सुंदरकांडम् - काव्य २५१ ते ३००
सुन्दरकाण्डम् या प्रकरणातील श्लोकातील पाचवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.
स्वं च प्रभं ज नसुतं सुग्रीवसचिवं प्रियम्
कथयित्वा कविः शंकां तस्याश्चिंतामपानुदत्. ॥२५१॥
‘ त्वद्भर्तुः प्रि य कृद्देवि ! सखा सर्वकपीश्वरः
महाप्रतापः सुग्रीवः स त्वां कौशलमब्रवीत्. ॥२५२॥
सर्वान् रणे रा त्रिचरान् हत्वा सदशकंधरान्
अचिरात्त्वामितो देवि ! नेता जेता द्विषां प्रभुः. ॥२५३॥
प्रबलाः स म रं कर्तुं वानरा मानराशयः
अत्रागमिष्यत्यचिरात्सुग्रीवेण सहामिताः. ॥२५४॥
संपातिना ज टायोस्त्वमग्रजेन निवेदिता
शतयोजनमंभोधिं तीर्त्वैकोऽहमिहागतः. ॥२५५॥
रामांगुली य मेतत्त्वं गृहाणार्ये ! तदर्पितम्. ’
इत्युक्त्वा स ददौ मुद्रामंजलौ धरणिभुवः. ॥२५६॥
तद्गृहीत्वा ज नकजा प्रेक्षभाणांगुलीयकम्
भर्तारमिव संप्राप्ता मुदिताभूदथाब्रवीत्. ॥२५७॥
‘ कुशली स य दि श्रीमान्सानुजो रघुसत्तमः
किं नु क्षितिं न दहति प्रलयाग्निरिवोत्थितः. ॥२५८॥
शक्तिमंतौ रा घवौ हि सुराणामपि निग्रहे
ममैव तु न दुःखानामस्ति मन्ये विपर्ययः. ॥२५९॥
कच्चिन्न प्रे म रहितो विवासान्मयि राघवः ?
कच्चिन्मां व्यसनादस्मात्काकुत्स्थो मोचयिष्यति ? ’ ॥२६०॥
उवाच तां श्री हनुमान्, ‘ इहस्थां त्वां न वेत्ति सः
तेन त्वां नानयत्याशु शचीमिव पुरंदरः. ॥२६१॥
श्रुत्वोक्तं मे रा घवस्त्वां क्षिप्रमेष्यति सानुजः
चमूं प्रकर्षन्महतीं हर्यृक्शगणसंयुताम्. ॥२६२॥
करिष्यति म नुष्येंद्रो लंकां निहतराक्षसाम्
विष्टं भयित्वा बाणौघैरक्षोभ्यं वरुणालयम्. ॥२६३॥
अदर्शन ज शोकेन राघवः परिपूरितः
न शर्म लभते सीते ! सिंहार्दित इव द्विपः. ॥२६४॥
यथा सुन य नं वक्रं पत्युर्द्रक्ष्यसि सत्वरम्
तथा शपे मंदरेण विंध्येन मलयेन च. ॥२६५॥
नैव मांसं रा मभद्रो भुंक्ते मद्यं न सेवते
वन्यं विहितमश्नाति भक्तं काले स पंचमे. ॥२६६॥
न दंशजं म शकजं स्पर्शं जानाति राघवः
अहीन्नापनयत्यंगात्त्वद्गतेनांतरात्मना. ॥२६७॥
रामोऽनिद्रोऽज स्रमेव सुप्तोऽपि च कदाचन
सीतेति मधुरां वाणीं व्याहरन् प्रतिबुध्यते. ’ ॥२६८॥
तमुवाचा य ताक्षी सा, ‘ यावदेव न पूर्यते
अयं संवत्सरः कालस्तावद्धि मम जीवितम्. ॥२६९॥
मासोऽयमं ज नासूनो ! वर्तते दशमः खलु
रावणेन नृशंसेन ममैष समयः कतः. ॥२७०॥
बिभीषणो य त्नपरो मम प्रत्यर्पणं प्रति
तेनानुनीतो दिक्तुंडो न च तन्मन्यते खलः. ॥२७१॥
न रोचते रा वणस्य मम प्रत्यर्पणं कपे !
अविध्यस्यापि सद्बुत्धेर्वचो न कुरुते हृदि. ॥२७२॥
या कला ना म सुमतिर्बिभीषणसुता कपे !
तया ममैतदाख्यातं मात्रा प्रहितया स्वयम्. ’ ॥२७३॥
अथोवाच श्री मतीं तां वायुसूनुर्विचक्षणः,
‘ सीते ! श्रुत्वैव मद्वाक्यं क्षिप्रमेष्यति राघवः. ॥२७४॥
अथवा त्वां रा जकन्ये ! मोचयिष्यामि दारुणाम्
अस्माद्दुःखादुपारोह मम पृष्ठमनिंदिते ! ॥२७५॥
सरावणा म पि पुरीं वोढुं शक्तिर्ममास्ति हि,
प्रपयिष्यामि रामाय त्वामद्यैव नृपात्मजे ! ’ ॥२७६॥
सीतोवा‘चां ज नासूनो ! कपित्वमुचितं तव
कथमल्पशरीरस्त्वं मामितो नेतुमिच्छसि ? ’ ॥२७७॥
तस्याः प्रत्य य हेतोः स मेरुमंदरसन्निभम्
स्वाकारं दर्शयामास तं दृष्ट्वोवाच जानकी, ॥२७८॥
‘ वत्स ! वायो रा त्मजस्त्वं गतिर्दीप्तिश्च तेऽद्भुता
प्राकृतोऽन्यः कथं चेमां भूमिमागेतुमर्हति ? ॥२७९॥
अयुक्तं तु म या गंतुं कपिश्रेष्ठ ! त्वया सह
भवतो वायुवेगस्य वेगो मां मोहयिष्यति. ॥२८०॥
प्रपतेयं ज लनिधौ पृष्ठाद्वेगवतस्तव
भवेयमाशु विवशा यादसामन्नमुत्तमम्. ॥२८१॥
नाहमिच्छे य मन्यस्य गात्रं स्प्रष्टुं स्वतः कपे !
अनीशा चाप्यनाथा च रक्षःस्पर्शं तदा गता. ॥२८२॥
यदि रामो ज गन्नाथो हत्वेह दशकंधरम्
मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत्. ’ ॥२८३॥
स आंजने य स्तामाह, ‘ त्वयोक्तं शुभदर्शने !
सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च. ॥२८४॥
अभिज्ञानं रा जपुत्रि ! प्रयच्छ त्वमपि प्रभोः
येन प्राप्तप्रत्ययं सत्प्रसन्नं भविता मनः. ’ ॥२८५॥
देव्युवाच, ‘ म हेंद्रस्य पुत्रः काकः स मां पुरा
चित्रकूटेऽसकृत्तात ! दारयामास दुर्मतिः. ॥२८६॥
ब्रह्मास्त्रेण श्री मताशु दर्भे संयोज्य मारुते !
प्रक्षिप्ते वायसस्त्रस्तस्त्रिजगत्सु परिभ्रमन्. ॥२८७॥
स त्राणमा रा ज्जनकादीश्वराप्तरमेष्ठिनः
अप्राप्य शरणं रामं प्राप्तो मुक्तोऽक्षिदानतः. ॥२८८॥
एतदेक म भिज्ञानमिमं चूडामणिं च मे
नय दर्शय रामाय सत्यप्रत्ययकारकम्. ’ ॥२८९॥
एवमुक्तोंऽ ज नासूनुर्नत्वा तां विश्वमातरम्
मणिमाशिषमादाय गमनायोपचक्रमे. ॥२९०॥
तमुवाचा य ताक्षी सा बाष्पगद्गदया गिरा,
‘ हनूमन्कुशलं ब्रूयाः सहितौ रामलक्ष्मणौ. ॥२९१॥
प्लवंगवी रा धिपतिं सुग्रीवं सचिवैर्युतम्
वृद्धान्त्सर्वान्कपींश्चापि ब्रूयास्त्वं कुशलं कपे ! ॥२९२॥
यथा च स मा हाबाहुर्माम तारयति राघवः
अस्माद्दुःखांबुधेः शीघ्रं त्वं तथा कर्तुमर्हसि. ॥२९३॥
प्लवंगमा ज लनिधिं तरिष्यंति कथं नु ते ?
तरिष्यतः कथं तौ च दुस्तरं रामलक्ष्मणौ ? ’ ॥२९४॥
तदांजने य स्तामाह सुग्रीवो वानरेश्वरः
सखा रामस्य सत्वाढ्यस्तवार्थे कृतनिश्चयः. ॥२९५॥
कोटिशस्ते ज सा पूर्णाः सत्त्ववंतो महाबलाः
मनःसंकल्पसंपाता निदेशे तस्य वानराः. ॥२९६॥
मत्तुल्यास्ते य त्नशीला मद्विशिष्टाश्च वानराः
मत्तः क्रोऽपि न हीनोऽयमहं तावदिहागतः. ॥२९७॥
किं पुनस्ते रा ज्ञि ! वीरा महाबलपराक्रमाः
न हि प्रकृष्टाः प्रेष्यंते प्रेष्यंते हीतरे जनाह. ॥२९८॥
एष्यंति ते महाल्लंकामेकोत्पातेन जानकि !
मम पृष्ठगतौ तौ च नृसिंहावागमिष्यतः ॥२९९॥
त्वां नेष्यतः श्री मदीशौ हत्वा रावणमाहवे
शपे सत्येन ते देवि ! लंकां भस्मीकरिष्यतः. ॥३००॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP