संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|सुंदरकांडम्| काव्य ५१ ते १०० सुंदरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ४६८ सुंदरकांडम् - काव्य ५१ ते १०० सुन्दरकाण्डम् या प्रकरणातील श्लोकातील पाचवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ५१ ते १०० Translation - भाषांतर स कीशवी राद्यप्राप्तः समयस्तव दर्शनात् स्वयंभुविहितः सत्यो न तस्यास्ति व्यतिक्रमः. ॥५१॥राक्षसाना म य सौम्य ! विनाशः समुपागतः सीतानिमित्तं राज्ञश्च रावणस्य दुरात्मनः. ॥५२॥तत्वं पुरीं श्री संपन्नां प्रविश्य कपिसत्तम ! विधत्स्व सर्वकार्याणि यानि यानीह वांच्छसि. ॥५३॥रामस्य दा रा न्पुर्यां त्वमन्वेषय यथासुखम्. ’ इत्युक्तो द्वारतः कीशः प्राकारमवपुप्लुवे. ॥५४॥द्विषतां वा म मंघ्रिं स मूर्घ्नि चक्रे महामतिःप्रविश्य रात्रौ तां लंकां ददर्श भवनान्यथ. ॥५५॥द्रष्टुं देवीं ज नकजां रामस्य दयितां पुरि भवनाद्भवनं गच्छन्न ददर्श मरुत्सुतः. ॥५६॥स आंजने य स्तस्यां तान् विवेश महतो गृहान् रावणभ्रातृतनयप्रधानानां महाजवः. ॥५७॥तत्साचिव्यं रा त्रिनाथश्चक्रे लंकां प्रकाशयन् पुष्पकं रावणस्यांतःपुरं सर्वं ददर्श सः. ॥५८॥सुखसुप्तेऽ म रारातौ ताः स्त्रियो विविधप्रभाः ज्वलंतः कांचना दीपाः प्रेक्षन्तोऽनिमिषा इव. ॥५९॥ ता विप्ररा ज र्षिसुता दैत्यगंधर्वयोषितः रक्षसां चाभवन् कन्यास्तस्य कामवशं गताः. ॥६०॥प्रियास्ताः प्रिय य मात्पा नो तत्र काश्चिद्बलाद्धृताह नान्यकामा नान्यपूर्वा वरार्हां जानकीं विना. ॥६१॥पलाशरा ज स्य यथा संति भार्या इमा इह सीता यदीदृशी भद्रमेवास्येत्यब्रवीत्कपिः. ॥६२॥भूयोऽचिंत य देवं सा विशिष्टा गुणतो ध्रुवम् अतोऽयमस्यां कृतवान् कष्टं दुष्टो निशाचरः. ॥६३॥प्राप्य सुप्तं रा क्षसेंद्रं परमोद्विग्नमानसः तस्मादतित्रस्त इव सोऽपासर्पन्मरुत्सुतः. ॥६४॥स्थानांतर म थासाद्य रावणं प्रेक्षते स्म सः ददर्श रूपसंपन्नामथ मंदोदरीं कपिः. ॥६५॥मत्वा प्रियां श्री रामस्य तां स्त्रियं रूपसंपदा हर्षेण महता युक्तो ननंद हरियूथपः. ॥६६॥स तामसा रा माश्वेव त्यक्त्वा बुद्धिं समुत्थिताम्चकार चिंतामपरां हनूमानतिबुद्धिमान्. ॥६७॥‘ राघवस्य म हिष्येवमुपस्थातुं परं जनम् स्वप्तु भोक्तु मलंकर्तुं नार्हत्येव कथंचन. ॥६८॥न त्रिष्वपि ज गत्स्वन्यः कश्चिद्रामसमः पुमान् अन्येयमि ’ति निश्चित्य चचारान्यत्र मारुतिः ॥६९॥योषितामा य ताक्षीणां सहस्त्राणि ददर्श सः न तां नतांगीं लावण्यशीलभारेण जानकीम्. ॥७०॥खिन्नचित्तो रा वणस्य तस्मादंतःपुराद्बहिः निर्गत्य चिंतामकरोद्दीनो जानक्यदर्शनात्. ॥७१॥‘ इदं खलु मात्यर्थं धर्मलोपं करिष्यति यत्प्रसुप्तपरस्त्रीणामद्य जातं विलोकनम्. ’ ॥७२॥इत्येवमं ज नासूनुर्धर्मसाध्वसशंकितः निःसृत्य पानभूमेः स चिंतयामास मारुतिः. ॥७३॥‘ सीता न ध्रि य ते नूनं यन्न दृष्टा विचिन्वता रावणेन हता बाला शीलरक्षणतत्परा. ॥७४॥अदृष्ट्वा तां ज नकजां किं प्रवक्ष्यामि तान् कपीन् किं वा वक्ष्यति मां वृद्धो जांबवानंगदश्च सः. ॥७५॥कृत्वा निश्च य मद्याहं योग्यः प्रायोपवेशने भूयोऽथवा विचेष्यामि न यत्र विचयः कृतः. ॥७६॥नास्ति सीता रा जनकन्या लंकायामिति सर्वथा रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ॥७७॥निवेदने म हान् दोषस्तथा स्यादनिवेदने कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे. ॥७८॥गत्वा यदि श्री काकुत्स्थं वक्ष्यामि परुषं वचःसीता मया न दृष्टेति ततस्त्यक्ष्यति जीवितम्. ॥७९॥लोकानसा रा नखिलान् विना रामेण मन्यते भृशानुरक्तः सौमित्रिस्तत्क्षणान्न भविष्यति. ॥८०॥स प्लवंग म राजोऽपि प्राणांस्त्यक्ष्यत्यसंशयम् रुमांगदश्च तारा च ताश्च रामस्य मातरः. ॥८१॥रामं सानु ज मात्मेष्टं परं श्रुत्वा तथागतम् भरतस्तमनुभ्राता शत्रुघ्नो न भविष्यति. ॥८२॥वानराः क्ष य मेष्यंति सुग्रीवे राज्ञि संस्थिते इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम्. ॥८३॥मयीहस्थे रा घवौ तावाशया खलु सर्वथा प्राणान् ध्रुवं धरिष्येते वानराश्च तरस्विनः. ॥८४॥चितिं कृत्वा म हांतं वा प्रवेक्ष्यास्यरणिसुतम् नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम्. ’ ॥८५॥स कीशकुं ज रो भूयश्चिंतयामास बुद्धिमान्, ‘ विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम्. ॥८६॥यावत्तामा य ताक्षीं नो पश्यामि प्रभुकामिनीम् तावदेतां पुरीं लंकां विचेनोमि पुनःपुनः ॥८७॥इमामद्य ज वेनाहमशोकवनिकामपि गुर्वीमधिगमिष्यामि नहीयं विचिता मया. ॥८८॥कृत्वा निश्च य मेवं स श्रीरामाय महात्मने लक्ष्मणायाथ सीतायै सुग्रीवायोग्रतेजसे ॥८९॥नत्वा समी रा त्मभवो रुद्रादिभ्यः कृतांजलिःउदतिष्ठज्जगामायमशोकवनिकां प्रति. ॥९०॥अनेकद्रु म संपन्नामशोकवनिकां गतः कांचनीं शिंशुपां रम्यां महतीमारुरोह सः. ॥९१॥समारुह्यं श्री मतीं तां शिंशुपां पर्णसंवृताम् अशोकवनिकाशोभामपश्यत्परमां कपिः. ॥९२॥ तत्राविदू रा त्प्रासादं सहस्रस्तंभमद्भुतम्ददर्श तस्य निकटे वृक्षमूले प्रभोः प्रियाम्. ॥९३॥तां वाससा म लवता संवीतां राक्षसीवृताम् उपवासकृशां दीनां निश्वसंतीं पुनःपुनः ॥९४॥विलोक्य रा ज महिषी सीतेयमिति बुद्धिमान् तर्कयामास रामेण कथितैर्भव्यलक्षणैः ॥९५॥यूथभ्रष्टा य थारण्ये श्वभिः परिवृता मृगी तथा तां राक्षसीरुद्धां दृष्ट्वाभूद्दुःखितः कपिः. ॥९६॥‘ इयं सीता रा घवस्य महिषी परमप्रिय प्रनष्टापि सती यस्य मनसो न प्रणश्यति ॥९७॥अस्या देव्या म नस्तस्मिन् तस्य चास्यां प्रतिष्ठितम् तेनेयं स च धर्मात्मा मूहूर्तमपि जीवति. ’ ॥९८॥इत्याह xऽ ज नासूनुर्हृष्टः सीतां विलोक्य ताम् जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥९९॥घोराः काला य समहाशूलमुद्गरधारिणीः ददर्श राक्षसीस्तत्र सदा मांससुराप्रियाः ॥१००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP