सुंदरकांडम् - काव्य १५१ ते २००

सुन्दरकाण्डम् या प्रकरणातील श्लोकातील पाचवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


तथातिर ज सा व्यपतं तर्जयंतं नृपात्मजाम्
तं धान्यमालिनी कांतं परिष्वज्येदमब्रवीत्. ॥१५१॥
‘ मया क्रीड य थाकामं, सीतया कीं तवानया ?
विवर्णया कृपणया मानुष्या राक्षसेश्वर ! ॥१५२॥
नूनमेषा ज नकजा न महाभोगभाजनम्
अकामां कामयानस्य शरीरमुपतप्यते. ’ ॥१५३॥
एवमुक्त्वा य शस्विन्या तयान्यत्रापसारितः
प्रहसन्प्रस्थितो राजा प्रविवेश निवेशनम्. ॥१५४॥
ता राक्षस्यो रा जकन्यां रावणाज्ञावशानुगाः
परं परुषया वाचा तर्जयंत्योऽब्रुवन्बहु. ॥१५५॥
‘ पलस्त्यस्य म हर्षेस्त्वं सूनोर्विश्रवसः स्नुषा
भवे ’त्येकजटोवाच तथा हरिजटपरा ॥१५६॥
‘ अत्यद्भुत श्री स्त्रिजगद्गत्रभोक्ता सुवंशजः
कुतो न रोचते भर्ता, किं त्वं प्रव्रजिते रता ? ॥१५७॥
भव भार्या रा जराजभ्रातुः प्रव्रजितं त्यज
अभिलाषो वरं दुग्धे मुग्धे कः कांजिके रसः. ॥१५८॥
असकृद्भी म वीर्येण सुरगंधर्वदानवाः
निर्जिताः समरे येन स ते पार्श्वमुपागतः. ॥१५९॥
तस्य त्वं भ ज तः सर्वा समृद्धिं जयतो जगत्
किमर्थ राक्षसेंद्रस्य भार्यात्वं नेच्छसेऽधमे ॥१६०॥
दिवाकरो य स्य भयान्न तपत्यद्रयो जलम्
मुंचंति तरवः पुष्पं फलं वातो न वाति च, ॥१६१॥
तं त्वं कथं रा क्षसेंद्रं दशास्यमवमन्यसे ? ’
‘ कामं खादत मां सर्वा, न करिष्यामि वो वचः. ॥१६२॥
शक्रं पुलो म जादेवी श्रीवसिष्ठमरुंधती
तथाहमिक्ष्वाकुवरं रामं पतिमुनव्रता. ॥१६३॥
सोऽस्तु भर्ता ज न्मजन्मन्यन्यं कांटं न कामये,
वामेनाप्यंघ्रिणा स्प्रष्टुं नाहमिच्छामि रावणम्. ’ ॥१६४॥
एवं श्रुतं य दा वकयं राक्षस्यः क्रोधमूर्च्छिताः
भर्त्सयंति स्म परुषैर्वचनैस्तामनिंदिताम्. ॥१६५॥
भर्त्स्यमाना ज नकजा राक्षसीभिः समंततः
रुदती शिंशपामूलं गत्वा तस्थौ तपस्विनी. ॥१६६॥
विनताख्या, ‘ य दि त्वं नो वचनं न करिष्यसि
भक्षयिष्यामहेऽद्य त्वामि ’त्युवाचातिनिर्दया. ॥१६७॥
ता राक्षस्यो रा जपुत्रीं भर्तुर्विप्रियकारिणीम्
‘ त्वां मारयाम ’ इत्यूचुर्लोमहर्षणदर्शनाः ॥१६८॥
विकटा ना म तामाह, ‘ भर्तारं रावणं भज
नो चेदुपात्ट्य हृदयं भक्षयिष्याम्यहं तव. ’ ॥१६९॥
एवं क्रूराः श्री मतीं तामन्याश्चोचुः सुदारुणम्
हंतव्या राक्षसेंद्रस्य यदाज्ञाभंगकारिणी. ॥१७०॥
कुंडोदरी रा क्षसस्त्री प्रह, ‘ मे दोहदो महान्
खादेयमस्या हृदयं कोमलायाः सबंधनम्. ’ ॥१७१॥
विघसा ना म दुर्वृत्ता तदोवाच भयंकरम्,
‘ कंठमस्या नृशंसायाः पीडतामः किमास्यते ? ॥१७२॥
मृतेति र ज नीचर्यो ! रावणाय निवेद्यताम्
ततोऽसंशयमेवास्मान् खादतेति स वक्ष्यति. ’ ॥१७३॥
ततो निर्द य मश्राव्यमत्यंतं लोमहर्षणम्
उवाचाजामुखी, ‘ पिंडान्कुरुतेमां विशस्य तान्. ॥१७४॥
यथायथं रा क्षसीभ्यः सर्वाभ्योऽपि विभागशः
विभजामानया मोघो विवादो मे न रोचते. ’ ॥१७५॥
‘ आनीयता म द्य मद्यमि ’ति शूर्पणखाब्रवीत्,
‘ भुक्त्वा पीत्वा च नृत्याम स्तुत्वा देवीं निकुंभिलाम्. ’ ॥१७६॥
निर्भर्त्सिता ज गत्पूज्या ताभिरेवं तदा भृशम्
सा बालारुददत्यार्ता प्रत्युवाच च ताः पुनः, ॥१७७॥
‘ नरी न न्या य तो रक्षोभार्या भवितुमर्हति,
कामं खादत मां सर्वा, न करिष्यामि वो वचः. ’ ॥१७८॥
उष्णैर्नेत्र ज लैः सीता स्नापयंती पयोधरौ
अशोकशाखामालंब्य वेपमानारुदद्भृशम्. ॥१७९॥
‘ हा राम ! प्रि य हा ! सौम्य ! सौमित्रे ! गुरुवत्सल !
हा कौसल्ये ! हा सुमित्रे ! ’ इति सीता रुरोद सा. ॥१८०॥
‘ पीडिताया रा क्षसीभिर्वियुक्तायाः प्रियेण मे
न ह्यस्ति जीवितेनार्थो मर्तुमप्यत्र दुर्घटम्. ॥१८१॥
हृदयं म म येनेदं न दुःखेन विशीर्यते
अश्मसारमयं नूनमथवपयजरामरम्. ॥१८२॥
ख्यातः पूज्यः श्री मदीड्यः सानुक्रोशश्च राघवः
कृतज्ञोऽप्यदयो जातः शंके मद्भाग्यसंक्षयात्. ॥१८३॥
निरुद्धाहं रा वणेन स्वल्पवीर्येण पापिना
समर्थः खलु मे भर्ता नेहस्थां मां स बुध्यते. ॥१८४॥
कामं लंका म हादुर्गं वारिधौ दुष्प्रधर्षणम्
न तु राघवबाणानां गतिरोधो भविष्यति. ॥१८५॥
राक्षसानां ज नस्थाने सहस्राणि चतुर्दश
एकेनैव निरस्तानि स मां किं नाभिपद्यते ? ॥१८६॥
इहस्थां मां य शस्वींद्रो न जानीते रघूत्तमः
जानन्न खलु तेजस्वी धर्षणां मर्षयिप्यति. ॥१८७॥
वृत्तं वक्ता रा घवाय यो गृध्रः श्वशुरो मम
पापेन रक्षसा सोऽपि मत्समक्षं रणे हतः. ॥१८८॥
वर्तमाना म त्र चेन्मां जानीयाद्रघुनंदनः
लंकां महोदधिं चापि निर्दहेदस्त्रतेजसा. ॥१८९॥
करोमि नि ज नाथेन रहिता रोदनं यथा
मत्तोऽधिकं करिष्यंति राक्षस्योऽत्र गृहे गृहे. ’ ॥१९०॥
सीतां ता भू य एवोचुरनार्ये ! पापनिश्चये !
राक्षस्यो भक्षयिष्यन्ति तव मांसमसंशयम्. ’ ॥१९१॥
राक्षसीस्त्रि ज टा वृद्धा प्रबुद्धा वाक्यमब्रवीत्
सीतां ताभिरनार्याभिर्दृष्ट्वा संतर्जितां तदा, ॥१९२॥
‘ अनार्या यू य मात्मानं खादतार्यां न जानकीम्
भक्षयिष्यथ दृष्टो हि मया स्व्पनोऽद्य दारुणः. ’ ॥१९३॥
स्वप्नं पृष्टा रा क्षसीभिः कथयामास साथ तम्,
‘ राक्षसानामभावाय सीताभर्तुर्भवाय यः ॥१९४॥
अद्य स्वप्ने म या दृष्तः शुक्लमाल्यानुलेपनः
रामः श्वेतगजारूढः शुक्लवासः सलक्ष्मणः ॥१९५॥
सीता च सु श्री रारूढा श्वेताद्रिं सिंधुवेष्टितम्
मुक्ता शुक्लांबरधरा शुक्लमाल्यानुलेपना. ॥१९६॥
ततश्चेयं रा जपुत्री रामेण सह संगता
आरूढा पुष्पकं यानं प्रस्थिता चोत्तरां दिशम्. ॥१९७॥
रावणश्च म या स्वप्ने दृष्टो रक्तस्रगंबरः
प्रस्थितः स्वरयानेन राक्षसैर्दक्षिणां दिशम्. ॥१९८॥
दशास्यात्म ज वर्गश्च कुंभकर्णश्च तद्विधः
उष्ट्रारूढा गताः सर्वे सचिवा दक्षिणां दिशम्. ॥१९९॥
एक एव य था रामः श्वेतच्छत्रो बिभीषणः
चतुर्भिः सचिवैर्दृष्टो मया स्वप्ने वियद्गतः. ॥२००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP