संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|चतुर्दारिकानामा पञ्चमो लम्बकः| अशोकदत्ताख्यायिका चतुर्दारिकानामा पञ्चमो लम्बकः शक्तिदेवसमागमकथा शिवमाधवाख्यायिका हरस्वाम्याख्यायिका शक्तिदेवप्रवहणभङ्गकथा अशोकदत्ताख्यायिका देवदत्ताख्यायिका शक्तिदेवकथा चतुर्दारिकनामा अशोकदत्ताख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत अशोकदत्ताख्यायिका Translation - भाषांतर ततस्तु संगतो दैवाच्चिराद्द्वीपान्तमाश्रितः । विज्ञातो मातुलेयेन भ्राता निजकथान्तरे ॥९८॥ स प्राह विष्णुदत्ताख्यः शक्तिदेवं मुदान्वितः । काकतालीययोगेन दिष्ट्या मे बन्धुसंगमः ॥९९॥ इत्युक्त्वा तत्कथां श्रुत्वा स विनिद्रः श्रमातुरम् । तं समाश्वासयद्वीरं कथामकथयन्निशिः ॥१००॥ गोविन्दस्वामी नामाभूद्ब्राह्मणो यमुनातटे । विजयाशोकदत्ताख्यौ तस्य पुत्रौ बभूवतुः ॥१०१॥ दुर्भिकिषोपहतस्त्यक्त्वा स कदाचिन्निजां पुरीम् । प्रययौ काशिनगरीं सपुत्रः सह भार्यया ॥१०२॥ ततः प्रयागमासाद्य पुण्यं दृष्ट्वा महावटम् । कपालमालाभरणं सोऽपश्यद्व्रतिनं पुरः ॥१०३॥ स पृष्टो ब्राह्मणं प्राह वियोगस्ते भविष्यति । क्षिप्रं विजयदत्तेन भविता च समागमः ॥१०४॥ श्रुत्वेत्युवाच शर्वर्यां शून्यदेवालयान्तरे । सभार्यः ससुतो विप्रः सदूराध्वश्रमाकुलः ॥१०५॥ अशोकदत्तः सहसा ब्राह्मणी च निरन्तरम् । निद्रामवापतुः सर्वदुःखनिःसरणावधिम् ॥१०६॥ ततो विजयदत्तोऽभूद्भृशं शीतज्वरार्दितः । फुल्लोत्फुल्लतनुः क्षिप्रं जले मत्स्य इवाभितः ॥१०७॥ गाढं पित्रावगूढोऽपि शीतं तत्याज नैव सः । यत्नात्स्नेहान्न तत्याज यथार्थमिव दुर्जनः ॥१०८॥ ययाचे वह्निनेवासौ पितरं दीनया गिरा । मध्ये स्मशानमालोक्य दूरादेव चितानलम् ॥१०९॥ पुत्र वित्रासजनकश्चिताग्निः स्पर्शदूषकः । अमङ्गलो न सेव्योऽयमिति प्रोवाच तं पिता ॥११०॥ दन्तवीणास्फुरद्वक्रो रोमाञ्चोद्भुतविग्रहः । शीतज्वरार्तस्तं वह्निं पुनःपुनरयाचत ॥१११॥ पुत्रस्नेहाभिभूतोऽथ समाहर्तुं चितानलम् । गोविन्दस्वामिनि गते दारकोऽप्यन्वयाद्द्रुतम् ॥११२॥ समाप्य तापविकटां विकीर्णास्थिचितां चिताम् । आलिङ्गन्निव सावेगः शनैर्निर्बृतिमाप्तवान् ॥११३॥ ततः प्रोवाच पितरं तातेदं परिवर्तुलम् । द्विजस्य सूनुः श्रुत्वेति काष्ठाग्रेण जघान तम् ॥११४॥ प्रदीप्ततरमाभाति वह्नौ रक्ताम्बुजोपम म् । श्रुवेति तनयं प्राह ब्राह्मणो वीक्ष्य तत्पुरः । येन तत्स्फुटनोद्गीर्णवसासिक्तमुखोऽभवत् ॥११५॥ आस्वाद्यैव समादाय तत्कपालसमाकुलः । पीत्वा वसां महाकायो बभूवातिभयंकरः ॥११६॥ सोऽभूत्प्रकटदंष्ट्राख्यो विकटो निशि राक्षसः । यस्याट्टहासेन दिशश्चक्रन्दुः स्फुटिता इव ॥११७॥ तस्मिन्वेगात्समाकृष्य पितरं हन्तुमुद्यते । मा कृथाः साहसमिति प्रादुरासीद्वचो द्विजः ॥११८॥ त्यक्त्वा जनकमाकाशं प्रययौ स्फोटकं जवात् । कपालस्फोटनामाथ समाहूतः स राक्षसैः ॥११९॥ प्रातः सुतवियोगार्तिदह्यमानतनुर्द्विजः । सभार्यो विललापोच्चैः कारुण्याद्वीक्षितो जनैः ॥१२०॥ समुद्रदत्तनाम्नाथ वणिजा दुःखकर्शितः । समाश्वस्य गृहं नीत्वा कृतो निजधने विभुः ॥१२१॥ स्मरन्महामतिवचः पुत्रसंगमलालसः । स तस्थौ वणिजो गेहे मनोरथशताकुलः ॥१२२॥ अशोकदत्तः शस्त्रास्त्रकल्पविद्याविशारदः । द्वितीयोऽथ द्विजसुतः प्रख्यातो नगरेऽभवत् ॥१२३॥ अत्रान्तरे नरपतिः प्रतापमुकुटाभिधः । समायाते महामल्ले तद्युद्धाय जुहाव तम् ॥१२४॥ अशोकदत्तस्तं भूपपुरो बलवतां वरम् । दाक्षिणात्यं महामल्लं मायाविनमपातयत् ॥१२५॥ तत्कर्मतुष्टोऽथ नृपस्तं चक्रे भाजनं श्रियः । विचित्रकर्माभिनयैः किमलभ्यं महात्मभिः ॥१२६॥ सेनानियुक्तः स सदा युक्तालापो दिवानिशम् । छायेव तस्थौ नृपतेरस्वस्थोचितसंनति ॥१२७॥ अथ कालेन भूपालः शिवार्चायै विनिर्गतः । दूरात्प्रदोषसंध्यायां शुश्राव विजने गिरम् ॥१२८॥ राजन्स्वल्पापराधोऽहं शत्रुप्रेरणया सकृत् । दण्डपालेन निक्षिप्तः शूले निर्घृणचेतसा ॥१२९॥ दिनमद्य चतुर्थं मे शूलस्थस्यैव जीवतः । प्राणाः सुखेन निर्यान्ति नहि दुष्कर्मकारिणाम् ॥१३०॥ भृशं मां बाधते तृष्णा तां निवारय भूपते । श्रुत्वैव राजा कारुण्याद्दिदेशाग्रे स्थितं द्विजम् ॥१३१॥ अशोकदत्तोऽप्यादिष्टः क्ष्माभुजा निशि धैर्यभूः । ययौ कलशमादाय स्मशानं भीरुघट्टनम् ॥१३२॥ स तत्र शूलप्रोतस्य ददर्शाधःस्थितां वधूम् । दिव्याभरणरोचिष्णुप्रभां सिद्धिमिवात्मनः ॥१३३॥ सा प्राह वल्लभोऽयं मे राज्ञा शूले समर्पितः । व्यथते चातिकृपणः पश्य प्राणान्न मुञ्चति ॥१३४॥ अस्याहं मरणोद्युक्ता स्थिताहं विजने निशि । तृषिण्तो याचते वारि मामयं व्यथते मुहुः ॥१३५॥ शूलप्रोतोद्धुतग्रीवं दैवान्नवमिवेश्वरम् । नास्मि प्रापयितुं शक्ता जलमेवमधःस्थिता ॥१३६॥ अशोकदत्तः श्रुत्वेति करुणाब्धिरुवाच ताम् । मातर्मे स्कन्धमारुह्य देह्यस्मै शीतलं जलम् ॥१३७॥ श्रुत्वेति नतपृष्ठांसं सा पभ्द्यामारुरोह तम् । प्रत्यग्रं निपतद्भूमौ रुधिरं च ददर्श सः ॥१३८॥ उन्नाम्य वदनं दृष्ट्वा भक्ष्यमाणं तयैव तम् । अशोकदत्तो जग्राह तस्याः पादस्य नूपुरम् ॥१३९॥ सा त्यक्त्वा नूपुरं प्रायद्बहुरत्नं विहायसा । द्विजात्मजस्तमादाय प्रययौ च नृपान्तिकम् ॥१४०॥ तद्वीरचरितं ज्ञात्वा ददौ तस्मै महीपतिः । सुतां मदनलेखाख्यामनालेख्यामिव श्रियम् ॥१४१॥ कदाचिदथ तं दिव्यनूपुरं वीक्ष्य भूपतिः । तुल्योऽस्यान्यः कुतः प्राप्य इत्याहोत्कलिकाकुलः ॥१४२॥ अभिप्रायं नरपतेर्विज्ञाय कृतनिश्चयः । स्मशानं नूपुराहारी स पुनः प्रययौ द्विजः ॥१४३॥ विक्रीणानो महामांसं मन्त्राकृष्टमहाशवः । गृहाणेत्युच्चया वाचा वचने श्रावयन्दिशः ॥१४४॥ तत्र राक्षसकन्याभिः संगतः सत्त्वसागरः । तस्वामिनीं समासाद्य प्रत्यभिज्ञानमाप्तवान् ॥१४५॥ ममौवासौ त्वया नीतः पुरा वीरेन्द्र नूपुरः । गृहाण रत्नरुचिरं द्वितीयमपि नूपुरम् ॥१४६॥ इत्युक्त्वा नूपुरं तस्मै सा सुतां प्रददौ प्रियाम् । यतुपुरः कान्तिदारिद्र्याद्विनिद्रो निशि चन्द्रमाः ॥१४७॥ विलासालंकृतमदां मदालंकृतविभ्रमाम् । विभ्रमालंकृतानङ्गामनङ्गालंकृताकृतिम् ॥१४८॥विद्युत्केशीसुतां प्राप्य स तां विद्युत्प्रभाभिधाम् । हेमाब्जं नूपुरं तं च पुनः प्राप नृपान्तिकम् ॥१४९॥ राजाप्रतापमुकुटो नूपुरप्राप्तिनन्दितः । कमलाकेलिकमलाकारं प्राप्य तदम्बुजम् ॥१५०॥ राज्ञा शंकरपूजायै ज्ञात्वान्यकमलार्थिताम् । अशोकदत्तः प्रययौ पुनर्नक्तंचरीं प्रति ॥१५१॥ तं याचमानहेमाब्जं सा श्वश्रूः प्राह राक्षसी । त्रिघण्टनाम्नि हिमवच्छिखरेऽस्ति पतिर्मम ॥१५२॥ लम्बजिह्व इति ख्यातस्तेन तत्प्राप्तमम्बुजम् । प्रभोः कपालविस्फोटनाम्नो राक्षसभूपतेः ॥१५३॥ इति तद्वाक्यमाकर्ण्य नय मां राक्षसप्रभोः । तस्य हेमाम्बुजसरो जगादेति द्विजात्मजः ॥१५४॥ तया विहायसा नीतस्ततस्तत्काञ्चनं सरः । जघान रक्षारक्षांसि स मारुतिरिवापरः ॥१५५॥ स्वयं कपालस्फोटोऽथ निहताशेषराक्षसम् । तं ददर्श सरस्तीरे शापं दृष्ट्वैव सोऽत्यजत् ॥१५६॥ शापमुक्तः स विज्ञाय भ्रातरं संमदाकुलः । भ्रातर्विजयदत्तोऽहमित्याह प्रणनाम च ॥१५७॥ अभवं राक्षसपतेरहं सेनापतिश्चिरम् । गन्धर्वैर्निहते तस्मिन्नवापं तत्पदं ततः ॥१५८॥ अधुना मुक्तशापोऽहं श्रुत्वेत्यनुजभाषितम् । अशोकदत्तः स्वजनैः संगतः प्राप निर्वृतिम् ॥१५९॥ प्रज्ञप्तिकौशिकाभिख्यो विद्याधरपतिस्ततः । तावभ्यधाद्युवां पूर्वं विद्याधरकुमारकौ ॥१६०॥ गालवस्य मुनेः कन्यां दृष्ट्वा कामवशं गतौ । तच्छापान्मर्त्यजन्माद्य युवयोः क्षपितं च त त् ॥१६१॥ गृह्णीतमधुना विद्यामित्युक्त्वा विततार सः । ततो विद्याधरपदं प्राप्य तौ सह बान्धवैः ॥१६२॥ गोविन्दकूटनामानं दिव्यं व्योमगमं पुरम् । न््दतुस्त्वमप्येवं भ्रातः शङ्के श्रियः पदम् ॥१६३॥ इत्यशोकदत्ताख्यायिका ॥५॥ N/A References : N/A Last Updated : October 11, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP