मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे|
कृतादिषु प्रजा राजन् कलाव...

रामायणम् - कृतादिषु प्रजा राजन् कलाव...

श्री राम हा विष्णूचा सातवा अवतार आहे.


कृतादिषु प्रजा राजन् कलाविच्छन्ति संभवम्। कलौ खलु भविष्यन्ति नारायणपरायणाः ॥
न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया । कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥
वैकुण्ठौकः पुरा भूमौ योऽयोध्यायामवातरत् । कौसल्यायाः स्तनं पातुं मातर्भूतं स एव मे ॥१॥
कौशिकस्याश्रमं यास्यन् यो दृष्ट्वा पथि दारुणाम् । ताटकां निजघानाशु मातर्भूतं स एव मे ॥२॥
यस्य पादाब्जसंस्पर्शाद् गच्छतो विपिनाध्वना । शिलाऽमलाऽभूल्ललना मातर्भूतं स एव मे ॥३॥
जनकस्य पुरं गत्वा यो बभञ्जैश्वरं धनुः । उपयेमे च वदेहीं मातर्भूतं स एव मे ॥४॥
सन्त्रस्तो भार्गवो यस्माद्धनुर्यस्मै समर्पयत् । यस्मिन् न्यधात् स्वकं तेजो मातर्भूतं स एव मे ॥५॥
कृतप्रतिश्रवाद्भ्रश्येत् कैकेय्यै न पिता मम । इति योऽभूदरण्यौकः मातर्भूतं स एव मे ॥६॥
चतुर्दशसमा भ्राम्यंस्तपस्वी यो वने स्थितः । लक्ष्मणेनान्वितः नित्यं मातर्भूतं स एव मे ॥७॥
सुग्रीवो रक्षितो येन वाली स्वर्गातिथिः कृतः । बबन्धे सेतुना सिन्धुः मातर्भूतं स एव मे ॥८॥
रावणं सकुलं हत्वा योऽभ्यरक्षद्विभीषणम् । अमूमुचत् सुरान् बन्धात् मातर्भूतं स एव मे ॥९॥
आदाय यश्च वामाङ्गीं च्चाल सरयूतटम् । सङ्गतो भरतेनाभून्मातर्भूतं स एव मे ॥१०॥
हृदयं सर्वभूतानां रामराज इति श्रूतः । श्लाघ्यते रमदासेन मातर्भूतं स एव मे ॥११॥
॥ॐ तत्सत्॥

N/A

References : N/A
Last Updated : July 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP