संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|लावानकनामा तृतीयो लम्बकः| विदूषकाख्यायिका लावानकनामा तृतीयो लम्बकः परहिताख्यायिका वहिल्लकाख्यायिका देवसेनाख्यायिका परिव्राडाख्यायिका पुण्यसेनाख्यायिका सुन्दोपसुन्दाख्यायिका पद्मावतीविवाहः उर्वश्याख्यायिका विहितसेनाख्यायिका सोमप्रभाख्यायिका अहल्याख्यायिका विदूषकाख्यायिका देवदासाख्यायिका श्रीवत्सेशदिग्विजयः हलभूत्याख्यायिका लावानकनामा विदूषकाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत विदूषकाख्यायिका Translation - भाषांतर पद्मावतीमुखाम्भोजमधुपो नृपतिस्ततः । ललासावन्तितनयावदनेन्दुसुधाम्बुधिः ॥१६०॥ ईर्ष्याविरहसंतापतापितापि मुहुर्मुहुः । इदं मया कृतमिति प्रापावन्तिसुता धृतिम् ॥१६१॥ तनये प्रेयसः प्रेम प्रौढमालम्बनं रतः । आवन्त्यमागधौ ज्ञात्वा दूतैर्निर्वृतिमापतुः ॥१६२॥ कदाचिदथ राजानं सर्वास्थानसभागतम् । व्यजिज्ञपद्द्विजोऽभ्येत्य प्रतीहारेण सूचितः ॥१६३॥ एकपुत्रस्य पुत्रो मे देव गोपैर्मदोद्धतैः । अटव्यां निग्रहीतोऽयमश्रुताक्रन्दितो जनैः ॥१६४॥ इति ब्राह्मणविज्ञप्त्या समाहूता वनेचराः । ऊचुर्दृष्टो वने देव गोपालो देवसैनिकः ॥१६५॥ राजास्मीत्याहितक्रीडः सदास्माभिः प्रणम्यते । वयमाज्ञाधरस्तस्य स्वयं प्रभुपदस्थितः ॥१६६॥ अयं यदृच्छयायातः प्रणनाम न तं द्विजः । ततोऽस्माभिस्तदादिश्टैर्निकृत्तचरणः कृतः ॥१६७॥ इति वाक्यान्महीपाले किंचिदाकुक्ञ्चितभ्रवि । यौगन्धरायणः प्राह विमृश्य क्षणविस्मितः ॥१६८॥ महता कारणेनात्र भवितव्यं नरेश्वर । स्वयं तत्रैव गच्छामो यत्र मङ्गो नृपः स्थितः ॥१६९॥ इत्यामन्त्र्य गिरा राजा तुरगं प्राह सैनिकः । गत्वाससाद विपुलामटवीं गोपघर्षिताम् ॥१७०॥ यौगन्धरायणस्तत्र भुवमाधाय यत्नवान् । ध्यानं विधाय शनकैर्महानिधिमदर्शयत् ॥१७१॥ क्षयं नीलशिलाकारं पूजयित्वावनिस्थितम् । यौधिष्ठिरं धनचयं सिंहासनमवाप च ॥१७२॥ पृथ्तुरत्नासनं प्राप्य निधानं च नरेश्वरः । स्वयं प्रविश्य कौशाम्ब्यामादिदेश महोत्सवम् ॥१७३॥ युधिष्ठिरस्य साम्राज्यविजयावाप्तमासनम् । विलोकयन्नरपतिः प्राह यौगन्धरायणम् ॥१७४॥ इदं दिग्विजयप्राप्तराजसूयस्य भूपतेः । अनिर्जितदिगन्तेन लङ्घ्यते कथमासनम् ॥१७५॥ तौ प्रद्योतमहासेनौ त्वया बुद्ध्यैव वञ्चितौ । वशीकृतौ यत्नवशात्तदद्यापि दुनोति माम् ॥१७६॥ वत्सराजवचः श्रुत्वा महामात्योऽवदत्पुनः । यथार्थं देव निखिलं सत्यमेव न संशयः ॥१७७॥ देव पूर्वां दिशं पूर्वं जेतुमर्हसि संभृतः । दिशमेतां समाक्रम्य सर्वाशाभरणे रविः ॥१७८॥ हस्तिनापुरमासाद्य भव सर्वजयी नृप । जिता हि ककुभः सर्वास्तत्रस्थैस्त्वत्पितामहैः ॥१७९॥ निशम्येति नृपः प्राह किं क्रमेण दिशां जये । विजये सत्त्वसाराणामुत्साहे हि न कल्पते ॥१८०॥ श्रूयतां सत्त्वसारस्य कथेत्याभाष्य मन्त्रिणम् । देवी गोपालसेनानीसुहृदामब्रवीत्पुरः ॥१८१॥ आदित्यसेन इत्यासीत्सार्वभौमनरेश्वरः । विभाति भुवनोद्याने फुल्ला यत्कीर्तिमालिनी ॥१८२॥ नानादिगन्तभूपालमौलिलालितशासनः । स्फुटस्फटिकसौधायामुज्जयिन्यामुवास सः ॥१८३॥ कुलीनस्तत्पुरोपान्तनिलयोऽभ्येत्य तं स्वयम् । कदाचिच्छिवधर्माख्यः सभासीनं व्यजिज्ञपत् ॥१८४॥ कन्यारत्नं मम गृहे विद्यते नयनामृतम् । पात्रं त्वं देव रत्नानां प्रमाणमधुना नृपः ॥१८५॥ उक्त्वेत्यदर्शयत्कन्यां देहबद्धामिव द्युतिम् । विवाहनार्थं तां भेजे राजा राजीवलोचनाम् ॥१८६॥ साथ तेजोवती नाम तमासाद्य नरेश्वरम् । जहार कान्तिं रोहिण्यास्तारापतिसमागमे ॥१८७॥ तदाननसुधापानमदन्थरमानसः । न रात्रिं न दिवं मेने स संत्यक्तनृपक्रियः ॥१८८॥ आक्रन्दितेन पौराणां मन्त्रिणां वचने न च । भेजे संमुखतां किंचित्प्रजानां प्रत्यवेक्षणे ॥१८९॥ ततः कदाचिदुद्योगयात्रायां तुरगोत्तम म् । आरुरोह वशे गत्वा भ्रष्टं रविरथादिव ॥१९०॥ सहायः पार्ष्णिसंस्पर्शरोषाव्द्योमपतन्निव । जवाज्जहार राजानमाप्रोष्य प्रसरत्खुरः ॥१९१॥ स हृतोऽश्वेन सहसा व्यसनेनेव विप्लुतः । निशि विप्रमठोपान्तमवापोभ्द्रान्तमानसः ॥१९२॥ तत्र प्रतिश्रयाकाङ्क्षी स निशिद्धो मठद्विजैः । रात्रौ स्मशानरक्षोऽयमिति वेदजडात्मभिः ॥१९३॥ तेषामेको महसत्त्वः शूरोऽभिजनभूषणः । विदूशकाभिधो वह्निवरावाप्तासि दुःसहः ॥१९४॥ रत्नभ्राजिष्णुकटकं राजानं दीप्तकुण्डलम् । तं सिषेवे निशि स्वैरं स्नानसंमानभोजनैः ॥१९५॥ तस्योपचारमाचारनिधिः सोऽमन्यतामृतम् । अल्पाप्युपकृतिर्याति विस्तारं विषमस्थितौ ॥१९६॥ ततः प्रभाते भूपालः प्रणम्यारुह्य वाजिनम् । जातिस्मरो राजधानीं ययौ वेगधुतांशुकः ॥१९७॥ तूर्णं प्रत्यागते राज्ञि कल्पिते नगरोत्सवे । देवी तेजोवती कन्यामसूत कुलचन्द्रिकाम् ॥१९८॥ अथ सादरमाहूय नरनाथो विदूषकम् । प्रीत्या पुरोहितं चक्रे ददौ ग्रामांश्च तन्मठे ॥१९९॥ प्राप्य ग्रामान्महीपालाद्दर्पन्धास्तेऽभवन्द्विजाः । नानामताः स्वयं चक्रुः स्वाम्यं खलुय विश्रृङ्खलाः ॥२००॥ अहं प्रभुरहं स्वामी ममैवेदं ममाखिलम् । इति तेषां समालापो बभूव ग्रामलुण्ठने ॥२०१॥ उत्सादिते मठे तस्मिंस्तृप्तैस्तैर्बर्बरद्विजैः । एकश्चक्रधरो नाम धिग्युष्मान्मन्त्रकण्ठकान् ॥२०२॥पदे पदेऽश्ववित्रासकक्षानिक्षिप्तकुण्डिकाः । विदूषकप्रसादेन ता भिक्षा वोऽद्य विस्मृताः ॥२०३॥ सह्याः कुम्भधृता विषोल्बणरुचः क्रुद्धा वरं पन्नगाः कल्लोलाकुलकूलनीलसलिले ग्राहास्तथोग्रग्रहाः । न त्वेते मठपुष्टदुष्टवपुषः षण्डाः स्वयं स्वामिनः कष्टं पेटकचेटकोत्कटनटीवावाटगोष्ठीहठाः ॥२०४॥ स्त्रीनायकं वरं स्थानमथ वा बालनायकम् । अनायकं वरं यावन्न चैव बहुनायकम् ॥२०५॥ अद्यैव शूले निहताः स्मशाने पुरुषास्त्रयः । यस्तेषां नासिकां रात्रौ छित्त्वादाय समेष्यति ॥२०६॥ अधुनैकः स नः स्वामी स्पर्धा हि मठनाशिनी ।इति क्रुद्धद्विजगिरा तत्र ते प्राहुरग्रजाः ॥२०७॥ स्मशानगमनं ध्यात्वा ते प्रभीताः ससंभ्रमाः । विदूषको ययौ खङ्गी कवची चोन्मुखो निशि ॥२०८॥ सोऽपश्यद्राक्षसोद्दाममतिफेत्कारभीषणम् । उद्दण्डताण्डवोच्चण्डभूतमण्डलमण्डितम् ॥२०९॥ कपालकुहरभ्रान्तिक्षिप्तहुंकारमारुतम् । कङ्कालकलितोत्तालवेतालवलयाकुलम् ॥२१०॥ सूत्कारिमेदोविकटचितानलचयाचितम् । निशीथमिव नारास्थितारमङ्गारमेचकम् ॥२११॥ विन्ध्याचलमिवालोलपलाशितरुसंश्रयम् । बहुपुण्यजनव्याप्तं महापथमिवायतम् ॥२१२॥ संग्राममिव निःसत्त्वजनजीवितखण्डनम् । वेश्याचित्तमिवानेकनरसंहारदारुणम् ॥२१३॥ दारिद्र्यमिव दुःखानां प्रत्यग्राणां निकेतनम् । स्मशानं तत्र दृष्ट्वासौ न चकम्पेऽप्यनाकुलः ॥२१४॥ तेषां शूलनिविष्टानां त्रासकारिविकारिणाम् । आदाय नासिकां तूर्णं परिव्राजं ददर्श सः ॥२१५॥ तं घोरमठकासीनं ध्यानस्तिमितलोचनम् । पश्यन्स कौतुकस्थानं तच्छायायामलक्षितम् ॥२१६॥ परिव्राट् सर्षपान्प्रेतनाभिमध्यसमुद्धृतान् । आदाय प्रेतकारूढो ययौ शून्यसुरालयम् ॥२१७॥ प्रणम्य चण्डिकां तत्र तदाज्ञां प्राप्य देहि मे । आदित्यसेनतनयामुपहारमिति स्फुटम् ॥२१८॥ छायेवानुगतस्तस्य सर्वं श्रुत्वा विदूषकः । प्रदध्यौ स्वामितनयापरित्राणकृतेक्षणः ॥२१९॥ साधकोऽपि क्षणेनेव तां कन्यां राजमन्दिरात् । आनिनाय महामायः क्रन्दन्तीं प्रेतवाहनः ॥२२०॥ तां हन्तुमुद्यतं दृष्ट्वा कृपाकोपकरम्बितः । जहारास्य शिरश्छित्वा त्रस्तां भूपतिकन्यकाम् ॥२२१॥ पितुः पुरोहितं दृष्ट्वा किंचिन्दुमीलितेक्षणा । गाढं जग्राह तं कण्ठे साकम्पतरलाकृतिः ॥२२२॥ आगन्तव्यं पुनरिति स शुश्रावाशरीरिणीम् । वाणीमभ्युद्यतो गन्तुं निशि व्याकोशलोचनः ॥२२३॥ तान्सिद्धसर्षपान्प्राप्य राजपुत्रीं विहाय सा । नीत्वा विदूषकः क्षिप्रं चिक्षेपान्तःपुरान्तरे ॥२२४॥ जनालोकनभीत्या तं गन्तुमभ्युद्यतं निशि । नृपात्मजा न तत्याज बिभेमि सुतरामिति ॥२२५॥ तन्मन्दिरस्थिते तस्मिञ्श्रमानिद्रावशं गते । सौविदल्लाः प्रविविशुः प्रातः कञ्चुकिभिः सह ॥२२६॥ ते शयानं तमालोक्य कोपादेत्य व्यजिज्ञपत् । आदित्यसेनः सोऽप्याशु तमाहूयाब्रवीत्कुथा ॥२२७॥ किमेतदिति पृष्टोऽथ तद्वृत्तान्तं निवेद्य सः । अदर्शयन्नरपतेः साधकं कृतमस्तकम् ॥२२८॥ राजा प्रत्ययमासाद्य हृष्टस्तस्मै ददौ सुताम् । श्रियं चोपकृतिप्रीत्या किमदेयं महात्मनाम् ॥२२९॥ स तया संगतोऽनङ्गसाङ्गीकरणविद्यया । राजपुत्र्या नृपोद्याने रराम रतिलालसः ॥२३०॥ ततः कदाचित्कालेन स्मारितः प्रियया रहः । तामाकाशगिरं मोहात्प्रायात्खङ्गीं विदूषकः ॥२३१॥ भद्रां नाम ततः प्राप्य पूर्वां रचितसंविदाम् । विद्याधरीं यया नीतः स्मरो निःशङ्कमल्लताम् ॥२३२॥ स तां पञ्चेषुविजयद्विपकुम्भोपमस्तनीम् । उद्भूतयौवनसरःसरोजललितेक्षणाम् ॥२३३॥ फुल्लकान्तिलतासक्तभ्रमराकारकुन्तलाम् । आसाद्य सुरतासक्तो विसस्मार नृपात्मजाम् ॥२३४॥ याति काले पितुर्भीत्या मर्त्यसङ्गापराधतः । तमामन्त्र्योदयगिरिं सा ययौ सिद्धरक्षितम् ॥२३५॥ तस्यां गतायामुन्मत्तस्त्यक्त्वा भूमिपतेः सुताम् । हा भद्रेत्यसकृत्तारं विलपंस्तत्र पर्यगात् ॥२३६॥ व्रजन्नथ दिशं प्राचीं निःश्वासग्लपिताधरः । स पुन्ड्रवर्धनं नाम पुरं प्राप स्मरातुरः ॥२३७॥ तत्र विप्रगृहे वृद्धा तमाह ब्राह्मणी ततः । पुत्र सर्वं मम धनं गृहाणाभिमतोऽसि मे ॥२३८॥ यतः स्वपुत्रविरहात्प्रियं त्यक्ष्यामि जीवितम् । दुःखलब्धाभिधा पुत्री देवसेनस्य भूपतेः ॥२३९॥ इहास्ति येन येनासौ वृता याति स पञ्चताम् । चारैर्गृहाद्गृहात्तस्यै नीयन्ते पुरुषाः सदा ॥२४०॥ क्षयं यातेष्वनेकेषु मम पुत्रोऽद्य नीयते । तद्विनाशे विनङ्क्ष्यामि तुभ्यं सर्वं तदाम्यतः ॥२४१॥ इति तद्वाक्यमाकर्ण्य करुणार्द्रो विदूषकः । अहं तत्र गमिष्यामि न नङ्क्ष्यामीत्युवाच ताम् ॥२४२॥ तया कृच्छ्रेण मुक्तोऽथ प्राप्य भूपालमन्दिरम् । तत्र शय्यासनस्मेरं कन्यान्तःपुरमाविशत् ॥२४३॥ अथाययौ राजपुत्री तारहारा सुहासिनी । राहुग्रस्तस्य शशिनः स्रस्तेव श्रीः सतारका ॥२४४॥ स तां केनापि न स्पृष्टां दृष्ट्वा यौवनशालिनीम् । उद्दामसौरभभरां श्वभ्रजातां लाअमिव ॥२४५॥ अनासादितपर्याणाम काम्बोजतुरगीमिव । कौतुकाकुलितस्तस्थौ द्वारान्तर्निभृतो निशि ॥२४६॥ ततः करिकराकारं कर्कशं घोररक्षसः । भुजं प्रविष्टं द्वारेण ददर्शोभ्द्रान्तमन्तिके ॥२४७॥ दृष्ट्वैव दीप्तनेत्रस्य जीर्णाजगरसंनिभम् । आग्नेयेनासिना बाहुं तस्य दीर्घं चकर्तं सः ॥२४८॥ मृणालनालनिर्लूने पतिते दोष्णि भूतले । दुद्राव विस्रवद्रक्तस्ततो निशि निशाचरः ॥२४९॥ प्रातस्तत्कर्मतुष्टोऽथ देवसेनो नृपः सुताम् । विदूषकाय प्रददौ लक्ष्मीं चाद्भुततेजसे ॥२५०॥ दिव्यनारीमिवारण्यभोगप्राप्तां सुरद्विषा । स तां नेत्रोत्पलां प्राप्य सविलासमुखाम्बुजाम् ॥२५१॥ किंचित्कालं नृपगृहं स्थित्वा राजसुतां प्रियः । प्रययौ संस्मरन्भद्रामनिद्रो विद्रुताशयः ॥२५२॥ समुद्रतीरमासाद्य तरङ्गगनभिषणम् । स्कन्ददासेन वणिजा प्राप्तसख्यं प्रियंवदः । आरुरोह प्रवहणं तस्योद्यतपताकिनः ॥२५३॥ ततो महायुधे मध्ये विचचाल न चेटकः । कर्णधारेण विधृतो व्याधवातगतागतः ॥२५४॥ तस्मिन्रुद्धे प्रवहणे साक्रन्दे सार्थधर्मिणि । स्कन्ददासोऽवदन्सास्रं शोचन्स विपुलां श्रियम् ॥२५५॥ बलेन यः प्रवहणं प्रेरयेद्द्रविणादिह । अर्धं तस्मै प्रदास्यामि कन्यां चायतलोचनाम् ॥२५६॥ विदूशकोऽथ कारुण्याद्विहस्य धनदायिनम् । ममज्ज ग्रथितो रज्वा मकराकरवारिणि ॥२५७॥ निमज्य प्राणिसंघायां लग्नां ग्रन्थिममोचयत् । तस्मिन्विमुक्ते स वणिक्छित्त्वा रज्जुलतां ययौ ॥२५८॥ वणिजा धनलुब्धेन स च्छिन्नालम्बनो ययौ । निकृत्तपाणिजङ्घाग्रः समारूढोऽम्बुधेस्तटम् ॥२५९॥ मनसो विषयं प्राप्य पथि शुश्राव भूपतेः । नित्यं हतैकपुरुषां तनयामार्यवर्मणः ॥२६०॥ प्रविश्य पूर्ववत्तत्र राक्षसं हन्तुमुद्यतः । सख्यं तेनार्थितः प्राप्य ध्यातो यः स्थानसंविदा ॥२६१॥ आर्यवर्मा ददौ पुत्रीं तस्मै तां सह संपदा । स्थित्वा तु सुरतासक्तः किंचित्कालं पुनर्ययौ ॥२६२॥ स्मरन्विद्याधरसुतां सोऽवमेने नृपात्मजाम् । पारिजातलताभृङ्गो न हि जातीषु सादरः ॥२६३॥ अगम्यां भूमिमासाद्य ध्यातस्तेन स राक्षसः । सुहृत्स यमदंष्ट्राख्यस्तमुवाह महाजवः ॥२६४॥ अथोदयाद्रिपर्यन्ततटे सिद्धनिषेविते । त्यक्तः स रक्षसा तस्थौ न ततो रक्षसां गतिः ॥२६५॥ तत्र पुष्करिणितीरस्थितं दिव्याङ्गनाजनम् । ददर्श रत्नकलशैर्जलाहरणतत्परम् ॥२६६॥ ताः पृष्टाः कौतुकात्तेन प्राहुर्विद्याधरात्मजाः । भद्रा नाम पितुर्भीत्या तिष्ठतीह सुलोचना ॥२६७॥ मर्त्यशक्ता पुरा साभूत्तमोमोहनिवारणे । जलाहृतैरियं नित्यमस्माकं कमलेक्षणा ॥२६८॥ इति श्रुत्वामृतेनेव सिक्तो रत्नाङ्गुलीयकम् ॥भद्रयैवपुरा दत्तं चिक्षेप कलशे लघु ॥२६९॥ तदवाप्य ततः स्नाता विज्ञाय सहसादरात् । भद्रा ताभिस्तमानाय्य तत्याज विरहव्यथाम् ॥२७०॥अथ तत्सुरतारम्भे स्थिरा विद्याधरी क्षणात् । विसस्मार निजां विद्यां भद्रा मर्त्यानुरागिणी ॥२७१॥ ततो वाहनमादाय राक्षसं सहितस्तया । व्रजन्गृहीत्वा तनयां नृपतेरार्यवर्मणः ॥२७२॥ स्कन्ददासस्य वणिजों हृत्वा सह धनैः सुताम् । दुःखलब्धां समादाय देवसेनसुतामपि ॥२७३॥ अवाप्योज्जयिनीं हृष्टः सत्त्वोदारो विदूषकः । आदित्यसेनतनयां भेजे लक्ष्मीं च पुष्कलाम् ॥२७४॥ इति विदूषकाख्यायिका ॥१२॥ N/A References : N/A Last Updated : October 10, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP