संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|चतुर्थोध्यायः|तृतीयः पादः| सूत्र ५ तृतीयः पादः सूत्र १ सूत्र २ सूत्र ३-४ सूत्र ५ सूत्र ६-८ सूत्र ९-१२ सूत्र १३-१४ सूत्र १५ सूत्र १६ तृतीयः पादः - सूत्र ५ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ५ Translation - भाषांतर उभयव्यामोहात्तत्सिद्धे: ॥५॥ननु लिङ्गमात्रमगमकं न्यायाभावात् ।नैष दोष: ॥उभयव्यामोहात्तत्सिद्धे: ॥ ये तावदर्चिरादिमार्गास्ते देहवियोगात्संपिण्डितकरणग्रामा इत्यस्वतन्त्रा अर्चिरादीनामप्यचेतनत्वादस्वातन्त्र्यमित्यतोऽर्चिराद्यभिमानिनश्चेतना देवताविशेषा अतियात्रायां नियुक्ता इति गम्यते ।लोकेऽपि हि मत्तमूर्च्छितादय: संपिण्डितकरणग्नामा: परप्रयुक्तवर्त्मानो भवन्ति ।अनवस्थितत्वादप्यर्चिरादीनां न मार्गलक्षणत्वोपपत्ति: ।न हि रात्रौ प्रेतस्याह: स्वरूपाभिसंभव उपपद्यते ।न च प्रतिपालनमस्तीत्युक्तं पुरस्तात् ।ध्रुवत्वात्तु देवतात्मनां नायं दोषो भवति ।अर्चिरादिशब्दता चैषामर्चिराद्यभिमानादुपपद्यते ।अर्चिषोऽहरित्यादिनिर्देशस्त्वातिवाहिकत्वेऽपि न विरुध्यते ।अर्चिषा हेतुनाऽहरभिसंबवन्ति ।अन्हा हेतुनाऽऽपूर्यमाणपक्शमिति ।तथा च लोकप्रसिद्धेष्वष्यातिवाहिकेष्वेवंजातीयक उपदेशो द्दश्यते ।गच्छ त्वमितो बलवर्मामं ततो जयसिहं तत; कृष्णगुप्तमिति ।अपि चोपक्रमे तेऽर्चिषमभिसंभवन्तीति संबन्धमात्रमुक्तं न संबन्धविशेष: कश्चित् ।उपसंहारे तु स एतान्ब्रम्हा गमयतीति संबन्धविशेषोऽतिवाहयातिवाहकत्वलक्षण उक्तस्तेन स एवोपक्रमेऽपीति निर्धार्यते ।मंपिण्डितकरणग्रामत्वादेव च गन्तृणां न तत्र भोगसंभव: ।लोकशाब्दस्त्वनुपभुञ्जानेष्वपि गन्तृषु गमयितुं शक्यते ।अन्येषां तल्लोकवासिनां भोगभूमित्वात् ।अतोऽग्निस्वामिकं लोकं प्राप्तोऽग्निनाऽतिवाहयते वायुस्वामिकं प्राप्तो वायनति योजयितव्यम् ॥५॥ N/A References : N/A Last Updated : December 22, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP