शिवमाधवाख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
राजा परोपकारीति वर्धमानपुरेऽभवत् ।
तस्य हेमप्रभा नाम वल्लभाभूदनङ्गभूः ॥१८॥
कन्या कनकलेखाख्या तस्यां तेन महीभुजा ।
उपपादि जगज्जैत्रयात्रा लक्ष्मीर्मनोभुवः ॥१९॥
कनकाख्या ननु पुरी दृष्टा येन स मे पतिः ।
इत्युद्वाहविधौ चक्रे सा व्रतं दृढनिश्चया ॥२०॥
पुत्र्याः प्रतिज्ञां जिज्ञाय प्रौढयौवनसंपदः ।
अज्ञातां च पुरीं मत्वा नृपः शोकाकुलोऽभवत् ॥२१॥
दृष्ट्वा कनकपुर्याख्या येन लक्ष्मीं सुतां स मे ।
संप्राप्स्यतीति विदधे नृपः पटहघोषणम् ॥२२॥
न दृष्टा न श्रुता वापि सा पुरीति महीतले ।
वचो निशम्य लोकानां राजाभूद्भृशदुःखितः ॥२३॥
अत्रान्तरे शक्तिदेवो द्विजन्मा द्यूतकृन्मृषा ।
भूपालमब्रवीदेत्य मया दृष्टेति सा पुरी ॥२४॥
इति ब्रुवाणं तं राजा नीत्वा स्वतनयान्तिकम् ।
अनेन पुत्रि सा दृष्टा पुरीति प्राह सादरम् ॥२५॥
क्क वा कथं वा दृष्टेति पृष्टः कनकलेखया ।
पुरीमकथयन्मिथ्या वर्णनानिपुणोऽथ सः ॥२६॥
असकृद्बहुजल्पोऽयमिति मिथ्यावचः क्रुधा ।
स तया भ्रुकुटिभ्रान्त्या चेटिकाभिस्तिरस्कृतः ॥२७॥
स निरस्तोऽवमानाग्निप्लुष्टो दुर्गतिपीडितः ।
कनकाख्यां पुरीं द्रष्टुं प्रययौ कृतनिश्चयः ॥२८॥
तं समुत्सारितं कृत्वा चिन्तासंतापितो नृपः ।
शुशोच तनयां पश्यन्फुल्लयौवनशालिनीम् ॥२९॥
.......................................... ।
............................................ ॥३०॥
अवाप्तकन्यकारत्नं पुरोहितमनुस्थितम् ।
यत्कौसलेन नगरे धनवान्कोक न वञ्चितः ॥३१॥
ततो महाधनं ज्ञात्वा भूमिपालपुरोहितम् ।
निर्जरे रत्नमालेव कथं दुःखा [च] मे सुता ॥३२॥
किं निरस्तस्त्वया पुत्रि स दृष्टा येन सा पुरी ।
पितुः श्रुत्वेति सा प्राह कन्या कमललोचना ॥३३॥
धूर्तः स कितवो देव न तत्त्वं किंचिदुक्तवान् ।
साधुभ्रान्त्या हि मुष्णन्ति धूर्ताः सरलवञ्चकः ॥३४॥
पुरा रत्नपुरे धूर्तावभूतां शिवमाधवौ ।
उज्जयिन्यां पृथग्वेषौ जग्मतुर्वञ्चनोद्यतौ ॥३५॥
पूर्वं शिवः समभ्येत्य स्वैरं दम्भव्रतं श्रितः ।
शिप्रातीरे जपरतस्तस्थौ विश्वासयञ्जनम् ॥३६॥
विभृष्टराजवंशेन धूर्तश्च स हि माधवः ।
तं पुरोहितमभ्येत्य दत्तोपायनमभ्यधात् ॥३७॥
त्वया सौहार्दमाधाय सेवे राजानमुत्तम म् ।
इति शंकरदत्ताख्यः श्रुत्वा वाचं पुरोहितः ॥३८॥
अहं स्वदेशविभ्रष्टो राजपुत्रो महाधनः ।
तथेत्युक्त्वास्य विदधे राजसिंहेन संगम म् ॥३९॥
सेवमानो नरपतिं पुरोहितगृहस्थितः ।
स कदाचिदनिर्देश्य रोगान्मिथ्यातुरोऽभवत् ॥४०॥
अस्वस्थमथ विज्ञाय दुःखाक्रान्तः पुरोहितः ।
पुनः पुनः समभ्येत्य तमपृच्छदनामयम् ॥४१॥
सोऽब्रवीद्राजयोग्यं मे विद्यते रत्नभूषणम् ।
पात्रमानय यस्मै तद्दत्त्वा यास्यामि सद्गतिम् ॥४२॥
यियासोः पञ्चतां पुंसः सुहृदां भिषजां पुरः ।
दीर्घान्धकारे पततो दानमेव परा गति ॥४३॥
इत्याकर्ण्य वचस्तस्य सरलात्मा पुरोहितः ।
आनिनाय बहून्विप्रान्स च तान्नाभ्यमन्यत ॥४४॥
ततः शिप्रातटस्थं तं जपव्रतपरायणम् ।
पुरोहितः शिवं गत्वा प्राह मित्रमनोगतम् ।
किं धनैरगृहस्थस्य मामेत्यामीलितेक्षणम् ॥४५॥
अथोपपत्तिवचनैस्तमभ्यर्च्य पुरोहितः ।
प्रियां पुत्रीं प्रदायास्मै प्रतिग्रहमदापयत् ॥४६॥
माधवस्तद्गिरा तस्मै काचकृत्रिमभूषणम् ।
प्रतिपाद्याभवत्स्वस्थो मूर्तां मायामिवात्मनः ॥४७॥
विक्रीणानन्ततो ज्ञात्वा प्राह जामातरं शिवम् ।
पुरोहितो न कालेऽस्मिन्योग्यस्ते रत्नविक्रयः ॥४८॥
गृहाण मे धनं सर्वं मय्येवार्पय भूषणम् ।
इत्युक्त्वा तौ परावृत्तिं धनलेखं न चक्रतुः ॥४९॥
शिवस्तद्धनमादाय माधवेन सहानिशम् ।
प्रमोदं प्राप्य संभोगसुधासंसिक्तमानसः ॥५०॥
पुरोहितोऽपि कालेन क्रीतकृत्रिमभूषणः ।
जितः स्वहस्तलेखेन विवादे भूपतेः पुरः ॥५१॥
त्वया व्याजादिदं दत्तमिति पृष्टः सभासदैः ।
माधवोऽप्याह दत्तं यत्तत्फलं समुपेष्यति ॥५२॥
इति भ्रमन्ति कूटेन धूर्ता वञ्चयितुं जनम् ।
कस्तेषां हि वशे धीमान्विश्वासं याति मायिनाम् ॥५३॥
इति शिवमाधवाख्यायिका ॥२॥
N/A
References : N/A
Last Updated : October 11, 2017
TOP