मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे|
अगण्यगुणमाद्यमव्ययमप्रमेय...

श्रीरामस्तुतिः - अगण्यगुणमाद्यमव्ययमप्रमेय...

श्री राम हा विष्णूचा सातवा अवतार आहे.


अगण्यगुणमाद्यमव्ययमप्रमेय-मखिलजगत्सृष्टिस्थितिसंहारमूलम् ।
परमं परापरमानन्दं परात्मानं वरदमहं प्रणतोऽस्मि सन्ततं रामम् ॥१॥
महितकटाक्षविक्षेपितामरशुचं रहितावधिसुखमिन्दिरामनोहरम् ।
श्यामलं जटामकुटोज्ज्वलं चापशर-कोमलकरांबुजं प्रणतोऽस्म्यहं रामम् ॥२॥
भुवनकमनीयरूपमीडितं शत-रविभासुरमभीष्टप्रदं शरणदम् ।
सुरपादमूलरचितनिलयं सुरसञ्चयसेव्यं प्रणतोऽस्म्यहं रामम् ॥३॥
भवकाननदवदहननामधेयं भवपङ्कजभवमुखदैवतं देवम् ।
दनुजपतिकोटिसहस्रविनाशं मनुजाकारं हरिं प्रणतोऽस्म्यहं रामम् ॥४॥
भवभावनाहरं भगवत्स्वरूपिणं भवभीविरहितं मुनिसेवितं परम् ।
भवसागरतरणांघ्रिपोतकं नित्यं भवनाशायानिशं प्रणतोऽस्म्यहं रामम् ॥५॥
गिरिशगिरिसुताहृदयांबुजावासं  गिरिनायकधरं गिरिपक्षारिसेव्यम् ।
सुरसञ्चयदनुजेन्द्रसेवितपादं सुरपमणिनिभं प्रणतोऽस्म्यहं रामम् ॥६॥
परदारार्थपरिवर्जितमनीषिणां परपूरुषगुणभूतिसन्तुष्टात्मनाम् ।
परलोकैकहितनिरतात्मनां सेव्यं परमानन्दमयं प्रणतोऽस्म्यहं रामम् ॥७॥
स्मितसुन्दरविकसितवक्त्रांभोरुहं स्मृतिगोचरमसितांबुदकलेबरम् ।
सितपङ्कजचारुनयनं रघुवरं क्षितिनन्दिनीवरं प्रणतोऽस्म्यहं रामम् ॥८॥
जलपात्रौघस्थितरविमण्डलसमं सकलचराचरजीवान्तःस्थितम् ।
परिपूर्णात्मानमद्वयमव्ययमेकं परमं परापरं प्रणतोऽस्म्यहं रामम् ॥९॥
विधिमाधवशम्भुरूपभेदेन गुण-त्रितयविराजितं केवलं विराजन्तम् ।
त्रिदशमुनिजनस्तुतमव्यक्तमजं क्षितिजामनोहरं प्रणतोऽस्म्यहं रामम् ॥१०॥
मन्मथशतकोटिसुन्दरकलेवरं जन्मनाशादिहीनं चिन्मयं जगन्मयम् ।
निर्मलं जन्मकर्माधारमप्यनाधारं निर्मममात्मारामं प्रणतोऽस्म्यहं रामम् ॥११॥

N/A

References : N/A
Last Updated : July 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP