मराठी मुख्य सूची|स्तोत्रे|दशमहाविद्या स्तोत्र| ॐ हृन्मध्यनिलये देवि ललित... दशमहाविद्या स्तोत्र ॐ नम आद्यायै । शृणु वत्स ... भवानि स्तोतुं त्वां प्रभव... ओंकाररूपिणी देवि विशुद्धस... ॐ श्रीगुरवे नमः । ॐ नमः प... ॥श्रीः॥ कल्याणवृष्टिभिरिव... श्री गणेशाय नमः । महाकाल ... श्रीमत्सुन्दरपूर्विहाररसि... श्रीगणेशाय नमः । श्रीपार्... श्रीगणेशाय नमः । श्रीभैरव... आनन्दभैरवी उवाच अथ वक्ष्य... श्रीगणेशाय नमः । मातर्नील... कञ्जमनोहर पादचलन्मणि नूपु... श्रीसेव्य-पादकमले श्रित-च... ॐ नमस्ते चण्डिके चण्डि चण... घोररूपे महारावे सर्वशत्रु... चलत्कनककुण्डलोल्लसितचारुग... प्रातः स्मरामि भुवना-सुवि... ॐ श्री ललिता महात्रिपुरसु... ह्रींकाराङ्कणदीपिकां श्रि... ॐ ह्रीं श्रीं क्लीं सर्वप... श्रीमत् कमलापुर कनकधराधरव... त्यागराजविरचितः या त्रैलो... कल्याणायुतपूर्णचन्द्रवदना... ॐ हृन्मध्यनिलये देवि ललित... ककाररूपा कल्याणी कल्याणगु... ॐ ऐं ह्रीं श्रीं ॐ ककाररू... प्रातः स्मरामि ललितावदनार... ॥श्री ललितास्तवरत्न पाराय... श्रीललिताम्बिकायै नमः । द... ॥ध्यानम् ॥ माणिक्यवीणामु... ओङ्कारपंजरशुकीमुपनिषदुद्य... श्रीगौडपादाचार्यकृतं ॥ अथ... या माता सदसद्विलक्षणपरासं... सौन्दर्यलहरी श्री ललिता चतुःषष्ट्युपचारसङ्ग्रहः - ॐ हृन्मध्यनिलये देवि ललित... सती पार्वतीची दहा रूपे - काली, तारा, छिन्नमस्ता, भुवनेश्वरी, बगलामुखी, धूमावती, त्रिपुर सुंदरी, मातंगी, षोड़शी आणि भैरवी. Tags : dashamahavidyagodgoddessprayerstotraदशमहाविद्यादेवतादेवी श्री ललिता चतुःषष्ट्युपचारसङ्ग्रहः Translation - भाषांतर ॐ हृन्मध्यनिलये देवि ललिते परदेवते ।चतुष्षष्ट्युपचारांस्ते भक्त्या मातः समर्पये ॥१॥कामेशोत्सङ्गनिलये पाद्यं गृह्णीष्व सादरम् ।भूषणानि समुत्तार्य गन्धतैलं च तेऽर्पये ॥२॥स्नानशालां प्रविश्याऽथ तत्रस्थ मणिपीठके ।उपविश्य सुखेन त्वं देहोद्वर्तनमाचर ॥३॥उष्णोदकेन ललिते स्नापयाम्यथ भक्तितः ।अभिषिञ्चामि पश्चात्त्वां सौवर्णकलशोदकैः ॥४॥धौतवस्त्रप्रोच्छनं चारक्तक्षौमाम्बरं तथा ।कुचोत्तरीयमरुणमर्पयामि महेश्वरि ॥५॥ततः प्रविश्य चालेपमण्टपं परमेश्वरि ।उपविश्य च सौवर्णपीठे गन्धान्विलेपय ॥६॥कालगरुजधूपैश्च धूपये केशपाशकम् ।अर्पयामि च माल्यादि सर्वर्तुकुसुमस्रजः ॥७॥भूषामण्टपमाविश्य स्थित्वा सौवर्णपीठके ।माणिक्यमुकुटं मूर्ध्नि दयया स्थापयाम्बिके ॥८॥शरत्पार्वणचन्द्रस्य शकलं तत्र शोभताम् ।सिन्दूरेण च सीमन्तमलङ्कुरु दयानिधे ॥९॥भाले च तिलकं न्यस्य नेत्रयोरञ्जनं शिवे ।वालीयुगळमप्यम्ब भक्त्या ते विनिवेदये ॥१०॥मणिकुण्डलमप्यम्ब नासाभरणमेव च ।ताटङ्कयुगळं देवि यावकञ्चाधरेऽर्पये ॥११॥आद्यभूषणसौवर्णचिन्ताकपदकानि च ।महापदकमुक्तावल्येकावल्यादिभूषणम् ॥१२॥छन्नवीरं गृहाणाम्ब केयूरयुगलं तथा ।वलयावलिमङ्गुल्याभरणं ललिताम्बिके ॥१३॥ओड्याणमथ कट्यन्ते कटिसूत्रञ्च सुन्दरि ।सौभाग्याभरणं पादकटकं नूपुरद्वयम् ॥१४॥अर्पयामि जगन्मातः पादयोश्चाङ्गुलीयकम् ।पाशं वामोर्ध्वहस्ते ते दक्षहस्ते तथाङ्कुशम् ॥१५॥अन्यस्मिन्वामहस्ते च तथा पुण्ड्रेक्षुचापकम् ।पुष्पबाणांश्च दक्षाधः पाणौ धारय सुन्दरि ॥१६॥अर्पयामि च माणिक्यपादुके पादयोः शिवे ।आरोहावृतिदेवीभिः चक्रं परशिवे मुदा ॥१७॥समानवेषभूषाभिः साकं त्रिपुरसुन्दरि ।तत्र कामेशवामाङ्कपर्यङ्कोपनिवेशिनीम् ॥१८॥अमृतासवपानेन मुदितां त्वां सदा भजे ।शुद्धेन गाङ्गतोयेन पुनराचमनं कुरु ॥१९॥कर्पूरवीटिकामास्ये ततोऽम्ब विनिवेशय ।आनन्दोल्लासहासेन विलसन्मुखपङ्कजाम् ॥२०॥भक्तिमत्कल्पलितिकां कृतीस्यां त्वां स्मरन् कदा ।मङ्गलारार्तिकं छत्रं चामरं दर्पणं तथा ।ताळवृन्तं गन्धपुष्पधूपदीपांश्च तेऽर्पये ॥२१॥श्रीकामेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतम्दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदैर्युतम् ।दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रार्पितम्माषापूपकपूरिकादिसहितं नैवेद्यमम्बाऽर्पये ॥२२॥साग्रविंशतिपद्योक्तचतुष्षष्ट्युपचारतः ।हृन्मध्यनिलया माता ललिता परितुष्यतु ॥२३॥श्रीमुखाख्यस्य वर्षस्य तुलायां शुक्लपक्षके ।चतुर्थ्यामपराह्णे च ललितार्पितमानसः ॥२४॥साग्रविंशतिपद्यैस्तु चतुष्षष्ट्युपचारकान् ।समग्रहीत्पराम्बायाः प्रीत्यै नारायणो मुदा ॥२५॥नारायणः श्रीपुरुषोत्तमात्मजोऽलिखन्महीषूरपुरे वसन्कृती ।देवीसपर्यामखिलाभिलाषदां कामेशवामाङ्कगता प्रसीदतु ॥॥इति शिवम् ॥ N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP