मराठी मुख्य सूची|स्तोत्रे|दशमहाविद्या स्तोत्र| चलत्कनककुण्डलोल्लसितचारुग... दशमहाविद्या स्तोत्र ॐ नम आद्यायै । शृणु वत्स ... भवानि स्तोतुं त्वां प्रभव... ओंकाररूपिणी देवि विशुद्धस... ॐ श्रीगुरवे नमः । ॐ नमः प... ॥श्रीः॥ कल्याणवृष्टिभिरिव... श्री गणेशाय नमः । महाकाल ... श्रीमत्सुन्दरपूर्विहाररसि... श्रीगणेशाय नमः । श्रीपार्... श्रीगणेशाय नमः । श्रीभैरव... आनन्दभैरवी उवाच अथ वक्ष्य... श्रीगणेशाय नमः । मातर्नील... कञ्जमनोहर पादचलन्मणि नूपु... श्रीसेव्य-पादकमले श्रित-च... ॐ नमस्ते चण्डिके चण्डि चण... घोररूपे महारावे सर्वशत्रु... चलत्कनककुण्डलोल्लसितचारुग... प्रातः स्मरामि भुवना-सुवि... ॐ श्री ललिता महात्रिपुरसु... ह्रींकाराङ्कणदीपिकां श्रि... ॐ ह्रीं श्रीं क्लीं सर्वप... श्रीमत् कमलापुर कनकधराधरव... त्यागराजविरचितः या त्रैलो... कल्याणायुतपूर्णचन्द्रवदना... ॐ हृन्मध्यनिलये देवि ललित... ककाररूपा कल्याणी कल्याणगु... ॐ ऐं ह्रीं श्रीं ॐ ककाररू... प्रातः स्मरामि ललितावदनार... ॥श्री ललितास्तवरत्न पाराय... श्रीललिताम्बिकायै नमः । द... ॥ध्यानम् ॥ माणिक्यवीणामु... ओङ्कारपंजरशुकीमुपनिषदुद्य... श्रीगौडपादाचार्यकृतं ॥ अथ... या माता सदसद्विलक्षणपरासं... सौन्दर्यलहरी श्रीबगलामुखी स्तोत्रम् - चलत्कनककुण्डलोल्लसितचारुग... सती पार्वतीची दहा रूपे - काली, तारा, छिन्नमस्ता, भुवनेश्वरी, बगलामुखी, धूमावती, त्रिपुर सुंदरी, मातंगी, षोड़शी आणि भैरवी. Tags : dashamahavidyagodgoddessprayerstotraदशमहाविद्यादेवतादेवी श्रीबगला(वल्गा) मुखीस्तोत्रम् Translation - भाषांतर चलत्कनककुण्डलोल्लसितचारुगण्डस्थलींलसत्कनकचम्पकद्युतिमदिन्दुबिम्बाननाम् ।गदाहतविपक्षकां कलितलोलजिह्वाञ्चलांस्मरामि बगलामुखीं विमुखवाङ्मनस्स्तम्भिनीम् ॥१॥पीयूषोदधिमध्यचारुविलद्रक्तोत्पले मण्डपेसत्सिंहासनमौलिपातितरिपुं प्रेतासनाध्यासिनीम् ।स्वर्णाभां करपीडितारिरसनां भ्राम्यद्गदां विभ्रतीमित्थंध्यायति यान्ति तस्य सहसा सद्योऽथ सर्वापदः ॥२॥देवि त्वच्चरणाम्बुजार्चनकृते यः पीतपुष्पाञ्जलीन्भक्त्यावामकरे निधाय च मनुं मन्त्री मनोज्ञाक्षरम् ।पीठध्यानपरोऽथ कुम्भकवशाद्बीजं स्मरेत्पार्थिवंतस्यामित्रमुखस्य वाचि हृदये जाड्यं भवेत्तत्क्षणात् ॥३॥वादी मूकति रङ्कति क्षितिपतिर्वैश्वानरः शीतति क्रोधीशाम्यति दुर्जनः सुजनति क्षिप्रानुगः खञ्जति ।गर्वी खर्वति सर्वविच्च जडति त्वन्मन्त्रिणा यन्त्रितःश्रीर्नित्ये बगलामुखि प्रतिदिनं कल्याणि तुभ्यं नमः ॥४॥मन्त्रस्तावदलं विपक्षदलने स्तोत्रं पवित्रं च तेयन्त्रं वादिनियन्त्रणं त्रिजगतां जैत्रं च चित्रं च ते ।मातः श्रीबगलेति नाम ललितं यस्यास्ति जन्तोर्मुखेत्वन्नामग्रहणेन संसदि मुखे स्तम्भो भवेद्वादिनाम् ॥५॥दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्यविद्रावणंभूभृत्सन्दमनं चलन्मृगदृशां चेतःसमाकर्षणम् ।सौभाग्यैकनिकेतनं समदृशः कारुण्यपूर्णेक्षणम्मृत्योर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ॥६॥मातर्भञ्जय मद्विपक्षवदनं जिह्वां च सङ्कीलयब्राह्मीं मुद्रय दैत्यदेवधिषणामुग्रां गतिं स्तम्भय ।शत्रूंश्चूर्णय देवि तीक्ष्णगदया गौराङ्गि पीताम्बरेविघ्नौघं बगले हर प्रणमतां कारुण्यपूर्णेक्षणे ॥७॥मातर्भैरवि भद्रकालि विजये वाराहि विश्वाश्रयेश्रीविद्ये समये महेशि बगले कामेशि वामे रमे ।मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदेदासोऽहं शरणागतः करुणया विश्वेश्वरि त्राहि माम् ॥८॥संरम्भे चौरसङ्घे प्रहरणसमये बन्धने व्याधिमध्येविद्यावादे विवादे प्रकुपितनृपतौ दिव्यकाले निशायाम् ।वश्ये वा स्तम्भने वा रिपुवधसमये निर्जने वा वने वागच्छंस्तिष्ठंस्त्रिकालं यदि पठति शिवं प्राप्नुयादाशु धीरः ॥९॥त्वं विद्या परमा त्रिलोकजननी विघ्नौघसंछेदिनीयोषित्कर्षणकारिणी जनमनःसम्मोहसन्दायिनी ।स्तम्भोत्सारणकारिणी पशुमनःसम्मोहसन्दायिनीजिह्वाकीलनभैरवी विजयते ब्रह्मादिमन्त्रो यथा ॥१०॥विद्या लक्ष्मीर्नित्यसौभाग्यमायुः पुत्रैः पौत्रैः सर्वसाम्राज्यसिद्धिः ।मानो भोगो वश्यमारोग्यसौख्यं प्राप्तं तत्तद्भूतलेऽस्मिन्नरेण ॥११॥त्वत्कृते जपसन्नाहं गदितं परमेश्वरि ।दुष्टानां निग्रहार्थाय तद्गृहाण नमोऽस्तु ते ॥१२॥पीताम्बरां च द्विभुजां त्रिनेत्रां गात्रकोमलाम् ।शिलामुद्गरहस्तां च स्मरे तां बगलामुखीम् ॥१३॥ब्रह्मास्त्रमिति विख्यातं त्रिषु लोकेषु विश्रुतम् ।गुरुभक्ताय दातव्यं न देयं यस्य कस्यचित् ॥१४॥नित्यं स्तोत्रमिदं पवित्रमिह यो देव्याः पठत्यादराद्धृत्वायन्त्रमिदं तथैव समरे बाहौ करे वा गले ।राजानोऽप्यरयो मदान्धकरिणः सर्पा मृगेन्द्रादिकास्तेवै यान्ति विमोहिता रिपुगणा लक्ष्मीः स्थिरा सिद्धयः ॥१५॥॥इति श्रीरुद्रयामले तन्त्रे श्रीबगलामुखीस्तोत्रं समाप्तम् ॥ N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP