संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|सुंदरकांडम्| काव्य ३५१ ते ४०० सुंदरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ४६८ सुंदरकांडम् - काव्य ३५१ ते ४०० सुन्दरकाण्डम् या प्रकरणातील श्लोकातील पाचवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ३५१ ते ४०० Translation - भाषांतर रक्षोभिस्तु म या युद्धं रक्षार्थं कृतमात्मनः त्वामेव द्रष्टुकामेन ब्रह्मास्त्रमनुवर्तितम्. ॥३५१॥ तवांतिकं श्री रामस्य कार्येणाहमिहागतः प्रेषितोऽस्मि हरींद्रेण सुग्रीवेण महात्म ना. ॥३५२॥ स त्वां भ्राता रा क्षसेंद्र ! स्वयं कुशलमब्रवीत् भ्रातुः शृणु समादेशमिह चामुत्र च क्षमम्. ॥३५३॥हरेः सखा म हातेजा राजा दशरथः श्रुतः तस्य ज्येष्टः सुतो रामः प्रभुः सत्यपराक्रमः. ॥३५४॥तस्य प्रिया ज नकजा लक्ष्मणस्तत्समोऽनुजः स ताभ्यां दंडकारण्यमागतः पितुराज्ञया. ॥३५५॥तद्भार्या प्र य ता नष्टा जनस्थाने पतिव्रता सानुजो मार्गमाणस्तामृष्यमूकाद्रिमागतः ॥३५६॥सलक्ष्मणो रा मभद्रः सुग्रीवेणाथ संगतः तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम्. ॥३५७॥सुगीवस्य म नुष्याणाभिंद्रेणापि महात्मना राघवेण प्रतिज्ञातं हरिराज्यं निवेदितुम्. ॥३५८॥प्रभुणा रा ज पुत्रेण हत्वा वालिनमाहवे सुग्रीवः स्थापितो राज्ये हर्यक्षाणां गणेश्वर्तः. ॥३५९॥प्रभुणा सं य ति हतः शरेणैकेन रावण ! त्वया विज्ञातपूर्वः स वाली वानरपुंगवः. ॥३६०॥तामन्वेष्टुं ज नकजां कोटिशः सत्यसंगरः हरीन्संप्रेषयामास दिशः सर्वा हरीश्वरः. ॥३६१॥ अहं तु प य सां राशिं शतयोजनमायतम् लंघयित्वा प्रभोर्भार्यां तां दिदृक्षुरिहागतः ॥३६२॥भ्रमता सा रा ज कन्या दृष्टा तव गृहे मया परदारान्महाप्राज्ञो नोपरोत्धुं त्वमर्हसि. ॥३६३॥ सतामसं म ते घोरे सर्वधर्मार्थनाशके न हि कर्मेणि सज्जंते बुद्धिमंतो भवद्विधाः. ॥३६४॥ राघवस्य श्री मतः को लक्ष्मणस्य च धीमतः शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि. ॥३६५॥यो व्यलीकं रा घवस्य कृत्वा सुखमवाप्नुयात् राजंस्त्रिष्वपि लोकेषु विद्यते न स कश्चन. ॥३६६॥तद्रावण ! म या प्रोक्तं त्रिकालहितमर्थवत् धर्म्यं मन्यस्व वचनं जानकी प्रतिदीयताम्. ॥३६७॥नेयं शक्या ज रयितुं सासुरैरमरैरपि विषसंपृक्तमत्यर्थं भुक्तमन्नमिवौजसा. ॥३६८॥अवध्यत्वं य दप्यस्ति धर्मस्तत्र हि कारणम्तस्मात्त्वया धर्महानिर्न कार्या राक्षसाधिप ! ॥३६९॥जनस्थाने रा क्षसानां विनाशं वालिनस्तथा रामसुग्रीवसख्यं च बुद्ध्वा त्वं स्वहितं कुरु. ॥३७०॥एकः काम म हं लंकां शक्तो नाशयितुं खलु प्रभोराज्ञां विना नैतन्मया कार्यं दशानन ! ॥३७१॥ प्रतिज्ञातं ज नेंद्रेण हर्यक्षगणसंनिधौ उत्सादनममित्राणां जानकी यैः प्रधर्शिता. ॥३७२॥ त्वद्गृहे ये य मानीता रुद्धा तिष्ठति रावण ! कालरात्रीति तां विद्धि सर्वलंकाविनाशिनीम्. ॥३७३॥अपकुर्वन् ज गद्भर्तुः साक्षादपि पुरंदरः न सुखं प्राप्रुयादन्यः किं पुनस्त्वद्विधो जनः ॥३७४॥जगतां त्र य मप्येतद्राजन् ! संहृत्य लीलया पुनरेव तथा स्रष्टुं शक्तो रामो महाबलः. ॥३७५॥सलक्ष्मणं रा घवं यः प्रतियुध्येत रावण ! सर्वथा सर्वभूतेशु सर्वकालेषु नास्ति सः ॥३७६॥ विष्णुना स म शीलस्य कृत्वा विप्रियमीदृशम् रामस्य राजसिंहस्य दुर्लभं तव जीवितम्. ’ ॥३७७॥ वातसूनोः श्री मतस्तच्छ्रुत्वा वचनमुद्धतः आज्ञापयद्वधं तस्य रावणः क्रोधमूर्च्छितः ॥३७८॥बिभीषणो रा क्षसेंद्रं वारसामास सूक्तिभिः. ‘ दूतोवध्यो महाराज क्षमस्वे’ति पुनःपुनः. ॥३७९॥‘ प्रेषितोऽस्य म तिक्रूरो यैर्दूतो राक्षसेश्वर ! तेप्वेव पात्यतां दंडो न कोऽप्यस्य वधे गुणः. ॥३८०॥युद्धायोद्यो ज येदेव तावयं रामलक्ष्मणौ युद्धप्रिय महाराज ! जीवत्यस्मिन् महान्गुणः. ’ ॥३८१॥ तन्मनःप्रिय य माकर्ण्य भ्रातुर्वाक्यमथाब्रवीत् ‘ कपीनां किल लांगूलमिष्टं भवति दारुणम्. ॥३८२॥तदस्य वी रा द्य कपेर्दीप्यतां दुर्मतेर्द्रुतम् स्वस्वामिनिकटं पापस्तेन दग्धेन गच्छतु. ॥३८३॥ सचत्वरं म म पुरं रक्षोभिः परिणियताम्. ’ इत्याज्ञापयदत्युग्रः पुत्रघातातितप्तधीः. ॥३८४॥तच्छ्रुत्वा रा ज वचनं राक्षसाः कोपकर्कशाः अवेष्टयंत लांगूलं जीर्णैः कार्पासिकैः पटैः. ॥३८५॥स आंजने य स्तु तदा व्यवर्धत कुतूहली शुष्कमिंधनमासाद्य वनेष्विव हुताशनः. ॥३८६॥परिषिच्यां ज नासूनोः पुच्छं तैलेन भूयसा वर्धमाने तत्र शीघ्रं ज्वलनं समयोजनयन्. ॥३८७॥ इतोऽन्यतो य थादेशं नेतॄन् दैवहतान् कपिः लांगूलेन प्रदीप्तेन राक्षसांस्तानताडयत्. ॥३८८॥ तं मारुतिं रा क्षसास्ते लंकायां सर्वतस्तदा परिगृह्य ययुर्हृष्टा घोषयंतोऽस्य कर्म तत्. ॥३८९॥शंखभेरी म हानादैश्चारयंति स्म तां पुरीम् तच्छ्रुत्वा राक्षसीप्रोक्तं सीताग्निं शरणं ययौ. ॥३९०॥सख्युःसूनोः श्री मदग्निः प्रार्थितः प्रभुकांतया संप्रदीप्तोऽपि लांगूललोमैकमपि नादहृत्. ॥३९१॥प्रदीप्तेऽग्नौ रा मदूतश्चिंतयामास सन्मतिः संप्रदीप्तोऽप्ययं कस्मान्न मां दहति पावकः ? ॥३९२॥दृश्यते च म हाज्वालः करोति च न मे रुजम् हिमस्य पिंड इव मे लांगू लाग्रे प्रतिष्ठितः ॥३९३॥अथवायं ज नकजाभर्तुः शीतः प्रभावतः सागरस्यादरस्तादृक्किमग्निर्न करिष्यति ? ॥३९४॥ सीताया द य या नूनं तेजसा राघवस्य च पितुश्च मम सख्येन न मां दहति पावकः. ॥३९५॥ भूयः स वी रा धिपतिश्चिंतयामास चेतसि कथमस्मद्विधस्यैवमधमैर्बंधनं कृतम् ॥३९६॥प्रतिक्रिया म या योग्या कार्या बुद्धिमतेति सः छित्वा पाशानुत्पपात ददाह विनदन् पुरीम्. ॥३९७॥स कीशकुं ज रो भूयः परिघं तोरणाश्रितम् गृहीत्वा रक्षिणः सर्वान्सूदयामास राक्षसान्. ॥३९८॥ पितुः सखा य मनलं समृद्धैर्रक्षतां गृहैः कृतज्ञर्स्तपयामास साधु प्रत्युपकारवित्. ॥३९९॥ ततो धनं ज यस्यायं कुर्वंस्तर्पणमीप्सितम् राजादिभवनाग्रेषु विचचार महाकपिः. ॥४००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP