यादधिकं नैव दूष्यते
कर्तुरेकांगुलन्यूनं चरेपि च तथैव हि ॥९॥
आदौ विमानं शिल्पेन कार्यं देवगणैर्युतम्
तत्र गर्भगृहे रम्ये दृढे दर्पणसंनिभे ॥१०॥
भूषिते नवरत्नैश्च दिग्द्वारे च प्रधानकैः
नीलं रक्तं च वै दूर्यं श्यामं मारकतं तथा ॥११॥
मुक्ताप्रवालगोमेदवज्राणि नवरत्नकम् ॥१२॥
मध्ये लिंगं महद्द्रव्यं निक्षिपेत्सहवैदिके ॥१२॥
संपूज्य लिंगं सद्याद्यैः पंचस्थाने यथाक्रमम्
अग्नौ च हुत्वा बहुधा हविषास कलं च माम् ॥१३॥
अभ्यर्च्य गुरुमाचार्यमर्थैः कामैश्च बांधवम्
दद्यादैश्वर्यमर्थिभ्यो जडमप्यजडं तथा ॥१४॥
स्थावरं जंगमं जीवं सर्वं संतोष्य यत्नतः
सुवर्णपूरिते श्वभ्रे नवरत्नैश्च पूरिते ॥१५॥
सद्यादि ब्रह्म चोच्चार्य ध्यात्वा देवं परं शुभम्
उदीर्य च महामंत्रमॐकारं नादघोषितम् ॥१६॥
लिंगं तत्र प्रतिष्ठाप्य लिगं पीठेन योजयेत्
लिंगं सपीठं निक्षिप्य नित्यलेपेन बंधयेत् ॥१७॥
एवं बेरं च संस्थाप्यं तत्रैव परमं शुभम्
पंचाक्षरेण बेरं तु उत्सवार्थं वहिस्तथा ॥१८॥
बेरं गुरुभ्यो गृह्णीयात्साधुभिः पूजितं तु वा
एवं लिंगे च बेरे च पूजा शिवपदप्रदा ॥१९॥
पुनश्च द्विविधं प्रोक्तं स्थावरं जंगमं तथा
स्थावरं लिंगमित्याहुस्तरुगुल्मादिकं तथा ॥२०॥
जंगमं लिंगमित्याहुः कृमिकीटादिकं तथा
स्थावरस्य च शुश्रूषा जंगमस्य च तर्पणम् ॥२१॥
तत्तत्सुखानुरागेण शिवपूजां विदुर्बुधाः
पीठमंबामयं सर्वं शिवलिंगं च चिन्मयम् ॥२२॥
यथा देवीमुमामंके धृत्वा तिष्ठति शंकरः
तथा लिंगमिदं पीठं धृत्वा तिष्ठति संततम् ॥२३॥
एवं स्थाप्य महालिंगं पूजयेदुपचारकैः
नित्यपूजा यथा शक्तिध्वजादिकरणं तथा ॥२४॥
इति संस्थापयेल्लिंगं साक्षाच्छिवपदप्रदम्
अथवा चरलिंगं तु षोडशैरुपचारकैः ॥२५॥
पूजयेच्च यथान्यायं क्रमाच्छिवपदप्रदम्
आवाहनं चासनं च अर्घ्यं पाद्यं तथैव च ॥२६॥
तदंगाचमनं चैव स्नानमभ्यंगपूर्वकम्
वस्त्रं गंधं तथा पुष्पं धूपं दीपं निवेदनम् ॥२७॥
नीराजनं च तांबूलं नमस्कारो विसर्जनम्
अथवाऽर्घ्यादिकं कृत्वा नैवेद्यां तं यथाविधि ॥२८॥
अथाभिषेकं नैवेद्यं नमस्कारं च तर्पणम्
यथाशक्ति सदाकुर्यात्क्रमाच्छिवपदप्रदम् ॥२९॥
अथवा मानुषे लिंगेप्यार्षे दैवे स्वयंभुवि
स्थापितेऽपूर्वके लिंगे सोपचारं यथा तथा ॥३०॥
पूजोपकरणे दत्ते यत्किंचित्फलमश्नुते
प्रदक्षिणानमस्कारैः क्रमाच्छिवपदप्रदम् ॥३१॥
लिंगं दर्शनमात्रं वा नियमेन शिवप्रदम्
मृत्पिष्टगोशकृत्पुष्पैः करवीरेण वा फलैः ॥३२॥
गुडेन नवनीतेन भस्मनान्नैर्यथारुचि
लिंगं यत्नेन कृत्वांते यजेत्तदनुसारतः ॥३३॥
अंगुष्ठादावपि तथा पूजामिच्छंति केचन
लिंगकर्मणि सर्वत्र निषेधोस्ति न कर्हिचित् ॥३४
सर्वत्र फलदाता हि प्रयासानुगुणं शिवः
अथवा लिंगदानं वा लिंगमौल्यमथापि वा ॥३५॥
श्रद्धया शिवभक्ताय दत्तं शिवपदप्रदम्
अथवा प्रणवं नित्यं जपेद्दशसहस्रकम् ॥३६॥
संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम्
जपकाले मकारांतं मनःशुद्धिकरं भजेत् ॥३७॥
समाधौ मानसं प्रोक्तमुपांशु सार्वकालिकम्
समानप्रणवं चेमं बिंदुनादयुतं विदुः ॥३८॥
अथ पंचाक्षरं नित्यं जपेदयुतमादरात्
संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ॥३९॥
प्रणवेनादिसंयुक्तं ब्राह्मणानां विशिष्यते
दीक्षायुक्तं गुरोर्ग्राह्यं मंत्रं ह्यथ फलाप्तये ॥४०॥
कुंभस्नानं मंत्रदीक्षां मातृकान्यासमेव च
ब्राह्मणः सत्यपूतात्मा गुरुर्ज्ञानी विशिष्यते ॥४१॥
द्विजानां च नमःपूर्वमन्येषां च नमोन्तकम् ॥४२॥
स्त्रीणां च क्वचिदिच्छंति नमो तं च यथाविधि ॥४२॥
विप्रस्त्रीणां नमः पूर्वमिदमिच्छंति केचन
पंचकोटिजपं कृत्वा सदा शिवसमो भवेत् ॥४३॥
एकद्वित्रिचतुःकोट्याब्रह्मादीनां पदं व्रजेत्
जपेदक्षरलक्षंवा अक्षराणां पृथक्पृथक् ॥४४॥
अथवाक्षरलक्षं वा ज्ञेयं शिवपदप्रदम्
सहस्रं तु सहस्राणां सहस्रेण दिनेन हि ॥४५॥
जपेन्मंत्रादिष्टसिद्धिर्नित्यं ब्राह्मणभोजनात्
अष्टोत्तरसहस्रं वै गायत्रीं प्रातरेव हि ॥४६॥
ब्राह्मणस्तु जपेन्नित्यं क्रमाच्छिवपदप्रदान्
वेदमंत्रांस्तु सूक्तानि जपेन्नियममास्थितः ॥४७॥
एकं दशार्णं मंत्रं च शतोनं च तदूर्ध्वकम्
अयुतं च सहस्रं च शतमेकं विना भवेत् ॥४८॥
वेदपारायणं चैव ज्ञेयं शिवपदप्रदम्
अन्यान्बहुतरान्मंत्राञ्जपेदक्षरलक्षतः ॥४९॥
एकाक्षरांस्तथा मंत्राञ्जपेदक्षरकोटितः
ततः परं जपेच्चैव सहस्रं भक्तिपूर्वकम् ॥५०॥
एवं कुर्याद्यथाशक्ति क्रमाच्छिव पदं लभेत्
नित्यं रुचिकरं त्वेकं मंत्रमामरणांतिकम् ॥५१॥
जपेत्सहस्रमोमिति सर्वाभीष्टं शिवाज्ञया
पुष्पारामादिकं वापि तथा संमार्जनादिकम् ॥५२॥
शिवाय शिवकार्याथे कृत्वा शिवपदं लभेत्
शिवक्षेत्रे तथा वासं नित्यं कुर्याच्च भक्तितः ॥५३॥
जडानामजडानां च सर्वेषां भुक्तिमुक्तिदम्
तस्माद्वासं शिवक्षेत्रे कुर्यदामरणं बुधः ॥५४॥
लिंगाद्धस्तशतं पुण्यं क्षेत्रे मानुषके विदुः
सहस्रारत्निमात्रं तु पुण्यक्षेत्रे तथार्षके ॥५५॥
दैवलिंगे तथा ज्ञेयं सहस्रारत्निमानतः
धनुष्प्रमाणसाहस्रं पुण्यं क्षेत्रे स्वयं भुवि ॥५६॥
पुण्यक्षेत्रे स्थिता वापी कूपाद्यं पुष्कराणि च
शिवगंगेति विज्ञेयं शिवस्य वचनं यथा ॥५७॥
तत्र स्नात्वा तथा दत्त्वा जपित्वा हि शिवं व्रजेत्
शिवक्षेत्रं समाश्रित्य वसेदामरणं तथा ॥५८॥
दाहं दशाहं मास्यं वा सपिंडीकरणं तु वा
आब्दिकं वा शिवक्षेत्रे क्षेत्रे पिंडमथापि वा ॥५९॥
सर्वपाप विनिर्मुक्तः सद्यः शिवपदं लभेत्
अथवा सप्तरात्रं वा वसेद्वा पंचरात्रकम् ॥६०॥
त्रिरात्रमेकरात्रं वा क्रमाच्छिवपदं लभेत्
स्ववर्णानुगुणं लोके स्वाचारात्प्राप्नुते नरः ॥६१॥
वर्णोद्धारेण भक्त्या च तत्फलातिशयं नरः
सर्वं कृतं कामनया सद्यः फलमवाप्नुयात् ॥६२॥
सर्वं कृतमकामेन साक्षाच्छिवपदप्रदम्
प्रातर्मध्याह्नसायाह्नमहस्त्रिष्वेकतः क्रमात् ॥६३॥
प्रातर्विधिकरं ज्ञेयं मध्याह्नं कामिकं तथा
सायाह्नं शांतिकं ज्ञेयं रात्रावपि तथैव हि ॥६४॥
कालो निशीथो वै प्रोक्तोमध्ययामद्वयं निशि
शिवपूजा विशेषेण तत्कालेऽभीष्टसिद्धिदा ॥६५॥
एवं ज्ञात्वा नरः कुर्वन्यथोक्तफलभाग्भवेत्
कलौ युगे विशेषेण फलसिद्धिस्तु कर्मणा ॥६६॥
उक्तेन केनचिद्वापि अधिकारविभेदतः
सद्वृत्तिः पापभीरुश्चेत्ततत्फलमवाप्नुयात् ॥६७॥
ऋषय ऊचुः
अथ क्षेत्राणि पुण्यानि समासात्कथयस्व नः
सर्वाः स्त्रियश्च पुरुषा यान्याश्रित्य पदं लभेत् ॥६८॥
सूत योगिवरश्रेष्ठ शिवक्षेत्रागमांस्तथा
सूत उवाच
शृणुत श्रद्धया सर्वक्षेत्राणि च तदागमान् ॥६९॥
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायांएकदशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : September 27, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP