संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्लोकवार्तिकभिधः|चोदनालक्षणोsर्थो धर्मः| श्लोक २६ ते ५० चोदनालक्षणोsर्थो धर्मः श्लोक १ ते २५ श्लोक २६ ते ५० श्लोक ५१ ते ७५ श्लोक ७६ ते १०० श्लोक १०१ ते १२५ श्लोक १२६ ते १५० श्लोक १५१ ते १७५ श्लोक १७६ ते २०० श्लोक २०१ ते २२५ श्लोक २२६ ते २५० श्लोक २१५१ ते २८६ चोदनालक्षणोsर्थो धर्मः - श्लोक २६ ते ५० कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी. Tags : shlokvartikmidhaश्लोकवार्तिकभिधःसंस्कृत श्लोक २६ ते ५० Translation - भाषांतर स्वर्गयागादिसम्बन्धविषया चोदना मृषा ।प्रत्यक्षाद्यगतार्थत्वादीदृग्बुद्धादिवाक्यवत् ॥२६॥यद्वाssप्तेनाsप्रणीतत्वाद्बालोन्मत्तादिवाक्यवत् ।व्योमादिवच्च नित्यत्वात्प्रामाण्यस्य निराकृतिः ॥२७॥यदि वा पुरुषाधीनप्रामाण्याः सर्वचोदनाः ।स्वस्तो वा न प्रमाणं स्युर्वाक्यत्वात्पुरुषोक्तिवत् ॥२८॥प्रामाण्यं वा नरापेक्षं सर्वशब्देषु गम्यताम् ।शब्दैः सम्बध्यमानत्वादप्रामाण्यं यथैव हि ॥२९॥न स्याद्वक्तृगुणानां चेद्वचःप्रामाण्यहेतुता ।तद्दोषैरप्रमाणत्वं किमित्यस्य भविष्यति ॥३०॥एवं स्थिते तु वेदस्य सति वाsसति वा नरे ।प्रामाण्यं दुर्लभं मत्वा नन्वित्येतदचूचुदत् ॥३१॥तत्र विप्रतिषिद्धत्वं बुद्धवाक्येsपि युज्यते ।ततोsपि प्रत्ययोत्पत्तेस्तस्माज्जात्युत्तरं त्विदम् ॥३२॥सर्वविज्ञानविषयमिदं तावत्प्रतीक्ष्यताम् ।प्रमाणत्वाsप्रमाणत्वे स्वतः किं परतोsथ वा ॥३३॥स्वतोsसतामसाध्यत्वात्के चिदाहुर्द्वयं स्वतः ।अपरे कारणोत्पन्नगुणदोषाsवधारणात् ॥३४॥स्वतस्तावद्द्वयं नास्ति विरोधात्, परतो न च ।निःस्वभावत्वमेवं हि ज्ञानरूपे प्रसज्यते ॥३५॥कथं ह्यन्याsनपेक्षस्य विपरीतात्मसम्भवः ।किमात्मकं भवेत्तच्च स्वभावद्वयवर्जितम् ॥३६॥विज्ञानव्यक्तिभेदेन भवेच्चेदविरुद्धता ।तथाप्यन्याsनपेक्षत्वे किं क्केति न निरूप्यते ॥३७॥‘ तस्मात्स्वाभाविकं तेषामप्रमाणत्वमिष्यताम् ।प्रामाण्यञ्च परापेक्ष, ‘ मत्र न्यायो sभिधीयते ॥३८॥अप्रामाण्यमवस्तुत्वान्न स्यात्कारणदोषतः ।वस्तुत्वात्तु गुणैस्तेषां प्रामाण्यमुपजन्यते ’ ॥३९॥प्रामाण्यं हि यदोत्सर्गात्तदभावोsथ कृत्त्रिमः ।तदा स्वप्नादिबोधेsपि प्रामाण्यं केन वार्यते ॥४०॥मत्पक्षे कारणाभावात्प्रामाण्यं नोपजायते ।हेतुमत्त्वप्रसङ्गो sतो न भविष्यत्यवस्तुनः ॥४१॥इन्द्रियादिगुणाश्चास्य कारणं तदसद् द्विधा ।दुष्टत्वादिन्द्रियादीनामभावेsन्यतमस्य वा ॥४२॥अत एव च वो भ्रान्तिर्दोषैर्मिथ्यात्वधीरिति ।तद्व्याप्तेस्तु गुणाभावस्तत्कृता ह्यप्रमाणता ॥४३॥तस्मात्कारणशुद्धत्वं ज्ञानप्रामाण्यकारणम् ।स्वभावतोsप्रमाणत्वं तदभावेन लक्ष्यते ॥४४॥अन्वयव्यतिरेकाभ्यामप्रामाण्यं न दोषतः ।नाsज्ञाने दृश्यते ह्येतत्कारणाभावहेतुके ॥४५॥ततश्च पुरुषाभावात्सति वा शुद्ध्यसम्भवात् ।निर्मूलत्वात्प्रमाणत्वं चोदनायां न युज्यते ॥४६॥स्वतः सर्वप्रमाणानां प्रामाण्यमिति गम्यताम् ।न हि स्वतोsसति शक्तिः कर्तुमन्येन शक्यते ॥४७॥आत्मलाभे च भावानां कारणापेक्षता भवेत् ।लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वयमेव तु ॥४८॥‘ जाते sपि यदि विज्ञाने तव नार्थो sवधार्यते ।यावत्कारणशुद्धत्वं न प्रमाणान्तराद्भवेत् ॥४९॥तत्र ज्ञानान्तरोत्पादः प्रतीक्ष्यः कारणान्तरात् ।यावद्धि न परिच्छिन्ना शुद्धिस्तावदसत्समा ॥५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP