परहिताख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
प्रथमो गुच्छः ।
सानन्दनन्दिहतपुष्करनिर्भराणि
हेरम्बकण्ठहसितानि चिरं जयन्ति ।
कुर्वन्ति यानि घनशङ्किकुमारबर्हि -
नृत्यैर्विचित्ररुचिभाञ्जि दिगन्तराणि ॥१॥
ततः प्रियतमाकेलिविलासरसतत्परः ।
शनैर्बभूव वत्सेशः प्रजाकार्ये पराङ्मुखः ॥२॥
रुमण्वानमथाहूय निशि यौगन्धरायणः ।
अचिन्तयत्प्रभुहितं मन्त्रिमूला हि संपदः ॥३॥
सोऽब्रवीदेष नृपतिर्हृतो मकरकेतुना ।
न पश्यति निजां लक्ष्मीं निपातभयदुःखिताम् ॥४॥
मन्दमन्थरसंचारा विलासलसदर्शिनः ।
सत्यं स्मरेण बध्यन्ते राजानः कुञ्जरा इव ॥५॥
कीर्तयः कुकृतेनेव व्यसनेनेव बुद्धयः ।
सहसैव विनश्यन्ति दुर्नयेन नृपश्रियः ॥६॥
महासेनाभिधो राजा पु रा शत्रुवशं गतः ।
शोकाग्निना दह्यमानो गुल्मव्याधिमवाप्तवान् ॥७॥
मूलपूर्वं गतच्छायं दृष्ट्वा परहिताभिधः ।
वैद्यः कूटप्रियाजालसंदेहाकुलितोऽभवत् ॥८॥
स प्राहाभ्येत्य नृपतिं वल्लभा तव पञ्चताम् ।
यातेति तत्समाकार्ण्य भूपालो न्यपतद्भुवि ॥९॥
तस्य वेगान्निपततः स्फुटिते गुल्मबन्धने ।
शरीरमाययौ स्वास्थ्यमिति सन्त्येव युक्तयः ॥१०॥
इति परहिताख्यायिका ॥१॥
N/A
References : N/A
Last Updated : October 05, 2017
TOP