पद्मावतीविवाहः
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
इत्युक्त्वा नारदो देवीं विलोक्य प्रणतां पुरः ।
विद्याधरेन्द्रजननी भाविनीत्याह दिव्यधीः ॥६७॥
तिरोहिते ततस्तस्मिन्राजा लावानकं ययौ ।
सेनापिहितदिक्चक्रः सह वासवदत्तया ॥६८॥
आगतं वत्सनृपतिं ज्ञात्वा दूतेन मागधः ।
शङ्कया संभृतस्तस्थौ मन्त्रिवर्गबलोद्यमैः ॥६९॥
वत्सराजोऽपि दयितासंभोगामृतनिर्भरः ।
लावानकपुरोद्याने विजहार स्मरोपमः ॥७०॥
अथ तस्मिन्मृगयायां क्रीडायै विपिनं गते ।
यौगन्धरायणोऽभ्येत्य सार्धं गोपालकादिभिः ॥७१॥
कृत्वा ज्ञातकथां देवीं प्राणैः पत्युर्हितैषिणीम् ।
गूढं वसन्तकोपेतां निनाय मगधां क्षणात् ॥७२॥
तस्य योगेन तरुणी साभवद्ब्राह्मणी तदा ।
वसन्तकः काणबटुः स्वयं वृद्धद्विजश्च सः ॥७३॥
तेशु यातेशु मगधां गोपालोऽपि रुमण्वता ।
सह लावानकं दग्ध्वा गूढमन्त्रधरोऽभवत् ॥७४॥
मन्त्री वृद्धद्विजाकारः प्रविश्य मगधापतेः ।
कन्यकान्तःपुरं प्राह प्रौढः पद्मावतीं शनैः ॥७५॥
राजपुत्री सुतेयं मे रूपिणी तनयोऽप्ययम् ।
अन्वेष्टुमस्या गच्छामि चिरविप्रोषितं पतिम् ॥७६॥
निक्षिप्तेयं त्वयि मया सुतश्चायं प्रियंवदः ।
इत्युक्त्वा प्रययौ मन्त्री तथेत्यभिहितस्तया ॥७७॥
सा च पद्मावतीं दृष्ट्वा तां च पद्मावती मुहुः ।
परस्परमहो रूपमित्यासक्तमवोचताम् ॥७८॥
अवन्तिकाभिधानां तां छत्रां वीक्ष्य द्विजन्मजाम् ।
मागधी देवतां मेने रूपलावण्यराशिभिः ॥७९॥
उवाच छत्रयोगेन दमयन्ती नलप्रिया ।
कृष्णा च पाण्डववधूस्तद्विधेयं भविष्यति ॥८०॥
ध्यात्वेत्युपचचारैता प्रणता देवतामिव ।
ततः पद्मावतीमाता तां दृष्ट्वा विस्मितावदत् ॥८१॥
कुन्ती भोजस्य तनया पुरा दुर्वाससं मुनिम् ।
आराध्य पितुरादेशादवाप प्रवरं वरम् ॥८२॥
तस्मादवन्तिकापुत्री दिव्योचितमनः सती ।
यत्नादाराधनीयेयं सत्सेवा हि महाफला ॥८३॥
इति मातुर्नियोगेन तां सिषेवे नृपात्मजा ।
मन्दीकृत्य शुचं किचित्सहायमिव चेष्टितैः ॥८४॥
विरहानलसंतापमूर्च्छितापि मुहुर्मुहुः ।
संकल्पोल्लिखितप्रेयोदर्शनेन धृतिं ययौ ॥८५॥
अत्रान्तरे मृगक्रीडानिवृत्तो वत्सभूपतिः ।
देवीं लावानके दग्धामज्ञासीत्सवसन्तकाम् ॥८६॥
श्रुत्वैव स पपाताशु विस्फुरत्कटको भुवि ।
हारांशुनिर्भरस्मेरो वज्रलून इवाचलः ॥८७॥
तुषारचन्दनजलैर्विबुद्धो विलपन्प्रियाम् ।
तत्सपत्नीति भीत्येव मुमोचालिङ्गितां महीम् ॥८८॥
स समाश्वास्यमानोऽपि यत्नाद्गोपालकादिभिः ।
आससाद धृतिं राजा नयहीन इव श्रियम् ॥८९॥
विद्याधरेन्द्रजननीभाविनीति मुनेर्वचः ।
स्मृत्याधारोऽभवत्किंचिदाशालम्बितजीवनः ॥९०॥
गोपालमन्त्रिणौ दृष्ट्वा मन्दशोकौ मुखत्विषा ।
इङ्गितज्ञः शुचं त्यक्त्वा विचारपदमाययौ ॥९१॥
किंचित्प्रतनुशोकेऽथ विरहार्तमहीपतौ ।
देवी दग्धेति संलापे दिक्चक्रे परिसर्पति ॥९२॥
प्रद्योतो मगधाधीशो दूतेनाभ्यर्थ्य भूभुजे ।
दातुं पद्मावतीमैच्छत्पार्वतीमिव शूलिने ॥९३॥
प्रियं प्राप्स्यति तां प्राप्य श्रुत्वेति सचिवान्नपः ।
अमन्यत निजोद्वाहं विरहानलदुःसहः ॥९४॥
ततस्तुरगसैन्येन मागधीम प्राप्य भूपतिह ।
विवाहवसुधां भेजे राजपुत्र्या सहोचिताम् ॥९५॥
वह्निप्रदक्षिणे तत्र प्राह यौगन्धरायणः ।
प्रदत्तां देहि मे वाचं पूर्वदिग्विजये प्रभो ॥९६॥
इति मन्त्रिगिरा तेन वत्सराजजयं प्रति ।
निबद्धवचने स्वैरं विवाहश्रीरवर्तत ॥९७॥
अवन्तिकाविरचितां तिलकं मालिकां तथा ।
अम्लानां वीक्ष्य भूपालो वर्णयित्वा धृतिं ययौ ॥९८॥
कथं जीवति मे देवी नान्या वेत्ति तया विना ।
मालिका तिलकं चेदमिति ध्यात्वा जहर्ष सः ॥९९॥
पद्मामिव समासाद्य ततः स पुरुषोत्तमः ।
पद्मावतीं ययौ ध्यायन्देवीमेव निजां पुरीम् ॥१००॥
प्रविश्यान्तःपुरं तत्र नववध्वापि संगतः ।
न न््द स्मरन्कान्तां कामकेलिकुमुद्वतीम् ॥१०१॥
ततः प्रणयवादिन्यः पद्मावत्या वशान्विताः ।
अवन्तिकांशुकच्चन्नरथेनानु समाययौ ॥१०२॥
गोपालान्तःपुरं प्राप्तां ततस्तां वत्सभूपतिः ।
वल्लभां स्वां परिज्ञाय मुमोह विरहाकुलः ॥१०३॥
राजानं विह्वलं दृष्ट्वा देवीं चोत्तम्भितां शुचा ।
पापोऽस्मि कारणमिति प्राह यौगन्धरायणः ॥१०४॥
अथाश्रुकणसंदिग्धतारहारस्तनस्थली ।
उवाच देवी निःश्वासग्लपिताधरपल्लवा ॥१०५॥
आर्यपुत्रहितायैषा तीर्णा गूढस्थितिर्मया ।
स्वस्त्यस्त्विदानीं वक्ष्यामि वह्नौ दुःखालयां तनुम् ॥१०६॥
श्रुत्वेति वचनं देव्याः सह गोपालकादिभिः ।
पद्मावती च राजा च मन्त्री च रुरुदुः पृथक् ॥१०७॥
धन्योऽसि वत्सनृपते महेश्वर इवापरः ।
यस्य वासवदत्तेयं सती हृदयवल्लभा ॥१०८॥
इत्याकाशभवा वाणी सतीभावविशुद्धये ।
उच्चाचार नृपस्तां च श्रुत्वाभूत्स मदाकुलः ॥१०९॥
ततः प्रहृष्टाः पीयूषसिक्ता इव परस्परम् ।
प्रशंसन्तो मुमुदिरे ते वर्धितमहोत्सवाः ॥११०॥
देवीविलोचनच्छायानीलोत्पलदलं मधु ।
पद्मावतीस्मितस्मेरकुसुमाङ्कं पपौ नृपः ॥१११॥
इति पद्मावतीविवाहः ॥७॥
N/A
References : N/A
Last Updated : October 10, 2017
TOP