मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे| श्रीमत्सुधीन्द्रकरकमलसंजा... राम स्तोत्रे अहल्योवाचः । अहो कृतार्था... श्री गणेशाय नमः । आसीद्धर... श्रीमहादेव उवाचः । नमोऽस्... अयोध्यापुरनेतारं मिथिलापु... रामं विश्वमयं वन्दे रामं ... यो नित्यमच्युतपदाम्बुजयुग... जयत्याश्रित संत्रास ध्वान... आसीद्धराधामललामरूपो नासीद... श्रीपूर्णबोधगुरुतीर्थपयोब... श्रीमत्सुधीन्द्रकरकमलसंजा... श्रीनाथे जानकीनाथे अभेदः ... इदं पवित्रं परमं भक्तानां... मङ्गलं कौशलेन्द्राय महनीय... श्री शतकोटि रामचरितांतर्ग... तरणिकुलजलतरणे तरुणतरणितेज... ब्रह्मोवाचः । वन्दे देवं ... अगण्यगुणमाद्यमव्ययमप्रमेय... नमोऽस्तु रामाय सशक्तिकाय ... कृतादिषु प्रजा राजन् कलाव... पूज्याय राघवेंद्राय सत्यध... अयोध्यापुर-नेतारं मिथिलाप... कमल लोचनौ राम कांचनाम्बरौ... श्रीरामस्तोत्रम् धर्मस्य हानिमभितः परिदृश्... राम एव परंब्रह्म राम एव प... श्रीमद्वेदान्तदेशिककृतं म... विशुद्धं परं सच्चिदानन्दर... नमामि भक्तवत्सलं कृपालुशी... ध्यायेदाजानुबाहुं धृतशरधन... राघवयादवीयम् अक्षररामायणम् श्रीगणेशाय नम: ॥ अस्य श्र... श्री राम स्तोत्रे प्रस्तावना कल्याणानां निधानं कलिमलमथ... ततो रामः स्वयं प्राह हनूम... अस्य श्रीरामचंद्रस्तवराजस... ततो जगन्मंगलमङ्गलात्मना व... अस्य श्रीरामरक्षास्तोत्रम... वन्दे देवं विष्णुमशेषस्थि... अगणितगुणमप्रमेयमाद्यं सकल... भजे विशेषसुन्दरं समस्तपाप... कृतार्तदेववंदनं दिनेशवंशन... नमोऽस्तु रामाय सशक्तिकाय ... अहो कृतार्थाऽस्मि जगन्निव... भजेऽहं सदा राममिंदीवराभं ... चिदाकारो धाता परमसुखदः पा... ह्ममहेन्द्रसुरेन्द्रमरुद्... विशुद्धं परं सच्चिदानन्दर... १. श्रीमद्रामपदारविन्दमध... श्री रामः श्रीकरः श्रीदः ... ॥ बालकाण्डः ॥ शुद्धब्... श्रीरामचन्द्र कृपालु भजु ... कमल लोचनौ राम कांचनाम्बरौ... राजीवलोचनः श्रीमान् श्रीर... श्रीराघवं दशरथात्मजमप्रमे... श्रीरामचारित्रमञ्जरी - श्रीमत्सुधीन्द्रकरकमलसंजा... श्री राम हा विष्णूचा सातवा अवतार आहे. Tags : godgoddessprayerramstotraदेवतादेवीरामस्तोत्र श्रीरामचारित्रमञ्जरी Translation - भाषांतर श्रीमत्सुधीन्द्रकरकमलसंजात -श्रीमद्राघवेन्द्रयतिकृताश्रीमान् विष्णुः प्रजातो दशरथनृपते रामनाथोऽथ नीतो विश्वामित्रेण मन्त्राहृदनुजसहितस्ताटकघातुकोऽस्त्रम् ।ब्राह्माद्यं प्राप्य हत्वा निशिचरनिकरं यज्ञपालो विमोच्या-हल्यां शापाच्च भङ्क्त्वा शिवधनुरुपयन् जानकीं नः प्रसीदेत् ॥१॥आयन् रामः सभार्योध्वनि निजसहजैर्भार्गवेष्वासरोषा-द्धत्वा सुरारिं पुरग उत नुतस्तापसैर्भूपपृष्ठैः ।कल्याणानन्तधर्मोऽगुणलवरहितः प्राणिनामन्तरात्मे-त्याद्युक्तश्चाभिषेके पुरजनमहितो मह्यतां मे वचोभिः ॥२॥कैकेयीप्रीतिहेतोः स सहजनृपजोवल्कली यानरण्यं गङ्गातारी गुहार्च्यः कृतरुचिरजटो गीष्पतेः पुत्रमान्यः ।तीर्त्वा कृष्णां प्रयातोऽवतु निजममलं चित्रकूटं प्रपन्नं स्वाम्बाभिर्भ्रातरं तं श्रुतजनकगतिः सान्त्वयन् न्युप्ततीर्थः ॥३॥दत्वाऽस्मै पादुके स्वे क्षितिभरणकृतौ प्रेष्य तं काकनेत्रं व्यस्याराज्योऽत्रिनाम्नो वनमथ समितो दण्डकं तापसेष्टम् ।कुर्वन् हत्वा विराधं खलकुलदमनं याचितस्तपसाग्र्यै-स्तेषां दत्त्वाऽभयं स्वानसिधनुरिषुधीन् यानगस्त्त्यात् स पायात् ॥४॥आसीनः पञ्चवट्यामकुरुत विकृतां राक्षसीं यो द्विसप्त-क्रव्यादानप्यनेकानथ खरमवधीद् दूषणं च त्रिशीर्षम् ।मारीचं मार्गरूपं दशवदनहृतामाकृतिं भूमिजां यां अन्विष्यन्नार्तगृध्रं स्वगतिमथ नयन् मामवेत् घ्नन् कबन्धम् ॥५॥पम्पातीरं स गच्छन्निह कृतवसतिर्भक्तितुष्टः शबर्यै दत्वा मुक्तिं प्रकुर्वन् हनुमत उदितं प्राप्तसुग्रीवसख्यः ।सप्त च्छित्वा सालान् विधिवरबलिनो वालिभित्सूर्यसूनुं कुर्वाणो राज्यपालं समवतु निवसन् माल्यवत्कन्दरेसौ ॥६॥नीत्वा मासान् कपीशानिह दश हरितः प्रेष्य सीतां विचित्या-यातश्रीमद्धनूमद्गिरमथ समनुश्रुत्य गच्छन् कपीन्द्रैः ।सुग्रीवाद्यैरसंख्यैर्दशमुखसहजं मानयन्नब्धिवाचा दैत्यघ्नः सेतुकारी रिपुपुररुदवेद्वानैर्वैरिघाती ॥७॥भग्नं कृत्वा दशास्यं गुरुतरवपुषं कुम्भकर्णं निहत्य प्रध्वस्ताशेषनागं पदकमलनतं तार्क्ष्यमानन्द्य रामः ।सर्वानुज्जीवयन्तं गिरिधरमनघश्चाञ्जनेयं कपीन् स्वान् विज्ञानास्त्रेण रक्षन् समवतु दमयंल्लक्ष्मणाच्छक्रशत्रुम् ॥८॥क्रव्यादान् घ्नन्न्संख्यानपि दशवदनं ब्रह्मपूर्वैः सुरेशैः पुष्पैराकीर्यमाणो हुतवहविमलमाप्य सीतां विधाय ।रक्षोनाथं स्वभक्तं स्वपुरमथ गतः पुष्पकस्थः समस्तैः साम्रज्ये चाभिषिक्तो निजजनमखिलं मानयन् मे गतिः स्यात् ॥९॥रक्षन् क्षोणीं समृद्धां नुत उत मुनिभिर्मानयन् वायुसूनुं प्रेष्यादित्यात्मजादीन् व्यतनुत भरतं यौवराज्येऽनुमान्य ।कार्ये सौमित्रिमार्तश्वगदितकृदरिघ्नोऽथ शत्रुघ्नो यो हत्वाऽसौ दुष्टशूद्रं द्विजसुतगुबवेत् कुंभजान्मालभारी ॥१०॥यज्ञं तन्वन् त्रिकोटीर्व्यतुदत भरताद्यैः सुरानीशवाक्या-द्यास्यन् धामात्रिपुरं भुजिमथ स नयन्नात्मसून् स्वराज्ये ।कॄत्वा श्रीह्रीहनूमद् धृतविमलचलच्चामरच्छत्रशोभी ब्रह्माद्यैः स्तूयमानो निजपुरविलसत्पादपद्मोऽवतान्माम् ॥११॥इति श्रीरामचरित्रमञ्जरी लेशतः कृता । राघ्वेन्द्रेण यतिना भूयाद्रामप्रसाददा ॥१२॥ ॥इति श्रीमत्सुधीन्द्रकरकमलसञ्जात राघवेन्द्रयतिकृता श्रीरामचारित्रमञ्जरी संपूर्णा ॥ N/A References : N/A Last Updated : July 20, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP