तृतीयः पादः - सूत्र १३-१४

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


दर्शनाच्चा ॥१३॥

दर्शनाच्च ॥
तयोर्ध्वमायन्नम्रुतत्वमेतीति च गतिपूर्वकममृतत्वं दर्शयति ।
अमृतत्वं च परस्मिन्ब्रम्हाण्युपपद्यते न कार्ये विनाशित्वात्कार्यस्य ।
अथ यत्रान्यत्पश्यति तदल्पं तन्मर्त्यमिति वचनात्परविषयैव चैषा गति: कठवल्लीषु पठयते ।
न हि तत्र विद्यान्तरप्रक्रमोऽस्ति अन्यत्र धर्मादन्यत्राधर्मादिति परस्यैव ब्रम्हाण: प्रक्रान्तत्वात् ॥१३॥

न च कार्ये प्रतिपत्त्यभिसंधि: ॥१४॥

न च कार्ये प्रतिपत्त्यभिसंधि: ॥
अपि च प्रजाशते: सभां वेश्य प्रपद्य इति नायं कार्यविषय: प्रतिपत्त्यभिसंधि: ।
नामरूपयोर्निर्वहिता ते यदन्तरा तब्रम्होति कार्यविलक्षणस्य परस्यैव ब्रम्हाण: प्रकृतत्वात् ।
यशोऽहं भवामि ब्राम्हाणानामिति  च सर्वात्मत्वेनोपक्रमात् ।
न तस्य प्रतिमाऽस्ति यस्य नाम महद्यश इति च परस्यैव ब्रम्हाणोयशोनामत्वप्रतिद्धे ।
सा चेयं वेश्मप्रतिपत्तिर्गतिपूर्विका हार्दविद्यायामुदिता तदपराजिता पूर्ब्रम्हाण: प्रभुविमितं हिरण्ययमित्यत्र ।
पदेरपिच गत्यर्थत्वान्मार्गापेक्षताऽवसीयते ।
तस्मात्परब्रम्हाविषया गतिश्रुतय इति पक्षान्तरम् ।
तावेतौ द्वौ पक्षावाचार्येण सूत्रिता गत्युपपत्त्यादिभ्रेक: ।
मुख्यत्वादिभिरपर: ।
तत्र गत्युपपत्त्यादय: प्रभवन्ति मुख्यत्वादीनाभासयितुं न तु मुख्यत्वादयो गत्युपपत्त्यादीनित्याद्य एव सिद्धान्तो व्याख्यातो द्वितीयस्तु पूर्व: पक्ष: ।
न हयसत्यपि संभवे मुक्यस्यैवार्थस्य ग्रहणमिति कश्चिदाज्ञापयिता विद्यते ।
परविद्याप्रकरणेऽपि च तत्स्तुत्यर्थं विद्यान्तराश्रयगत्यनुकीर्तनमुपपद्यते विष्वङ्ङन्या उत्क्रमण भवन्तीतिवत् ।
प्रजापते: सभां बेश्म प्रपद्य इति तु पूर्ववाक्यविच्छेदेन कार्येऽपि प्रतिपत्त्यभिसन्धिर्न विरुध्यते ।
सगुणेऽपि ब्रम्हाणि च सर्वात्मत्वसंकीर्तनं सर्वकर्मा सर्वकाम इत्यादिवदवकल्पते ।
तस्मादपरविषया एव गतिश्रुतय: ।
केचित्पुन: पूर्वाणि पूवपक्षसूत्राणि भवन्त्युत्तराणि सिद्धान्तसूत्राणीत्येतां व्यवस्थामनुरुध्यमाना: परविशया एव गतिश्रुती: प्रतिष्ठापयन्ति तदनुपपन्नं गन्तव्यत्वानुपपत्तेर्ब्रम्हाण: ।
यत्सर्वगतं सर्वान्तरं सर्वात्मकं च परं ब्रम्हा आकाशवत्सर्वगतश्च नित्य: यत्साक्षादपरोक्षादब्रम्हा य आत्मा सर्वान्तर: आत्मैवेदं सर्वं ब्रम्हौवेदं विश्वमिदं वरिष्ठमित्यादिश्रुतिनिर्धारितविशेषं तस्य गन्तव्यता न कदाचिदप्युपपद्यते ।
न हि गतमेव गम्यते ।
अन्यो हयन्यद्नच्छतीति प्रसिद्धं लोके ।
ननु लोके गतस्यापि गन्तव्यता देशान्तरविशिष्टा द्दष्टा ।
यथा पृथिवीस्थ एव पृथिवीं देशान्तरद्वारेण गच्छतीति ।
तथाऽनन्यत्वेऽपि बालस्य कालान्तरविशिष्टं वार्धक्यं स्वात्मभूतमेव गन्तव्यं द्दष्टं तद्वदब्रम्हाणोऽपि सर्वशक्त्युपेतत्वात्कथंचिद्नन्तव्यता स्यादिति । न  ।
प्रतिषिद्धसर्वविशेषत्वादब्रम्हाण: ।
निष्कलं निष्क्रियं शान्त निरवद्यं निरञ्जनम् ।
अस्थूलमनण्वन्हस्वमदीर्घं सबाहयाभ्यन्तरा हयज: स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रम्हा स एष नेति नेत्यात्मेत्यादिश्रुतिस्मृतिन्यायेभ्यो न देशकालादिविशेषयोग: परमात्मनि कल्पयितुं शक्यते ।
येन भूषदशवयोवस्थान्यायेनास्य गन्तव्यता स्यात् ।
भूवयसोस्तु प्रदेशावस्थादिविशेशयोगादुपपद्यते देशकालविशिष्टा गन्तव्यता ।
जगदुत्पत्तिस्थितिप्रलयहेतुत्वश्रुतेरनेकशक्तित्वं ब्रम्हाण इति चेत् । न ।
विशेषनिराकरणश्रुतीनामनन्यार्थत्वात् ।
उत्पत्त्यादिश्रुतीनामपि समानमनन्यार्थत्वमिति चेत् । न ।
तासामक्रत्वप्रतिपादनपरत्वात् ।
मृदादिद्दष्टान्तौर्हि सतो ब्रम्हाण एकस्य सत्यत्वं विकारस्य चानृतत्वं प्रतिपादयच्छास्त्रं नोत्पत्त्यादिपरं भवितुमर्हति ।
कस्मात्पुनरुत्पत्त्यादिश्रुतीनां विशेषनिराकरणश्रुतिशेषत्वं न पुनरितरशेषत्वमितरासामिति । उच्यते ।
विशेषनिराकरणश्रुतीनां निरकाङ्क्षार्थत्वात् ।
न हयात्मन एकत्वनित्यत्वशुद्धत्वाद्यवगतौ सत्यां भूय: काचिदाकाङ्क्षोपजायते पुरुषार्थसमाप्तिबुद्धयुत्पत्ते: ।
तत्र को मोह: का शोक एकत्वमनुपश्यत: अभयं वै जनक प्राप्तोऽसि विद्वान्न बिभेति कुतश्चन एत ह वाव न तपति किमह साधु नाकरवं किमहं पापमकरवमित्यादिश्रुतिभ्य: ।
तथैव च विदुषां तुष्टयनुभवादिदर्शनात् ।
विकारानृताभिसन्ध्यपवादाच्च मृत्यो: स मृत्युमाप्नोति य इह ननिव पश्यतीति ।
अतो न विशेषनिराकरणश्रुतीनामन्यशेषत्वमवगन्तुं शक्यते ।
नैवमुत्पत्त्यादिश्रुतीनां निराकाङ्क्षार्थप्रतिपादनसामर्थ्यमस्ति ।
प्रत्यक्षं तु तासामन्यार्थत्वं समनुगम्यते ।
तथा हि तत्रैतच्छुङ्गमुत्पतितं सोम्य विजानीहि नेदममूलं भविष्यतीत्युपन्यस्योदर्के सत एवैकस्य जगन्मूलस्य विज्ञेयत्वं दर्शयति ।
यतो वा इमानि भूतानि जापन्ते ।
येन जातानि जीवन्ति ।
यत्प्रयन्त्यभिसंविशन्ति ।
तद्विजिज्ञासस्व ।
तदब्रम्होति च ।
एवमुत्पत्त्यादिश्रुतीनामैकात्म्यावगमपरत्वान्नानेकशक्तियोगो ब्रम्हाण: ।
अतश्च गन्त व्यत्वानुपपत्ति: ।
न तस्य प्राणा उत्क्रामन्ति ब्रम्हौव सन्ब्रम्हाप्येतीति च परस्मिन्ब्रम्हाणि गतिं निवारयति ।
तव्द्याख्यातं स्पष्टो हयेकेषामित्यत्र ।
गतिकल्पनायां च गन्ता जीवो गन्तव्यस्य ब्रम्हाणोऽवयवो विकारोऽन्यो वा तत:
स्यात् ।
अत्यन्ततादात्म्ये गमनानुपपत्ते: ।
यद्येवं तत: किं स्यात् ।
अत उच्यते ।
यद्येकदेशस्तेनैकदेशिनो नित्यप्राप्तत्वान्न पुनर्ब्रम्हागमनमुपपद्यते ।
एकदेशैकदेशिकल्पना च ब्रम्हाण्यनुपपन्ना निरवयवत्वप्रसिद्धे: ।
विकारपक्षेऽप्येतत्तुल्यं विकारेणापि विकारिणो नित्यप्राप्तत्वात् ।
न हि घटो मृदात्मतां परित्यज्यावतिष्ठते परित्यागेऽभावप्राप्ते: ।
विकारावयवपक्षयोश्च तद्वत: स्थिरत्वादब्रम्हाण: संसारगमनमप्यनक्लृप्तम् ।
अथान्य एव जीवो ब्रम्हाण: ।
सोऽभुर्व्यापी मध्यमपरिमाणो वा भवितुमर्हति ।
व्यापित्वे गमनानुपपत्ति: ।
मध्यमपरिमाणत्वे चानित्यत्वप्रसङ्ग: ।
अणुत्वे कृत्स्नशरीरवेदनानुपपत्ति: ।
प्रतिषिद्धे चाणुत्वमध्यमपरिमाणत्वे विस्तरेण षुरस्तात् ।
परस्माच्चान्यत्वे जीवस्य तत्त्वमसीत्यादिशास्त्रबाधप्रसङ्ग: ।
विकारावयवपक्षयोरपि समानोऽयं दोष: ।
विकारावयवयोस्तद्वतोऽनन्यत्वाददोष इति चेत् । न ।
मुख्यैकत्वानुपपत्ते: ।
सर्वेष्वेतेषु पक्षेष्वनिर्मोक्षप्रसङ्ग ।
संयार्यात्मत्वानिवृत्ते: ।
निवृत्तौ वा स्वरूपनाशप्रसङ्ग:।
ब्रम्हात्मत्वानभ्युपगमाच्च ।
यत्तु कैश्चिज्जल्प्यते नित्यानि नैमित्तिकानि कर्माण्यनुष्ठीयन्ते प्रत्यवायानुत्पत्तये काम्यान प्रतिषिद्धानि च परिहियन्ते स्वर्गनरकानवाप्तये सांप्रतदेहोपभोग्यानि च कर्माण्युपभोगेनैव क्षप्यन्त इत्यतो वर्तमानदेहपातादूर्ध्वं देहान्तरप्रतिसंधानकारणाभावात्स्वरूपावस्थानलक्षणं कैवल्यं विनापि ब्रम्हात्मतयैवंतृत्तस्य सेत्यतीति ।
तदसत् ।
प्रमाणाभावात् ।
न हयेतच्छास्त्रेण केनचित्प्रतिपादितं मोक्षार्थीत्थं समाचरेचिति ।
स्वमनीषया त्वेतत्तावतं यस्मात्मर्मनिमित्त: संसारस्तस्मान्निमित्ताभावान्न भविष्यतीत ।
न चैतत्तर्कयितुमपि शक्यते निमित्ताभावस्य दुर्ज्ञानत्वात् ।
बहूनि हि क्रर्माणि जात्यन्तरसंचितानीष्टानिष्टविपाकान्येकैक्रस्य जन्ता: संभाव्यन्त ।
तेषां विरुद्वफलानां युगपदुपभोगासंभवात्कानिचिल्लब्धावसराणीदं जन्म निर्मिमते कानिचित्तु देशकालनिमित्तप्रतीक्षाण्यासत श्त्यतस्तेषामवशिष्टानां सांप्रतेनोपभोगंन क्षपणासंभावान्न यथावर्णितचरितस्यापि वर्तमानदेहपाते देहान्तरनिमित्ताभाव: शक्यते निश्चेतुम् ।
कर्मशेषसद्भावसिद्धिश्च तद्य इह रमणीयचरणास्तत: शेषेणेत्यादिश्रुतिस्मृतिभ्य: ।
स्यादेतत् ।
नित्यनैमित्तिकानि तेषां क्षेपकाणि भविष्यन्तीति ।
तन्न विरोधाभावात् ।
सति हि विरोधे क्षेप्यक्षेपकभावा भवति ।
न च जन्मान्तरसंचितानां सुकृतानां नित्यनैमित्तिकैरस्ति विरोध: ।
शुद्धिरूपत्वाविशेषात् ।
दुरितानां त्वशुद्धिरूपत्वात्सति हि विरोधे भवतु क्षेपणं न तु तावता देहान्तरनिमित्ताभावसिद्धि: ।
सुकृतनिमितत्वोपपत्ते: ।
दुश्चरितस्याप्यशेषक्षपणानवगमात् ।
न च नित्यनैमित्तिकानुष्ठानात्प्रत्यवायानुत्पत्तिमात्रं न पुन: फलान्तरोत्पत्तिरिति प्रमाणमस्ति फलान्तरस्याप्यनुनिष्पादिन: संभवात् ।
स्मरति हयापस्त्तम्बस्तयथा आम्रे फलार्थे निमिते छायागन्धावनूत्पद्येते एवं धर्मं चाचर्यमाणमर्था अभूत्पद्यन्त इति ।
न चासति सम्यग्दर्शने सर्वात्मना काम्यप्रतिषिद्धावर्जन जन्मप्रायणान्तराल केनचित्प्रतिज्ञातुं शक्यम् ।
सुनिपुणानामपि सूक्ष्मापराधर्शनात् ।
संशयितव्यं तु भवति तथापि विमित्ताभावस्य दुर्ज्ञानत्वमेव ।
न चानभ्युपगम्यमाने ज्ञानगम्ये ब्रम्हात्मत्वे कर्तृत्वभोक्तृत्वस्वभावस्यात्मन: कैवल्यमाकाङ्क्षयितुं शक्यम् ।
अग्न्यौष्ण्यवत्स्वभावस्यापरिहार्यत्वात् ।
स्यादेतत् ।
कर्तृत्वभाक्तृत्वकार्यमनर्थो न तच्छक्तिस्तेन शक्त्यवस्थानेऽपि कार्यपरिहारादुपपन्नो मोक्ष इति ।
तच्च न ।
शक्तिसद्भावे कार्यप्रसवस्य दुर्निवारत्वात् ।
अथापि स्यान्न केवला शक्ति: कार्यमारभतेऽनपेक्ष्यान्यानि निमित्तानि ।
अत एकाकिनी सा स्थितापि नापराध्यतीति ।
तच्च न ।
निमित्तामामपि शक्तिलक्षणेन संबन्धेन नित्यसंबद्धत्वात् ।
तस्मात्कर्तृत्वभोक्तृत्वस्वभावे सत्यात्मन्यसत्यां विद्यागम्यायां ब्रम्हात्मतायां न कथंचन मोक्षं प्रत्याशाऽअस्त ।
श्रुतिश्च नान्य: पन्था विद्यतेऽयनायेति ज्ञानादन्यं मोक्षमार्गां वारयति ।
परस्मादनन्यत्वेऽपि जीवस्य सर्वव्यवहारलोपप्रसङ्गा ।
प्रत्यक्षादिप्रमाणाप्रवृतिरिति चेत्‌ ।
न ।
प्राकप्रबोधात्स्वप्नव्यवहारवत्तदुपपत्ते: ।
शास्त्रं च यत्र हि द्वैतमिव भवति तदितर इतरं पश्यतीत्यादिनाऽप्रबुद्धविषये प्रत्यक्षादिब्यवहारमुक्त्वा पुन: प्रबुद्ध विषये यत्रत्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदित्यादिना तदभावं दर्शयति ।
तदेवं परब्रम्हाविदो गन्तव्यादिविज्ञानस्य बाधितत्वान्न कथंचन गतिरुपपादयितुं शक्या ।
किंविषया: पुनर्गतिश्रुतय इति । उच्यते ।
सगुणविद्याविषया भवष्यन्ति ।
तथा हि क्वचित्पञ्चाग्निविद्यां प्रकृत्य गतिरुच्यते क्वचित्पर्यङ्कविद्यां क्वचिद्वैश्वानरविद्याम् ।
यत्रापि ब्रम्हा प्रकृत्य गतिरुच्यते यथा प्राणो ब्रम्हा कं ब्रम्हा खं ब्रम्होति अथ यदिदमस्मिन्ब्रम्हापुरे दहरं पुण्डरीक वेश्मेति तत्रापि च वामनीत्वादिभि: सत्यकामादिभिश्च गुणै: सगुणस्यैवोपास्यत्वात्संभवति गति: ।
न क्वचित्परब्रम्हाविषया गति: श्राव्यते ।
तद्यथा गतिप्रतिषेध: श्राव्यते न तस्य प्राणा उत्क्रामन्तिति ।
ब्रम्हाविदाप्नोति परमित्यादिषु त सत्यप्याप्नोतेर्गत्यर्थत्वे वर्णितेन न्यायेन देशान्तरप्राप्त्यसंभवात्स्वरूपप्रत्तिपतिरेवेयमविद्याध्यारोपितनामरूपप्रविलयापेक्षयाऽभिधीयते ।
ब्रम्हौव सन्ब्रम्हाप्येतीत्यादि च द्रष्टव्यम् ।
अपि च परविषया गतिर्व्याख्यायमाना प्ररोचनाय वा स्यादनुचिन्तनाय वा ।
तत्र प्ररोचनं तावदब्रम्हाविदोन गत्युक्त्या क्रियते ।
स्वसंवद्येनेवौव्यवहितने विद्यासमर्पितेन स्वास्थ्येन तत्सिद्धे: ।
न च नित्यसिद्धनि: श्रेयसनिवेदनस्यासाध्यफलस्य विज्ञानस्य गत्यनुचिन्तने काचिदपेक्षोपपद्यते ।
तस्मादपरविषयैव गति: ।
तत्र परापरब्रम्हाविवेकानवधारणेनापरस्मिन्ब्रम्हाणि प्रवर्तमाना गतिश्रुतय: परस्मिन्नध्यारोप्यन्ते ।
किं द्वे ब्रम्हाणी परमपरं चेति ।
बाढं एतद्वै सत्यकाम परं चापरं च ब्रम्हा यदोंकार इत्यादिर्शनात् ।
किं पुन: परं ब्रम्हा किमपरमिति । उच्यते ।
यत्राविद्याकृतनामरूपादिविशेषप्रतिषेधादस्थूलादिशब्दैर्ब्रम्हा व्यपदिश्यते तत्परम् ।
तदेव यत्र नामरूपादिविशेषेण केनचिद्विशिष्टमुपासनायोपदिश्यते मनोमय: प्राणशरीरो भारूप इत्यादिशब्दैस्तदपरम् ।
नन्वेवमद्वितीय श्रुतिरुपरुध्येत । न ।
अविद्याकृतनामरूपोपाधिकतया परिह्रतत्वात् ।
तस्य चापरब्रम्होपासनस्य तत्संनिदौ श्रूयमाणं स यदि पितृलोकक्रामो भवतीत्यादिजगदैश्वर्यलक्षणं संसारगोचरमेव फलं भवति ।
अनिवर्तितरवादविद्याया: ।
तस्य च देशविशेषावबद्धत्वात्तत्प्राप्त्यर्थं गमनमविरुद्धम् ।
सर्वगतत्वेऽपि चात्मन आकाशस्येव घटादिगमने बुद्धयाद्युपाधिगमने गमनप्रसिद्धिरित्यवादिष्म तद्रुणसारत्वादित्यत्र ।
तस्मात्कार्यं बादरीत्येष एव पक्ष: स्थित: ।
परं जैमिनिरिति तु पक्षान्तरप्रतिपादनमात्रप्रदर्शनं प्रज्ञाविकाशनायेति द्रष्टव्यम् ॥१४॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP