सुंदरकांडम् - काव्य १ ते ५०
सुन्दरकाण्डम् या प्रकरणातील श्लोकातील पाचवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.
उत्प्लुत्य स श्री कंठस्य मार्गणस्त्रिपुरं यथा
लंकां जगाम जवनः पवनस्यौरसः सुतः. ॥१॥
तद्वेगधा रा पतिता द्रुमास्तं क्षणमन्वयुः
प्रस्थितं दीर्घमध्वानं स्वबंधुमिव बांधवाः. ॥२॥
अन्वयुस्तं म रुत्पुत्रमूरुवेगोत्थिता द्रुमाः
दानमानादिभिस्तुष्टाः सैन्या इव महीपतिम्. ॥३॥
व्योम्नि तद्भु ज दंडौ तौ ददृशाते प्रसारितौ
पर्वताग्राद्विनिष्क्रांतौ पंचास्याविव पन्नगौ. ॥४॥
छायाब्धेः प य सि व्यक्ता तदा मध्याह्निकी कपेः
दशयोजनविस्तीर्णा त्रिंशद्योजनमायता. ॥५॥
वस्त्रापहा रा त्सहसा देहा इव शरीरिणाम्
वेगाज्जलोत्सारणतो विवृता जलजंतवः. ॥६॥
याति येन म हाकायो वेगेन महता कपिः
तेन मार्गेण सहसा द्रोणीकृत इवार्णवः. ॥७॥
दृष्ट्वा तमं ज नापुत्रं प्लवमानं द्भुतं तदा
ववृषुः पुष्पवर्षाणि देवगंधर्वदानवाः. ॥८॥
मैनाकं तो य राश्युक्तेर्विश्रामार्थं समुत्थितम्
विघ्नं मत्वोरसाधस्तं पातयामास मारुतिः. ॥९॥
त्रातः प्रभं ज नेनाहं पूज्यस्त्वं मे तदात्मजः,
मयि विश्रम्य गच्छे ’ ति मैनाकाद्गिरुवाच तम्. ॥१०॥
स्पृष्ट्वांजने य स्तं प्राह, ‘ कार्यकालो गिरे ! ऽद्य मे,
प्रतिज्ञा च कृता सौम्य ! न स्थातव्यमिहांतरा. ’ ॥११॥
उक्त्वेवमा रा त्त्वरया जगाम स महाबलः
मैनाकायाभयं प्रादात्तेन तुष्टः शचीपतिः. ॥१२॥
ततः सुरा म रुत्सूनोः परीक्षार्थं महौजसः
‘ विघ्नं कुरु त्वमि ’ त्यूचुः सुरसां नागमातरमू. ॥१३॥
रुद्ध्वाध्वानं श्री मतः सा बिभ्रती राक्षसं वपुः
उवाच, ‘ मे प्रदिष्टस्त्वं सुरैर्भक्ष्यः प्लवंगम ! ॥१४॥
धात्रा पुरा रा धनतं प्रसन्नेनैष मे वरः
दत्तस्त्वां भक्षयिष्यामि प्रविशेदं ममाननम्. ’ ॥१५॥
इत्युक्त्वा सा म हद्वक्त्रं व्यादाय पुरतः स्थिता.
एवमुक्तः सुरसया प्रहृष्टवदनोऽब्रवीत्. ॥१६॥
‘ भद्रे रामो ज गन्नाथः प्रविष्टो दंडकावनम्
रावणेन हृता तस्य प्रियाजनकनंदिनी. ॥१७॥
तदृर्शना य दूतोऽहं गमिष्ये रामशासनात्
कर्तुमर्हसि रामस्य साह्यं विषयवासिनि ! ॥१८॥
अथवा तां रा जपुत्रीं दृष्ट्वा रामं च तं प्रभुम्
त्वद्वक्त्रमागमिष्यामि सत्यं प्रतिशृणोमि ते. ’ ॥१९॥
इत्युक्त्वा का म रूपा सा मया दृष्टो विधेर्वरात्
‘ न कश्चैन्मुच्यते मत्त ’ इत्युवाचोग्रदर्शना. ॥२०॥
स उवाचां ज नेयस्तां क्रुद्धोदिग्योजनाननाम्
‘ कुरु त्वं तादृशं वक्त्रं येन मां विषहिष्यसि. ’ ॥२१॥
इति व्यादा य वदनं स्थितामुक्त्वा स्वयं प्रभुः
दशयोजनाविस्तारो हनूमानभवत्तदा. ॥२२॥
प्रचकार ज वेनास्यं सा विंशद्योजनायतम्,
त्रिंशद्योजनविस्तारो हनूमान् बुद्धिमानभूत्. ॥२३॥
ततः सा त्या य तं चक्रे द्विगुणं वक्त्रमात्मनः
बभूव हनुमान् वीरः पंचाशद्योजनोच्छ्रितः. ॥२४॥
पुनश्चका रा स्यमसौ षष्टियोजनविस्तृतम्
चक्रे स्वदेहं संख्यातः कपिः सप्ततियोजनम्. ॥२५॥
चकार सा म हद्वक्त्रमशीत्या योजनैर्मितम्
बभूव सोऽनलप्रख्यो नवतिं योजनोछ्रयः. ॥२६॥
सद्धर्मेण श्री रिव सा ववृधे सुरसा मुखम्
शतयोजनविस्तारं चकारातिभयंकरम्. ॥२७॥
तदा समी रा त्मजनिर्बभूवांगुष्ठमात्रकः
वक्त्रे प्रविश्य निर्गत्य गगनस्थ उवाच ताम्. ॥२८॥
‘ दाक्षायणि ! म यि क्रोधो मास्तु देवि ! नमोऽस्तु ते,
गमिष्येऽहं प्रविष्टोऽस्मि मुखं सत्यो वरस्तव. ’ ॥२९॥
साब्रवी ‘ दं ज नासूनो ! गच्छ सौम्य ! यथासुखम्
समानय च वैदेहीं राघवेण महात्मना. ’ ॥३०॥
वायोस्तन य उद्युक्तो जगामाथ पुनर्द्रुतम्
ब्रह्मदत्तवरात्तस्य च्छायां जग्राह सिंहिका. ॥३१॥
सुग्रीवोक्तां रा क्षसीं तां बुध्वा स ववृधे कपिः
वक्त्रं प्रसारयामास सा पातालांबरोपमम्. ॥३२॥
तस्या मुखे म हत्याशु संक्षिप्यात्मानमात्मवान्
निपपात सुरैर्दृष्टो राहोरास्ये शशीव सः. ॥३३॥
छित्त्वा हृदं ज नासूनुस्तस्यास्तत्क्षणमंबरम्
जगाम रामकार्यार्थी मनःसंपातविक्रमः. ॥३४॥
संक्षिप्य का य वृद्धिं च प्रवेगं च महामतिः
समासाद्यांबुधेस्तीरं लंबाद्रौ निपपात सः. ॥३५॥
लंबाद्रावं ज नायाः स स्थितः सूनुरनिश्वसन्
ददर्श गिरिवर्यस्य मूर्घ्नि लंकां वनैर्वृताम्. ॥३६॥
जगाम तां य शस्वींद्रो विश्वकर्मविनिर्मिताम्
रम्यां वृतां कांचनेन प्राकारेण महापुरीम्. ॥३७॥
ओतुमात्रो रा त्रिमुखे बभूवाद्भुतदर्शनः
ददर्श प्रविशंतं तमथ लंकाधिदेवता ॥३८॥
पुरस्तात्सा म हानादा वायुसूनोरतिष्ठत.
पप्रच्छ, ‘ कस्त्वं ? केनासि कार्येणेह समागतः ? ’ ॥३९॥
तामुवाच श्री हनुमान्, ‘ का त्वं द्वारेऽवतिष्ठसे ?
किमर्थं चापि मां क्रोधान्निर्भर्त्सयसि दारुणे ! ’ ॥४०॥
वस्वोकसा रा प्रतिमा साब्रवीत्त, ‘ महं कपे !
लंकास्मि दशवक्त्रस्य नियोगपरिपालिका. ’ ॥४१॥
हनूमांस्ता म थोवाच, ‘ लंकां द्रक्ष्यामि निस्तुलाम्
इत्यर्थमिह संप्राप्तः परं कौतूहलं हि मे. ’ ॥४२॥
पुनर्वात ज माहेयं पुरी रावणपालिता,
‘ मामनिर्जित्य न द्रष्टुं शक्यते वानर ! त्वया. ’ ॥४३॥
तामांजने य स्स्तुत्वाह, ‘ मैवं, मार्गं प्रयच्छ मे
दृष्ट्वा पुरीमिमां भद्रे ! पुनर्यास्ये यथागतम्. ’ ॥४४॥
सैवमुक्ता रा वणस्य पुरी नादं भयंकरम्
कृत्वा तलेनानिलजं ताडयामास वेगिता. ॥४५॥
स प्लवंग म वर्योऽपि वामहस्तस्य मुष्टिना
ताडयामास तां स्त्रीति नातिक्रुद्धो विवेकवान्. ॥४६॥
पपात ग ज राजेन स्पृष्टा रंभेव सा पुरी,
कृपां चकार तेजस्वी मन्यमानः स्त्रियं च ताम्. ॥४७॥
भृशोद्विग्ना य शोराशिं कपिं सा गद्गदाक्षरम्
उवाचागर्वितं वाक्यं परिबूता बलीयसा. ॥४८॥
‘ प्रसीद, वि ज यस्तेऽस्तु, मां त्रायस्व महाभुज !
मद्यं स्वयंभुवा दत्तो वरः पूर्वं महाभुज ! ॥४९॥
वानरस्त्वां य दा कश्चिद्विक्रमाद्वशमानयेत्
तदा त्वया हि विज्ञेयं रक्षसां भयमागतम्. ॥५०॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP