संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|लावानकनामा तृतीयो लम्बकः| हलभूत्याख्यायिका लावानकनामा तृतीयो लम्बकः परहिताख्यायिका वहिल्लकाख्यायिका देवसेनाख्यायिका परिव्राडाख्यायिका पुण्यसेनाख्यायिका सुन्दोपसुन्दाख्यायिका पद्मावतीविवाहः उर्वश्याख्यायिका विहितसेनाख्यायिका सोमप्रभाख्यायिका अहल्याख्यायिका विदूषकाख्यायिका देवदासाख्यायिका श्रीवत्सेशदिग्विजयः हलभूत्याख्यायिका लावानकनामा हलभूत्याख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत हलभूत्याख्यायिका Translation - भाषांतर चक्रवर्तिश्रियं प्राप्य हेमरत्नाम्बरप्रदम् । भेजे श्रृङ्गारसाम्राज्यं कान्ताकेलिकलो नृपः ॥३१४॥ ततः कदाचित्सचिवं प्राह वत्सेश्वरो जयी । भवन्मतिप्रभावोऽयमहो मद्विजयश्रिये ॥३१५॥ पश्य मे भ्रूलताक्षेपैरुत्स्वातप्रतिरोपिताः । जाता नराधिपाः पादचुम्बिचूडामणित्विषः ॥३१६॥ मन्येऽहं ब्रह्मदत्तोऽसौ नितान्तं कुटिलाशयः । वशं नीतोऽपि यत्नेन दर्पान्धो विचलिष्यति ॥३१७॥ संमानितस्त्वया देव स राजा न चलिष्यति । शुभं शुभकृतादेव विपरीताद्विपर्ययः ॥३१८॥ त्वच्छासनद्विशस्तस्य ध्रुवं श्रीर्नभविष्यति । अग्निदत्तोऽभवद्विप्रः पद्माख्ये विषये पुरा ॥३१९॥ सोमदत्तोऽभवत्तस्य पुत्रः शास्त्रविवर्जितः । वैश्वानराभिधश्चान्यः श्रुतः श्रुतिविदां वरः ॥३२०॥ अग्निदत्तस्तयोः कृत्वा विवाहं प्रययौ दिवम् । सोमदत्तस्ततो मौर्ख्यात्सदाचारविवर्जितः ॥३२१॥ राज्ञोऽपि निग्रहपदं ययौ दुर्जनचेष्टितैः । भ्रात्रा संरक्षितोऽभ्येत्य विदुषा नृपशासनात् ॥३२२॥त्यक्त्वाग्रहारं सुकृशो जग्राह कृषिजीविकाम् । वटवृक्षं पृथुच्छायं पूजयन्सततं व्यधात् ॥३२३॥ क्षेत्रकर्माभवद्येन प्रवृद्धः सभ्यसंपदा । हलभूतिरिति प्राप संज्ञां स कृषितत्परः ॥३२४॥ ततः परधनायत्तैः क्षणेनाथ विनाशिता । सा तस्य श्रीर्विधौ वामे पौरुषं हि कदर्थिता ॥३२५॥ स शोकव्याकुलो रात्रौ नष्टनिद्रो वटान्तिके । शुश्रावाकाशवचनं सभार्यः साश्रुलोचनः ॥३२६॥ मिहारो नाम यक्षोऽहं प्रसन्नस्ते सदार्चनात् । वेदानाप्नुहि मद्वाक्याद्विपुलां श्रियमाप्स्यसि ॥३२७॥ आदित्यप्रभमासाद्य श्रीकण्ठविषये नृपम् ।गृहे गत्वा सदा कार्येष्वपृष्टः पृष्ट एव वा ॥३२८॥ .............तत्वं मया दिष्टमपठत्स च तत्पुरः । शुभं शुभकृतादेव विपरीताद्विपर्ययः ॥३२९॥ इत्याकर्ण्य स तद्वाक्यं तस्य राजा स्मितप्रियः । ददौ सुविपुलां लक्ष्मीं तस्मै विस्मयकारिणीम् ॥३३०॥ ततः कदाचिद्भूपालस्तेन विश्रम्भसाक्षिणा । ययौ मृगव्यां पौरस्त्रीकताक्षोत्पलमालितः ॥३३१॥ चिरात्प्रतिनिवृत्तोऽथ कान्तां कुवलयावलीम् । हृष्टां हृष्टोऽविशद्द्रष्टुमेक एव नरेश्वरः ॥३३२॥ रुद्धप्रवेशो नृपतिर्दीर्घमन्तःपुरे ततः । गवाक्षान्तरितोऽपश्यद्यागमण्डलपङ्कजे ॥३३३॥ दिगम्बरां भुक्तकेशीं रक्तचन्दनचर्चिताम् । ददर्श तत्र दयितामभिचारोचितस्थितिम् ॥३३४॥ प्रविष्टो विस्मयक्रोधशङ्काकुलितमानसः । ततस्तया नरपतिर्दृष्टश्चकितनेत्रया ॥३३५॥ संत्रासतरलाकारा कम्पमाना घनस्तनी । अभयं दीयतां देव कथयामीत्यभाषत ॥३३६॥ तत्ताभया नृपतिना कथामकथयन्निजाम् ।अस्मि देव पितुर्गेहे पुराहं कन्यका सती ॥३३७॥ नानादेशसमायातसखीमण्डलमण्डिता । मधौ मधुरसंलापकोकिले कलिकाकुले ॥३३८॥ मलयानिललोलालिकुलाकुलितचम्पके । उद्यानमगमं लीलानिल्यं पुष्पधन्वनः ॥३३९॥तत्र मामवदन्सख्यः सखि देवः प्रणम्यताम् । अ.........................ऊर्ध्वरेतसि संनिधिः ॥३४०॥ श्रीमान्स हि................विघ्नाधिपो विभुः । विवाहविजयोद्योगेष्वेको लोकेषु पूज्यते ॥३४१॥ श्रुत्वेति ता मया पृष्टास्तत्प्रभावं बभाषिरे । ऊरेध्वरेतसि चण्डीशे गौरी पुत्रार्थिनी पुरा ॥३४२॥ प्रदध्यौ तच्च विज्ञाय हृष्टोऽभूत्पाकशासनः । ध्रुवं देव्याः सुतोऽस्माकं भविष्यति जयश्रिये ॥३४३॥ ध्यात्वेति शक्रः पञ्चुषुं दिदेश मधुना सह । स गत्वा शंकरमनःक्षोभायाक्शयसायकः । चक्रे तपोवनं शंभोरकालमधुमण्डितम् ॥३४४॥ स्वहसोत्फुल्लककुभाशोककेसरकिंशुके । तत्र त्रिलोचनं कामो विव्योधोन्मादनेषुणा ॥३४५॥ विकारं मनसो दृष्ट्वा कुपितस्त्रिपुरान्तकः । स्मृतिशेषं स्मरं चक्रे भाललोचनवह्निना ॥३४६॥ तद्दुःखात्साश्रुनयनां द्वीं पुत्रार्थिनीं हरः । उवाच देवि विघ्नेशः पुत्रार्थं नार्चितस्त्वया ॥३४७॥ इत्युक्ते भगवान्देवैरर्थ्यमानो मनोभवम् । चकार मानसावासं द्विगुणोत्साहदर्पणम् ॥३४८॥ अथ तारकवित्रस्तत्रैदशत्राणमात्मजम् । स्रष्टुं सतीरतक्रीदां भेजे शीतांशुशेखरः ॥३४९॥ सहस्रं दिव्यवर्षाणां शंकरे रतितत्परे । लुठद्गिरिवरोद्धूतसागरा विचचाल भूः ॥३५०॥ ततो भीतैः सुरैः सर्वैः परमेष्ठिगिरानलः । त्रिनेत्ररतिविघ्नार्थमन्विष्टो न व्यदृश्यते ॥३५१॥ शुकभेकगजैर्ज्ञात्वा प्रच्छन्नोऽग्निर्निवेदितः । यदा जिह्वापरावृत्तिः शापं तेभ्यो ददौ तदा ॥३५२॥ याचितोऽथ सुरेन्द्रेण शर्वस्य सुरतोत्सवे । विवेश सूक्ष्मवेषाग्निर्विरराम ततः शिवः ॥३५३॥ विरतो रेतसो वेगं चिक्षेपाग्निमुखे हरः । को हि माहेश्वरं तेजो विनाग्निं धर्तुमीश्वरः ॥३५४॥ ततो गिरिसुता कोपाच्छशाप सुरमण्डलम् । मा वः सदृशसंसर्गजन्मा कस्य सुतोऽस्त्विति ॥३५५॥ पुत्रार्थं न त्वया देवि पूजितो विघ्ननाशकः । इति पत्युर्गिरा गौर्या प्राप्ते गिघ्नेऽर्चितोऽथ सः ॥३५६॥ ततो वर्षसहस्रान्ते श्रमार्तो हव्यवाहनः । तत्याज गर्भं गङ्गायां साप्यधत्त तमुत्कटम् ॥३५७॥ जाह्नवी तारकत्रस्ता तं शंभोर्वचसात्यजत् । सुमेरोर्दक्षिणे पार्श्वे सहस्रांशुसितद्युतिम् ॥३५८॥ कृत्तिकारक्षितः श्रीमान्रक्षितो हरकिंकरैः । षण्मुखस्तेजसा चक्रे सज्ज्वालाजटिला दिशः ॥३५९॥ नारदस्य गिरा ज्ञात्वा दृष्ट्वा च तमतिप्रभम् । सहस्राक्षो मुमोचाशु तस्मै वज्रं पुनः पुनः ॥३६०॥ वज्रप्रहारैस्तनया बभूवुस्तस्य दुर्मदाः । शाखो विशाखः सुमुखश्चेति शक्रदवानलाः ॥३६१॥ अथोत्थिते कार्तिकेयडिम्भे समरदुर्मदे । वासवस्तम्भितकरे दुद्रावैरावणो रणे ॥३६२॥ ततस्त्रिलोचनोऽभ्येत्य सुरेन्द्रकृपया शिशुः । सान्त्वितः सह पार्वत्या शक्रे प्रीतिं च लम्भितः ॥३६३॥ ततोऽभिषेके पृतनापत्ये तस्याशु कल्पिते । हरेः सकुलिशो बाहुः स्तम्भतां विघ्नतो ययौ ॥३६४॥ अथ शर्वस्य वचसा पूजिते गणनायके । विघ्नप्रशान्त्या शक्रस्य बाहुः स्तम्भादमुचय्त ॥३६५॥ हेरम्बेणाभिषिक्तोऽथ स्वयं सेनामवाप्य सः । दिव्यकान्त्या महासेनो न्यवधीत्त्तारकासुरम् ॥३६६॥ एवं महाप्रभावोऽयं प्रणम्यो विघ्ननाशकः । सखीनामित्यहं वाक्यात्ततस्तमगमं मुदा ॥३६७॥ गणेन्द्रमश्वत्थतले पूजयित्वा महेश्वरम् । सखीनां सहसापश्यमाकाशेन गतागतम् ॥३६८॥ तद्दृष्ट्वा विस्मितात्यन्तमपृच्छं कौतुकेन ताः । सख्यः कथं वो नभसा गतिरित्यूचिरे च ताः ॥३६९॥ महाकालप्रसादाच्च पूजनाच्च गणप्रभोः । महामांसाशनाच्चेयमस्माकं सिद्धिरुत्तमा ॥३७०॥ छन्ना वयं च डाकिन्यः काष्यूर्ध्वव्यापिनी च नः । अस्त्यसौ कालरात्रीति सा चाहूता समेष्यति ॥३७१॥ ततो मदुपदेशाय समाहूता समाययौ । कालरात्री सखीभिर्मे कुम्भलम्बोदरस्तनी ॥३७२॥ अहं तद्दीक्षया क्षिप्रं महामांसाशनेन च । दृष्ट्वा देवं महाकालमभवं योगिनी ततः ॥३७३॥ मायारूपपरावृत्तिर्दृष्टिबन्धाभिचारके । मारणोच्चाटनाकर्षे जाताहं तद्गुणाधिका ॥३७४॥ तस्याः प्रच्छन्नडाकिन्याः कालरात्र्याः पतिर्द्विजः । विष्णुस्वामीत्युपाध्यायः श्रोत्रियाऽस्ति बहुश्रुतः ॥३७५॥ तस्य सुन्दरको नाम शिष्यो रूपेण सुन्दरः । कालरात्र्या युवा स्वैरं याचितो रतिदक्षिणाम् ॥३७६॥ जननी गुरुभार्या मे त्वं पुत्रोऽहं तवानघे । इति सुन्दरकः प्राह प्रार्थ्यमानस्तयाऽसकृत् ॥३७७॥ ततः क्षिप्रं स्वनस्वरैः सा विदार्य निजं वपुः । कृतं सुन्दरकेणेदमित्याह कुपिता पतिम् ॥३७८॥ उपाध्यायस्ततः क्रुद्धस्तं शिष्यं शिष्यसेनया । लगुडैर्जर्जरतनुं विधाय बहिरत्यजत् ॥३७९॥ स रात्रौ निर्जने त्यक्तश्चिरेणावाप्तजीवितः । उत्थाय शून्यं गोवाटमविशच्छङ्किताशयः ॥३८०॥ ततोऽर्धरात्रे निर्यातामपश्यड्डाकिनीवृताम् । कालरात्रीमुपाध्यायदयितां भीषणाननाम् ॥३८१॥ तदुत्पतनमन्त्रेण दिवमुत्पतिते गृहे । सगोवाटे स जग्राह तन्मन्त्रं धीमतां वरः ॥३८२॥ भ्रान्त्वा प्रतिनिवृत्तयां पुनस्तस्याः क्षपाक्षये ॥सत्त्रशालाश्रितः सोऽथ पुनरेत्यार्थितस्तया ॥३८३॥अद्यापि मन्मथरुचे भज मां स्वयमागताम् । उपाध्यायवधूं याहि देहि जीवितदक्षिणाम् ॥३८४॥ इत्युपाध्यायिनीवाक्यं श्रुत्वा कर्णौ पिधाय सः । जगाम धर्ममर्यादां लङ्घ्यान्ति न साधवः ॥३८५॥ प्रत्याख्यानं रुषाभ्येत्य विष्णुस्वामी पुनस्तया । त्वच्छिष्येण हतास्मीति गिरा कोपाकुलः कृतः ॥३८६॥ उपाध्यायोऽथ तत्कोपादविज्ञाय तदाशयम् ।तस्य भोजनमभ्येत्य सत्त्रशालां न्यवारयत् ॥३८७॥ स चोत्पतनयन्त्रज्ञः पवन्संत्रासमययौ । पुनस्तमेव गोवाटं तत्रापश्यच्च तां निशि ॥३८८॥ तासामुत्पतितानां च स्थितः प्रच्छन्नवाटके । मूलकानां चयं प्राप महार्थं दूरदेशगः ॥३८९॥ तद्विक्रये प्रभातेऽथ स तदाहृतिसंगतैः । नीतो विवादो नृपतेः पुरस्तादवदच्च सः ॥३९०॥ प्रासादमधिरुह्येमं देवं विज्ञापयाम्यहम् । इति प्रासादमारुह्य मन्त्रेणोत्पत्य दूरगः ॥३९१॥ द्वितीयं नृपमभ्येत्य प्राहाहं धूर्जटेर्गणः । दीयतां हेमरत्नानि मह्यं माहेश्वरो ह्यसि ॥३९२॥ इत्युक्त्वा विपुलैश्वर्यं तस्मादासाद्य हर्म्यगः । यदृच्छोपगतां सिद्धिं प्राप्य मन्त्रं निपातितम् ॥३९३॥ कालरात्रिकथां राज्ञे सर्वामेत्य न्यवेदयत् । राजा तत्त्वं परिज्ञाय तस्या निग्रहमभ्यधात् ॥३९४॥ सा ततोऽन्तर्हिताभ्येत्य स्थिता चान्तःपुरे मम । इत्येतत्कथितं तुभ्यं याथातथ्यं मया विभो ॥३९५॥ एहि सिद्धिं भज क्षिप्रं प्रयोगे समयी भव । भुङ्क्ष्व वीरं महामांसं निर्विकल्पपदं श्रयः ॥३९६॥ इति देवीगिरा राजा घृणाघूर्णितमानसः । तथेति चक्रे कृच्छ्रेण बहुशो बोधितस्तया ॥३९७॥ त्वयाकृष्टः पशुः कोऽत्र पृष्टेति जगतीभुजा । हलभूतिरित प्राह स्वैरं कुवलयावली ॥३९८॥ उद्विग्नं स समाकर्ण्य देव्या च भृशमर्थितः । राजा दोलायितमनाश्चिरेण प्राप निश्चयम् ॥३९९॥ ततः साहसिकं नाम सूदमाहूय दंपती । तमूचतुः समभ्येत्य यो वक्ष्यति महानसे ॥४००॥ राजयोग्यां वसुमतीं कुरुष्वेति त्वमेव तम् । हत्वा तन्मांसभूयिष्ठं तूर्णं भोजनमानय ॥४०१॥ इति संविदमाधाय स सभामण्डपं पुनः । हलभूतिं नृपः प्राह भोज्यं मे क्रियतामिति ॥४०२॥ तूर्णं तदाज्ञया गन्तुं प्रस्तुतं तं महानसम् । ऊचे चन्द्रप्रभोऽभ्येत्य राजसूनुस्त्वराकुलः ॥४०३॥ मत्कुण्डलो हृतो गच्छ श्रुत्वेत्याह च स द्विजः । राजभोजनमादिश्य सूदमेप्याम्यहं क्षणात् ॥४०४॥ इति राजसुतः श्रुत्वा हलभूतिमभाषत । अहं महानसं गत्वा सूदं वक्ष्यामि ते वचः । व्रज मत्कुण्डलार्थं त्वमित्युक्तौ जग्मतुः पृथक् ॥४०५॥ राजपुत्रमथायान्तं दृष्ट्वा श्रुत्वा च तद्वचः । हत्वा यथोक्तमकरोत्सूदः समययन्त्रितः ॥४०६॥ तन्मांसभोजनं राजा भुक्त्वा स्वैरं वधूसखः । प्रातर्विदितवृत्तान्तः पपात विलपन्भुवि ॥४०७॥ सुपुत्रं निहतं ज्ञात्वा हलभूतिं विलोक्य च । शुभं शुभकृतादेव सस्मारेति स तद्गिरः ॥४०८॥ हलभूतिं नृपपदे धृत्वानुशयतापितः । ब्राह्मणेभ्यो महादानं वितीर्य यमुनातटे ॥४०९॥ निकृत्तनिजमांसेन हुत्वा वह्निं ससंभ्रमः । सभार्यः प्रययौ स्वर्गं सत्त्वनिर्धूतकल्मषः ॥४१०॥ शुभं शुभकृतादेव हलभूतिरवाप्तवान् । न हि कश्चिच्छुभकृतस्तव राजा चलिष्यति ॥४११॥ इति हलभूत्याख्यायिका ॥१५॥ N/A References : N/A Last Updated : October 10, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP