देवदत्ताख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


N/Aश्रुत्वेति मातुलसुतादपरेद्युरुपेत्य तम् ।
सत्यव्रतं दासपतिं शुश्राव निजवाञ्छिते ॥१६४॥
रत्नकूटाह्वयद्वीपे समुद्रेण प्रतिष्ठितः ।
विष्णुस्तद्द्वादशीयात्रासमाजे बहुसंगमः ।
सर्वद्वीपागतजने शङ्के सा ज्ञायते पुरी ॥१६५॥
श्रुत्वेति दाससहितः शक्तिदेवोऽम्बुधिं ययौ ।
व्रजन्पोतेन जलधौ द्विजं दासाभिधो(धिपो)ऽभ्यधात् ॥१६६॥
इदमावर्तसंघट्टं महावेगतरङ्गिभिः ।
वडवाग्नौ प्रवहणं पातितं मे महानिलैः ॥१६७॥
अयं महावटतरुर्जले दिव्यमहीरुहः ।
शाखामस्यावलम्बस्व नाहं शक्तो जरान्वितः ॥१६८॥
इत्युक्त्वा विटपालम्बितनौ तस्मिन्ममज्ज सः ।
धन्यः पुण्यवतामेव परार्थे जीवितव्ययः ॥१६९॥
ततस्तरुलतासक्तो निशि शोकानलाकुलः ।
ददर्श तं महावृक्षं महाकायैः खगैर्वृतम् ॥१७०॥
तेषामेको गिरीन्द्राभो जटायुरिव जर्जरः ।
अवदन्मानुषगिरा गत्या गमकथान्तरे ॥१७१॥
यूयं युवानो गन्तारः प्रातर्वेगाद्दिशो दश ।
गन्तव्या काञ्चनपुरी वृद्धेन तु मया क्कचित् ।
अपि गन्तुं न शक्या सा तद्यूयं यात मा चिरम् ॥१७२॥
श्रुत्वेति दाशनिधनप्रशोकोऽपि जहर्ष सः ।
पुंसां स्वकर्मवैचित्र्यान्न दुःखं न सुखं सदा ॥१७३॥
ततः प्रविश्य तद्वक्तुः पक्षान्तविवरोदरे ।
तद्वेगयातात्प्रत्यूषे तां प्राप स पुरीं क्षणात् ॥१७४॥
ततस्तां काञ्चनपुरीं काञ्चनस्तम्भतोरणाम् ।
कौतुकानां कुलगृहं निधानं सर्वसंपदाम् ॥१७५॥
मनोरथैरप्यगम्यामप्राप्यां पवनैरपि ।
प्रमोदनिर्भरो दृष्ट्वा ददर्श ललिताङ्गनाः ॥१७६॥
नीतः प्रियंवदस्ताभिः संभाष्य मणिमन्दिरम् ।
विद्याधरेन्द्रतनयां ददर्शानङ्गमङ्गलाम् ॥१७७॥
लीलाशिखिशिखण्डाभनेत्रच्छायावतंसकाम् ।
पुनः श्रीकण्ठशबरानुवृत्तामिव पार्वतीम् ॥१७८॥
तारुण्यकुञ्जरारूढां विलासकमलाकुलाम् ।
मूर्तामिव मनोजस्य त्रैलोक्यविजयश्रियम् ॥१७९॥
विद्रुमद्रुमलावण्यलुण्टाकैरधरांशुभिः ।
बालातपैरिव स्पृष्टां कामकेलिवनस्थलीम् ॥१८०॥
अदभ्रविभ्रममहीं नेत्रामृततरङ्गिणीम् ।
विलोक्य शक्तिदेवस्तां विस्मयादिति चिन्तात् ॥१८१॥
विभ्रमाभरणं रूपं लावण्याभरणं वपुः ।
अहो बालकुरङ्गाक्ष्या विलासाभरणा स्थितिः ॥१८२॥
निवेदितात्मवृत्तेन प्राप्तसत्कारसंपदा ।
पृष्टां निजकथां तेन सा बभाषे शुचिस्मिता ॥१८३॥
पिता मे शशिखण्डाख्यः श्रीमान्विद्याधराधिपः ।
चतस्रस्तनयास्तस्य ज्येष्ठा तासामहं विभो ॥१८४॥
अहं चन्द्रप्रभा नाम चन्द्रलेखा ममानुजा ।
शशिप्रभा च सुमते शशिलेखा च सुप्रभा ॥१८५॥
शापादथोग्रतपसो मुनेर्मर्त्यत्वमागताः ।
जातिस्मरा भगिन्यो मे बभूवुः शोकदाः पितुः ॥१८६॥
तद्दुःखात्त्यक्तराज्येऽथ याते ताते तपोवनम् ।
इह स्थिताहमेकैव भगिनीसंगमाशया ॥१८७॥
गौरी पुरा मामवदन्मनुष्यस्ते भविष्यति ।
पतिर्विद्याधराधीशपदं प्राप्यानुजाश्च ते ॥१८८॥
भवानेनाभिरुचितो जनस्यास्य मनःप्रभुः ।
पित्रे निवेदयाम्येतत्स्वाधीना न हि कन्यकाः ॥१८९॥
त्वत्संगमे गुरोराज्ञां प्राप्तुं गच्छाम्यहं वनम् ।
विनोदयेथा हृदयं त्वमिहैव क्षणान्तरम् ॥१९०॥
ऊर्ध्वमन्दिरपाली च द्रष्टव्या नैव तु त्वया ।
इत्युक्त्वा प्रययौ कान्ता लिम्पन्ती कान्तिभिर्नभः ॥१९१॥
कौतुकाकुलितः सोऽथ प्रविष्टो मन्दिरावलीम् ।
ददर्श योशितस्तिस्रः शयाना गतजीविताः ॥१९२॥
पृथग्देशेषु पर्यङ्के स्वच्छचीनपटावृताः ।
सजीवा इव हरिण्यश्चित्रस्था इव निश्चलाः ॥१९३॥
पूर्वमंशुकमुद्धाट्य ददर्शैकां सुमध्यमाम् ।
जित्वा जगत्स्मृतिभुवा न्यस्तां चापलतामिव ॥१९४॥
स्वयं कन्दर्पगुरुणा प्रतिष्ठामन्त्रशंसिनीम् ।
अधिवास इव न्यस्तां शयने कान्तिदेवताम् ॥१९५॥
ततः कनकलेखां तां परिज्ञाय महीपतेः ।
परोपकारिणः पुत्रीं प्रदध्यौ विस्मितः क्षणम् ॥१९६॥
विरहौर्वानलालोलप्रवासव्य्सनाम्बुधौ ।
यत्कृतेऽहं निपतितः सैवैषा मन्मथौषधिः ॥१९७॥
इन्द्रजालमिदं किंस्विदथ वा स्मरवञ्चना ।
ध्यात्वेति शक्तिदेवोऽथ क्रमेणान्यां ददर्श च ॥१९८॥
तां दृष्ट्वा विस्मयाविष्टो मन्दिरेभ्योऽवरुह्य सः ।
अपश्यद्दिव्यतुरगं मार्तण्डस्येव विस्मृतम् ॥१९९॥
खुरेणोत्सरितस्तेन पतितः सरसीजले ।
वर्धमानपुरोपान्तादुन्ममज्ज ससंभ्रमः ॥२००॥
स्वप्नदृष्टमिवाशेषं मन्यमानोऽतिदुःखितः ।
भ्रान्त्वा नगरवीथीषु राजद्वारमवाप्तवान् ॥२०१॥
दृष्टा हेमपुरी येन लप्स्यते स नृपात्मजाम् ।
पुनः श्रुत्वेति पटहं प्रतीहारमुवाच सः ॥२०२॥
सा मया काञ्चनपुरी दृष्टा राज्ञे निवेद्यताम् ।
इति तस्य प्रतीहारो वचः क्ष्मापं व्यजिज्ञपत् ॥२०३॥
न्यस्तः कनकलेखाग्रे शक्तिदेवोऽथ भूभुजा ।
मया दृष्टा पुरी सा च सभ्याः सप्रविभाधिकम् ॥२०४॥
असत्यवादी धूर्तोऽयं पुरास्माभिस्तिरस्कृतः ।
परोपकारितनया प्राहेति क्षणमस्मिता ॥२०५॥
शक्तिदेवोऽवदत्सुभ्र दृष्टाश्चन्द्रप्रभानुजाः ।
तिस्रः कनकपुर्यां त्वं तासां मध्ये निरीक्षिता ॥२०६॥
जातिस्मरा निशम्येति राजपुत्री कृतादरा ।
श्रुत्वा हेमपुरीवार्तां विस्तरेण तदोदिताम् ॥२०७॥
ययौ विद्याधरी भूत्वा तां पुरीं सा विहायसा ।
अनुसर्तुमशक्तोऽसौ बभूव भृशदुःखितः ॥२०८॥
पुनरध्यवसायैकसहायः पुरसंचयात् ।
ग्रामारण्यनदीशैलाल्लङ्घयन्प्रययौ शनैः ॥२०९॥
विटङ्कपुरमासाद्य तमेव वणिजं पुनः ।
समुद्रमत्स्यनामानं ददर्शात्यन्तविस्मितः ॥२१०॥
तीर्णः फलहकेनाहं भग्नपोतस्तदाम्बुधौ ।
पित्रा यदृच्छयाप्तेन वीक्षितो द्वीपगामिना ॥२११॥
इति तद्वाक्यमाकर्ण्य कथयित्वा निजां कथाम् ।
तत्कल्पितप्रवहणः शक्तिदेवोऽम्बुधिं ययौ ॥२१२॥
द्वीपमुत्पलकं प्राप्तो दृष्टः सत्यव्रतात्मजैः ।
अनेन नः पिता नीतो हतो वेत्यभिभर्त्सितः ॥२१३॥
तद्वाक्यात्पितरं ज्ञात्वा वडवाग्निपतङ्गताम् ।
यातं ते च क्रुधा विप्रं यागे पशुमकल्पयन् ॥२१४॥
स गाढनिगडाबद्धः स्वप्ने कात्यायिनीवरात् ।
कृत्वा विद्याधरीं गूढां भेजे सत्यव्रतात्मजाम् ॥२१५॥
विमुक्तबन्धनः प्राप कन्यां बिन्दुमतीं सतीम् ।
गोमांसभारनम्रांसं ददर्श श्वपचं पथि ॥२१६॥
दासपुत्री च तं दृष्ट्वा हर्म्यस्था प्राह वल्लभम् ।
गवां विकारलेशेन जातास्म्यनुचिते कुले ॥२१७॥
गोमांसभक्षणात्पापान्न जाने याति कां गतिम् ।
धेनुस्नायुमयी तन्त्री मया दन्तेन खण्डिता ॥२१८॥
वीणाविनोदनात्पापादियं मे दाससंगतिः ।
श्रुत्वेति तां कथां पृष्टा शक्तिदेवेन सावदत् ॥२१९॥
भविष्यत्यपरा भार्या तव तद्भर्मपाटकः ।
यदि स्यात्तत्कथामेतां ध्रवं ज्ञास्यसि वल्लभ ॥२२०॥
इति बिन्दुमतीवाक्यं श्रुत्वा विप्रः सकौतुकः ।
बहिः कलकलं श्रुत्वा निर्ययौ सज्जकार्मुकः ॥२२१॥
ततः पुञ्जीकृतजनं दंष्ट्रिणं कज्जलच्छविम् ।
सेन्दुलेखमिव ध्वान्तमपश्यत्सूकरं पुरः ॥२२२॥
तं जघान हतानेकजनं तीक्ष्णेन पत्त्रिणा ।
स च तच्छरनिर्मिन्नो विवेश विपुलं बिलम् ॥२२३॥
क्रोडानुसारी सहसा शक्तिदेवो रसातलम् ।
प्रविश्य तस्य नगरीं वापीं कन्यां च दॄष्टवान् ॥२२४॥
तमाह कन्यका दैत्यः शूकरोऽयं त्वया हतः ।
अद्यैवास्मि हृता तेन राजपुत्री सुरद्विषा ॥२२५॥
प्रभो गृहाण मे पाणिं तुल्योऽसि मम वल्लभः ।
इत्युक्तवाक्यां तां प्राप्य स जगाम यथागतम् ॥२२६॥
ततस्तां बिन्दुलेखाख्यां कालेनालोक्य गर्भिणीम् ।
ज्येष्ठा बिन्दुमती प्राह शक्तिदेवं रहःस्थिता ॥२२७॥
तस्याः पाटय गर्भं त्वमिति श्रुत्वा विकूणितः ।
स समेत्याचिरत्कान्तामभूद्ध्यानपरायणः ॥२२८॥
सावदत्खिन्नमालोक्य दयिता संनतानना ।
प्रिय पाटय गर्भं मे बिन्दुमत्या वचः कुरु ॥२२९॥
श्रुत्वेति बिन्दुलेखायाः शक्तिदेवोऽतिविस्मितः ।
सर्वज्ञां मन्यमानस्तामुवाच रचिताञ्जलिः ॥२३०॥
नृशंसं कर्म पापिष्ठं कथमस्मद्विधो जनः ।
कुर्याद्वचः कथं ज्ञात्वा तत्पापमनुमन्यसे ॥२३१॥
इति प्रियतमेनोक्ता बिन्दुलेखावदत्पुनः ।
नैतदश्रेयसे कर्म श्रृणु चित्रां कथामिमाम् ॥२३२॥
कञ्चुकस्थाननिलयो देवदत्तः पुरा जितः ।
द्यूतापहारिताशेषधनो बभ्राम भूतले ॥२३३॥
महाव्रतिनमासाद्य जालपादाभिधं ततः ।
तेनार्थितो बभूवासौ तन्मन्त्रोपरिसाधकः ॥२३४॥
तेनादिष्टस्ततो गत्वा स्मशानं वटशाखिने ।
पूजां कुसुमधूपार्घवलिपूर्वां प्रयच्छति ॥२३५॥
निष्पन्नसिद्धिः कालेन प्रविश्य स वटान्तरम् ।
लेभे यक्षसुतां कान्तां सिद्धिं मूर्तिमतीमिव ॥२३६॥
हिरण्यवर्षनाम्नस्तां तनया यक्षभूपतेः ।
विद्युन्मतीं समामन्त्र्य जालपादान्तिकं ययौ ॥२३७॥
जालपादोऽथ तं प्राह सिद्धिज्ञो हर्षसंप्लुतः ।
गच्छ गर्भं समुत्पाट्य तस्यास्तूर्णमिहानय ॥२३८॥
महाव्रतिवचः श्रुत्वा गत्वा यक्षसुतान्तिकम् ।
स पापकर्मनिर्विण्णो नोचे किंचिदधोमुखः ॥२३९॥
विज्ञाततदभिप्राया आह यक्षसुता द्विजम् ।
क्षिप्रं पाटय मे गर्भं मा स्म भूः संशयाकुलः ॥२४०॥
तच्छ्रुत्वा सोऽतिकारुण्यान्न चकार नृशंसताम् ।
यदा तदास्मै सा गर्भं पाटयित्वा स्वयं ददौ ॥२४१॥
प्रपयते भक्षयित्वेमं विद्याधरगतिः प्रभो ।
इत्युक्तः सहसा गत्वा तद्गर्भं व्रतिने ददौ ॥२४२॥
जालपादोऽपि विधिना भुक्त्वा तद्गर्भमात्मना ।
विद्याधरपदं प्राप देव एवान्यवञ्चकः ॥२४३॥
वञ्चितो देवदत्तोऽथ निःशेषरुभक्षणात् ।
जालपादेन भूमिस्थस्तं ददर्श नभोगतिम् ॥२४४॥
वञ्चितोऽहं कृतघ्नेन ध्यायन्निति सुदुःखितः ।
दत्वा स्वमांसं विदधे वीरो वेतालसाधनम् ॥२४५॥
वेतालवाहनो गत्वा देवदत्तो विहायसा ।
विद्याधरपदं प्राप्य जालपादमवाप्तवान् ॥२४६॥
यक्षजातिविमुक्तां च प्राप्तां विद्याधरीपदम् ।
विद्युन्मतीमवाप्यासौ जालपादमपातयत् ॥२४७॥
वेतालबलविभ्रष्टे महाव्रतिनि स द्विजः ।
विद्याधरो बभूवैवं तवाप्यस्ति पुरः शुभम् ।
श्रुत्वैवं शक्तिदेवोऽपि प्रसन्नहृदयोऽभवत् ॥२४८॥
इति देवदत्ताख्यायिका ॥६॥

N/A

References : N/A
Last Updated : October 11, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP