सुंदरकांडम् - काव्य १०१ ते १५०

सुन्दरकाण्डम् या प्रकरणातील श्लोकातील पाचवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


दशास्यो र ज नीशेषे कामार्तः स्त्रीशतावृतः
तत्राजगाम सहसा वैदेहीगतमानसः. ॥१०१॥
उग्रतेजा य द्यपि स प्रभंजनसुतस्तदा
शास्त्रांतरेऽभवद्गूढो निर्धूतस्तस्य तेजसा. ॥१०२॥
समागते रा क्षसेंद्रें दीपिकाभिः प्रकाशिते
प्रावेपत वरारोहा प्रवाते कदलीव सा. ॥१०३॥
ऊरुभ्यां क्षा म मुदरं बाहुभ्यां च पयोधरौ
संप्रच्छाद्योपविष्टा सा रुदती शीलसादरा. ॥१०४॥
स दिदृक्षुः श्री मतीं तामुपासर्पत रावणः
ददर्श दीनामासीनां धरण्यां संक्षितव्रताम्. ॥१०५॥
शुद्धप्रचा रा मत्यार्तामुवाच दशकंधरः,
‘ मां दृष्ट्वा देवि ! कस्मात्त्वमप्रसन्ना भयाकुला ? ॥१०६॥
त्वामहं का म ये सीते ! बहु मन्यस्व मां प्रिये !
रक्षोधर्मः परस्तीणां हरणं गमनं खलु. ॥१०७॥
तथपयं बु ज पत्राक्षि ! त्वां न स्प्रक्ष्याम्यहं बलात्
मयि विश्वसिहि प्राज्ञे ! मैवं भूः शोकलालसा. ॥१०८॥
पानानि श य नानि त्वां दिव्यान्याभरणानि च
अंबराणि महार्हाणि लभस्व मदिरेक्षणे ! ॥१०९॥
स्त्रीरत्रं त्वं रा वणं माम मैवं भूः प्राप्य मैथिलि !
यौवनं मास्तु ते मोघं कुरु गात्रेषु भूषणम्. ॥११०॥
दद्यत्तव म नोज्ञांगि ! गात्रं पश्यामि शोभने !
तस्मिंस्तस्मिन्पृथुश्रोणि ! चक्षुर्मम निबध्यते. ॥१११॥
भव मे कं ज नेत्रे ! त्वं भार्या मोहं विसर्जय
बह्वीनामुत्तमस्त्रीणां ममाग्रमहिषी भव. ॥११२॥
त्रिलोकेभ्यो य त्रवता यानि रत्नानि भामिनि !
हृतानि तानि सर्वाणि राज्यं चेदं ददामि ते ॥११३॥
तव पित्रे ज नकजे ! तव हेतोर्बिलासिनि !
प्रदास्यामि विजित्याहं सर्वामपि वसुंधराम्. ॥११४॥
असकृत्सं य ति मया भग्ना मग्ना भयार्णवे
अशक्ताः पुरतः स्थातुं मम सर्वे सुरासुराः. ॥११५॥
गतश्रिया रा जपुत्रि ! तेन त्वं किं करिष्यसि ?
द्रष्टुमप्यसमर्थस्त्वां शंके जीवति वा न वा ! ॥११६॥
सीते लल म यि त्वं ते ललंतु त्वयि बांधवाः
न स रामो मया तुल्यस्तेजसा तपसापि वा. ’ ॥११७॥
वाक्यं तस्य श्री मती सा श्रुत्वा रौद्रस्य रक्षसः
तृणमंतरतः कृत्वा प्रत्युवाच महासती. ॥११८॥
‘ मत्तः प्रवी रा धिपतेः कलत्रात्सत्कुलोद्भवात्
निवर्तय स्वदारेषु प्रीयतां ते मनः सदा. ॥११९॥
अकार्यं न मया कार्यमेकपत्न्या विगर्हित्तम्
न मां प्रार्थयितुं योग्यस्त्वं सिद्धिमिव पापकृत्. ॥१२०॥
इत्युक्त्वा सा ज नकजा राक्षसं रावणं खलम्
स्मृत्वा रामं परावृत्य स्थित्वा भूय उवाच तम्. ॥१२१॥
‘ निशाचर ! य था भार्यास्तवान्येषां तथा ध्रुवम्,
श्रेयस्कामेन तु सदा परिहार्याः परस्त्रियः. ॥१२२॥
नात्र संतो रा त्रिचर ! सतो वा नानुवर्तसे
रक्षसां त्वमभावाय न गृह्णासि सतां वचः. ॥१२३॥
क्षपाचर ! म नुष्येंद्रप्रिया लोभयितुं त्वया
नाहं शक्या, न खद्योतप्राप्या जातु रवेः प्रभा. ॥१२४॥
उपाधार ज नेंद्रस्य तस्य तं सत्कृतं भुजम्
कथं नामोपधास्यामि भुजमन्यस्य कस्यचित् ? ॥१२५॥
मां समान य रामेण साधु रावण ! दुःखिताम्
रामः सखा त्वया कार्यो वधं घोरमनिच्छता. ॥१२६॥
धर्मज्ञोऽसौ ज गत्ख्यातः शरणागतवत्सलः
तेन मैत्री भवतु ते यदि जीवितुमिच्छसि. ॥१२७॥
मां चास्मै प्र य तो भूत्वा निर्यातयितुमर्हसि
अन्यथा त्वं हि कुर्वाणः परां प्राप्स्यसि चापदम्. ॥१२८॥
शराः सुधो रा नामांका रामलक्ष्मणयोः क्षणात्
लंकां शून्यां करिष्यंति ज्वलितास्या इवोरगाः. ॥१२९॥
राक्षसाध म ! चौर्येण शून्यस्थाहं त्वया हृता
तयोस्त्यक्त्वाश्रमं दूरं गतयोर्नरसिंहयोः. ॥१३०॥
उपाघ्राय श्री मतोर्न त्वया गंधलवं तयोः
शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव. ॥१३१॥
असंशयं रा जराजगिरिं वांबुपतेः सभाम्
गतोऽपि त्वं दाशरथेरागस्कृत् न भविष्यसि. ’ ॥१३२॥
तत्सीताया म हच्छ्रुत्वा परुषं वाक्यमीदृशम्
उवाच भूयस्तां राजा रक्षसां दशकंधरः. ॥१३३॥
‘ लोके स्त्रीणां ज नः सर्व इष्टः सांत्वयिता खलु
त्वया तु परिभूतोऽहमसकृत्सांत्वयन्नपि. ॥१३४॥
त्वयि तु न्या य तः प्रपतं मम क्रोधं सुदारुणम्
सीते ! त्वद्विषयः कामो निरुणद्धि हृदुत्थितः. ॥१३५॥
वामः कामो रा जकन्ये ! यस्मिन्नेव निबध्यते
जने तस्मिन्ननुक्रोशः स्नेहश्च खलु जायते. ॥१३६॥
रक्षितब्यौ म या मासौ द्वौ पुरा योऽवधिः कृतः
ततः शयनमारोह मम त्वं वरवर्णिनि ! ॥१३७॥
आभ्यामूर्ध्वं ज नकजे ! भर्तारं मामनिच्छतीम्
त्वां मम प्रातराशाय सूदाश्च्छेत्स्यंति खंडशः. ’ ॥१३८॥
तां सीतां द य या देवगंधर्वतनयास्तदा
नेत्रैराश्वासयामासुस्तर्जितां तेन रक्षसा. ॥१३९॥
आश्वासिता ज नकजा देवीभिरथ तं पुनः
उवाच,‘ क्क गतो रामात्प्रभोरधम ! मोक्ष्यसे ॥१४०॥
वने दृप्तो य था सिंहस्तथा रामो महामहाः
त्वं नीच ! शशवच्छ्रेष्ठं क्षिपन्निह न लज्जसे ॥१४१॥
पापाविचा रा धम ! ते न नेत्रे गलिते कथम् ?
एवं व्याहरतः साध्वीं कथं जिह्वा न शीर्यति ? ॥१४२॥
भस्म त्वां पा म राद्याहं रामासंदेशतस्तथा
तपसः पालनाच्चापि न करोम्यात्मतेजसा. ॥१४३॥
शूरो भ्राता श्री दनाम्नो बलैः समुदितो वरैः
त्वया राममपोह्यैवं दारचौर्यं कुतः कृतम् ? ’ ॥१४४॥
एवमुक्तो रा क्षसेंद्रो भृशं क्रुद्धोऽतिदुर्मतिः
उत्फाल्य नयने क्रूरे जानकीमन्ववेक्षत. ॥१४५॥
‘ एवं पर म धृष्टे ! त्वामर्थहीनमनुव्रते !
नाशयाम्यद्य वैदेहि ! भृशं परुषभाषिणीम्. ॥१४६॥
त्वं भद्रभा ज नं नासि दुर्व्रतं बहु मन्यसे
श्रीमंतं मामनादृत्य गतश्रीकमनुव्रता ॥१४७॥
वदस्यप्रि य मत्यर्थं प्रियवक्तारमीश्वरम्
वध्यासि मम निःशंकं कैव वक्त्तुमिहार्हति ? ’ ॥१४८॥
प्रोवाच धो रा बहुशो राक्षसीर्मांसभोजनाः,
‘ यथा मद्वशगा सीता क्षिप्रं भवति सर्वथा, ॥१४९॥
तथाद्य सा म प्रमुखैरुपायैः कुरुताखिलाः. ’
इत्याज्ञप्ता दशास्येन लोमहर्षणदर्शनाः. ॥१५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP