संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्लोकवार्तिकभिधः|चोदनालक्षणोsर्थो धर्मः| श्लोक १७६ ते २०० चोदनालक्षणोsर्थो धर्मः श्लोक १ ते २५ श्लोक २६ ते ५० श्लोक ५१ ते ७५ श्लोक ७६ ते १०० श्लोक १०१ ते १२५ श्लोक १२६ ते १५० श्लोक १५१ ते १७५ श्लोक १७६ ते २०० श्लोक २०१ ते २२५ श्लोक २२६ ते २५० श्लोक २१५१ ते २८६ चोदनालक्षणोsर्थो धर्मः - श्लोक १७६ ते २०० कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी. Tags : sanskritshlokvartikmidhaश्लोकवार्तिकभिधःसंस्कृत श्लोक १७६ ते २०० Translation - भाषांतर ‘ अभ्युपेत्यार्थविषयं वाक्यव्यापारमुच्यते ॥१७६॥यदि स्यादू व्यवधानेsपि वाक्यार्थापेक्षयाsनृतम् ।दृष्टान्तो नृवचोsत्रापि हेतुः साधारणो भवेत् ॥१७७॥सत्येष्वपि हि दृष्टैव पौरुषयेषु वाक्यता ’ ।अतीन्द्रियेsपि किंञ्चिद्धि सत्यं दृष्टं यदृच्छया ॥१७८॥‘ नान्यत्वादिति चानेन परोक्तादन्यतोच्यते ।अन्यो ह्येष तदाभासो ’ विपक्षं वान्यमब्रवीत् ॥१७९॥यद्वsन्यस्माद्विसंवादान्मिथ्यात्वं तत्र न त्विह ।विषयस्यापि चान्यत्वा ( १ ) त्साधनासङ्गतैव सा ॥१८०॥न ह्यन्यस्येति नैकस्मिन्मृषार्थेsन्यमृषार्थता ।विवक्षाया मृषार्थत्वे न च वाक्ये मृषार्थता ॥१८१॥श्यामत्वे पुंस्त्ववच्चैतत्साधारण्ये निदर्शनम् ।परोक्तेर्वापि दुष्टत्वाद्विकल्पसममुच्यते ( १ ) ॥१८२॥यद्वा प्रमाणमेवेदं सम्यत्त्केsन्यत्वमुच्यते ।विरुद्धाsव्याभिचारित्वं बाधो वाsप्यनुमानतः ॥१८३॥चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः ।कारणैर्जन्यमानत्वाल्लिङ्गाप्तोक्त्यक्षबुद्धिवत् ॥१८४॥तथाsनाप्तप्रणीतोक्तिजन्यत्वाद्वाधवर्जनात् ।देशकालादिभेदेन चाप्तोक्तिप्रत्ययो यथा ॥१८५॥अकर्तृकत्व ( २ ) सिह्व्या च हेतुत्वं साधयिष्यते ।एवमाद्यवबुध्यायं नान्यत्वादित्यवोचत ॥१८६॥प्रत्यक्षस्त्विति दार्ढ्यं वा प्राथम्यं वापि लक्षयेत् ।स्वरूपतः प्रमाणत्वं मिथ्यात्वं पररूपतः ॥१८७॥ज्ञानाभावश्च मिथ्यात्वं द्वयस्याsसम्भवाद्यदि ।प्रत्यक्षं तत्परेषां च सिद्धमस्याsनुमानतः ॥१८८॥यथा च तव मिथ्यात्वं साधनं साधयेदिदम् ।तथा च बाधकाधीनं मिथ्यात्वमपि साधयेत् ॥१८९॥धर्म इत्युपसंहार्ये यच्छ्रेयस्करभाषणम् ।तद्धर्मपदवाच्यार्थनिरूपणविवक्षपा ॥१९०॥श्रेयो हि पुरुषप्रीतिः सा द्रव्यगुणकर्मभिः ।चोदनालक्षणैः साध्या तस्मात्तेष्वेव धर्मता ॥१९१॥अन्यत् साध्यमदृष्ट्वैव यागादीननुतिष्ठतः ।धार्मिकत्वसमाख्यानं तद्योगादिति गम्यते ॥१९२॥‘ पश्वादीनि च धर्मस्य फलानीति व्यवस्थितम् ।चित्रागोदोहनादीनां तान्युक्तानि फलानि च ॥१९३॥तस्मात्तेष्वेव धर्मत्वं ’ ( १ ) धर्माणीति च दर्शनात् ।लिङ्गसंख्याविनिर्मुक्तो धर्मशब्दो निदर्शनम् ॥१९४॥‘ अन्तःकरणवृत्तौ वा वासनायां च चेतसः ।पुद्गलेषु च पुण्येषु नृगुणे ( १ ) sपूर्वजन्मनि ॥१९५॥प्रयोगो धर्मशब्दस्य न दृष्टो ’ ‘ न च साधनम् ।पुरुषार्थस्य ते ज्ञातुं शक्यन्ते चोदनादिभिः ’ ॥१९६॥न च वत्स्वन्तरं शक्यमपूर्वं स्वर्गयागयोः ।ज्ञातुं साधनभूतं वा साध्यं वा नाप्यतोsन्यथा ॥१९७॥श्रुतसाधनसाध्यत्वत्यागेनाsश्रुतकल्पना ।प्रसज्येतास्य ताद्रूप्ये व्यतिरेके त्वरूपता ॥१९८॥तस्मात्फले प्रवृत्तस्य यागादेः शक्तिमात्रकम् ।उत्पत्तौ वापि पश्वादेरपूर्वं न ततः पृथक् ॥१९९॥शक्तयः सर्वभावानां भावशब्दैर्विशेषतः ( १ ) ।नोपाख्यायन्त इत्येवं नापूर्वे धर्मशब्दता ॥२००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP