शक्तिदेवप्रवहणभङ्गकथा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


पितुः श्रुत्वेति वचनं न चचाल समीहितान् ।
वज्रलेपादपि दृढो मानिनीनां हि निश्चयः ॥६८॥
अत्रान्तरे शक्तिदेवः प्रययौ दक्षिणां दिशम् ।
द्रष्टव्या काञ्चनपुरी मर्तव्यं चेति संपदा ॥६९॥
ततो विन्ध्याटवीं प्राप्य तालहिन्तालमालिताम् ।
ददर्श सूर्यतपसं मुनिं मुनितपोवने ॥७०॥
पृष्टः क्क प्रस्थितोऽसीति मुनिना विगतक्लमः ।
गच्छामि काञ्चनपुरीं क्क च सास्तीत्यभाषत ॥७१॥
प्रयासि नैव अजानासि विचित्रं च तवेप्सितम् ।
अहं तात न जानामि चिरायुरपि तां पुरीम् ॥७२॥
काम्पिल्लेऽस्ति मम भ्राता स्थितो दीर्घतपा मुनिः ।
अपि जाने स जानाति न चेदन्यो न विद्यते ॥७३॥
इति तस्य गिरा गत्वा काम्पिल्ले मुनिसत्तम म् ॥७४॥
दासराजोऽस्ति जलधावुत्पलद्वीपसंश्रयः ।
मन्ये सत्यव्रताख्योऽसौ वृद्धो जानाति तां पुरीम् ॥७५॥
श्रुत्वेति दीर्घतपसः शक्तिदेवो मुनेर्वचः ।
तूर्णमुत्पलकद्वीपं प्रतस्थे कृतनिश्चयः ॥७६॥
स गच्छन्नाससादाब्धौ वणिजं द्वीपगामिनम् ।
समुद्रमत्स्यनामानं निधिनाथमिवापरम् ॥७७॥
आरुह्य तत्प्रवहणं सौहार्देन निषेव्य तम् ।
ददर्श पयसां राशिं गम्भीरावर्तभीषणम् ॥७८॥
ब्रह्माण्डं मण्डपस्फारस्फटिकस्तम्भविभ्रमैः ।
उत्तुङ्गविपुलाभोगतरङ्गैर्लङ्घिताम्बरम् ॥७९॥
घनगर्जितविस्फूर्जन्मरुजध्वनितोर्जितम् ।
अताण्डवचलच्चण्डवीचिदोर्दण्डमण्डलैः ॥८०॥
आसेव्यमानमभितो पृथुपर्जन्यसंचयैः ।
मैनाकरक्षासंजातप्रणयैरिव भूधरैः ॥८१॥
संसारमिव दुष्पारमायासमिव दुःसहम् ।
मायाजालमिवानन्तं मूर्खं खलमिवोद्धतम् ॥८२॥
तत्र प्रवहणारूढः सोऽपश्यन्निखिला दिशः ।
स्फारकल्लोलपटलीदुकूलवलिता इव ॥८३॥
अथोदतिष्ठव्द्योमश्रीः कालागुरुविशेषकः ।
मेघस्तमालमलिनबालसूकरविभ्रमः ॥८४॥
यातः स वृद्धिं सहसा दुर्जनव्यसनोपमः ।
चक्रे लोकं निरालोकं विमोह इव मानवम् ॥८५॥
ततस्तत्प्रभवोद्भूतवात्यावलयसंप्लवैः ।
ययौ जलधितां व्योम व्योमतां च महोदधिः ॥८६॥
तस्मिंस्तरङ्गसंघट्टस्फोटिताशेषदिक्तटे ।
उद्भूतप्रलयोभ्द्रान्तपुष्करावर्तकध्वनिः ॥८७॥
ततस्तडिति साटोपत्रुटिताशेषबन्धनैः ।
अभज्यत प्रहवणं वणिजां हृदयैः सह ॥८८॥
तस्मिन्निगीर्णं मत्स्येन विशालवपुषा ततः ।
शक्तिदेवः परिपतन्गीर्णस्तूर्णं सरंहसा ॥८९॥
वणिग्वरः फलहकासानदात्प्राप्तजीवितः ।
मत्स्योऽप्यसावुत्पलकद्वीपबद्धो निपादकैः ॥९०॥
धीवरैर्विनिकृत्तोऽथ मत्स्यो दासपतेः पुरः ।
स विप्रो निर्ययौ जीवन्दुर्विज्ञेया विधेर्गतिः ॥९१॥
घोरान्धकारानिर्मुक्तः शक्तिदेवोऽथ विस्मयात् ।
पृष्टो दासाधिपतिना प्राहागमनकारणम् ॥९२॥
कनकाख्यां पुरीं द्रष्टुं भ्रान्तोऽस्मि पृथिवीमिमाम् ।
न सा दृष्टा श्रुता वापि ततः पृष्टो मया मुनिः ॥९३॥
स मामुवाच दासानामस्ति सत्यव्रतः पतिः ।
तं प्रच्छेति निशम्याहं संप्राप्तो मकराकरम् ॥९४॥
तत्र प्रवहणे भग्ने निगीर्णोऽहं जलौकसा ।
दैवाद्भुवमिमां प्राप्तः कर्मबन्धो हि नान्यथा ॥९५॥
इत्याकर्ण्याब्रवीद्दासः कौतुकाकुलितो द्विजम् ।
सत्यव्रतोऽहमेवासौ न दृष्टा नगरी मया ॥९६॥
यत्नादन्विष्य वक्ष्यामि विश्रान्तिं भज निर्वृतः ।
इति तस्य गिरा तस्थौ तत्र रात्रिं द्विजाश्रमे ॥९७॥
इति शक्तिदेवप्रवहणभङ्गकथा ॥४॥

N/A

References : N/A
Last Updated : October 11, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP