चोदनालक्षणोsर्थो धर्मः - श्लोक १०१ ते १२५

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


पुरुषाभावतस्तेन तद्द्वारेणाsप्यशङ्कितौ ।
तथा सत्यतथाभावो बुद्ध्यनुत्पत्तिमाश्रितः ॥१०१॥
तत्र विप्रतिषिद्धत्वं व्रवीतीत्येवमादिना ।
यथादृष्टार्थवादित्वं तच्चेत्प्रत्ययितादिति ॥१०२॥
इन्द्रियेति तु मूलं चेदस्यास्तीत्येवमव्रतीत् ( १ ) ।
द्रष्ट्टत्वसत्यवादित्वे तच्चेत्प्रत्ययितादिति ॥१०३॥
दृश्यमानार्थवादित्वे स्यादनाप्तोक्तिसत्यता ।
एवं त्वेकाङ्गवैकल्यात्प्रत्युदाहरणस्थितिः ॥१०४॥
एकैकाभावमात्रे स्यादाप्तत्वैन्द्रियकत्वयोः ।
‘ अप्रत्ययितपक्षे स्यादैन्द्रियस्याप्यसत्यता ॥१०५॥
अनिन्द्रियत्वपच्चे वाsसत्परत्ययितभाषितम् ।
व्याहतग्रन्थतैव स्यात्, तस्मात्पूर्वेण सत्यता ॥१०६॥
परेण मूलसद्भाव इन्द्रियेण तु दर्शितः ।
अप्रामाण्यनिवृत्त्यर्थं दोषाभावोपवर्णनम् ॥१०७॥
गुणात्प्रामाण्यमित्येवं तत्पूर्वं सुनिराकृतम् ।
पूर्वत्र प्रतिषिद्धत्वान्नैतत्प्रामाण्यकारणम् ॥१०८॥
‘ समुच्चयार्थो वाशब्दः पूर्वस्मि’न्नुत्तरत्र च ।
विकल्पेनोभयोराह प्रत्युदाहरणे पृथक् ॥१०९॥
शक्येsप्यसत्ये मिथ्यात्वं दृष्टं, सत्येsप्यशक्तिके ।
नानेन वचनेनेह सर्वज्ञनिराक्रिया ॥११०॥
वचनादृत इत्येवमपवादो हि संश्रितः ॥
यदि षड्भिः प्रमाणैः स्यात्सर्वज्ञः केन वार्यते ॥१११॥
एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते ।
नूनं स चक्षुषा सर्वान् रसादीन्प्रतिपद्यते ॥११२॥
यज्जातीयैः प्रमाणैस्तु यज्जातीयाsर्थदर्शनम् ।
भवेदिदानीं लोकस्य तथा कालान्तरेsप्यभूत् ॥११३॥
यत्राप्यतिशयो दृष्टः स स्वार्थाsनतिलङ्घनात् ।
दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तिता ॥११४॥
‘ भविष्यति न दृष्टं च प्रत्यक्षस्य मनागपि ।
सामर्थ्यं नानुमानादेर्लिङ्गादिरहितं क्कचित् ॥११५॥
सर्वज्ञकल्पनान्यैस्तु ( १ ) वेदे चाsपौरुषेयता ।
तुल्यता कल्पिता येन तेनेदं सम्प्रधार्यताम् ॥११६॥
सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः ।
निराकरणवच्छक्त्या न चासीदिति कल्पना ॥११७॥
न चागमेन सर्वज्ञस्तदीयेsन्योन्यसंश्रयात् ।
नरान्तरप्रणितस्य प्रामाण्यं गम्यते कथम् ॥११८॥
न चाप्येवंपरी नित्यः शक्यो लब्धुमिहागमः ।
नित्यश्चेदर्थवादत्वं तत्परे ( १ ) स्यादनित्यता ॥११९॥
आगमस्य च नित्यत्वे सिद्धे तत्कल्पना वृथा ।
यतस्तं प्रतिपद्यन्ते धर्ममेव ततो नराः ॥१२०॥
योsपीन्द्रियार्थसम्बन्धविषये सत्यवादिताम् ।
दृष्ट्वा तद्बचनत्वेन श्रद्धेयेsर्थेsपि कल्पयेत् ॥१२१॥
तेनापि पारतन्त्र्येण बाधिता स्यात् प्रमाणता ।
प्रामाण्यं चेत्स्वयं तस्य काsपेक्षाsन्येन्द्रियादिषु ॥१२२॥
यथैवात्रेन्द्रियादिभ्यः परिच्छेदात्प्रमाणता ।
श्रद्धेयेsपि तथैव स्यान्न स्वातन्त्र्येण लभ्यते ॥१२३॥
यथा च तेषां सत्यत्वं सिध्यत्येतेन हेतुना ।
तथाsन्याsनवबुद्धार्थप्रामाण्याsभावसाधनम् ॥१२४॥
अश्रद्धेयार्थसत्यत्वं श्रद्धेये चाsप्यसत्यता ।
पूर्वज्ञानानुवादित्वं दृष्टान्तवदिहेष्यताम् ॥१२५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP