मराठी मुख्य सूची|स्तोत्रे|दशमहाविद्या स्तोत्र| श्री गणेशाय नमः । महाकाल ... दशमहाविद्या स्तोत्र ॐ नम आद्यायै । शृणु वत्स ... भवानि स्तोतुं त्वां प्रभव... ओंकाररूपिणी देवि विशुद्धस... ॐ श्रीगुरवे नमः । ॐ नमः प... ॥श्रीः॥ कल्याणवृष्टिभिरिव... श्री गणेशाय नमः । महाकाल ... श्रीमत्सुन्दरपूर्विहाररसि... श्रीगणेशाय नमः । श्रीपार्... श्रीगणेशाय नमः । श्रीभैरव... आनन्दभैरवी उवाच अथ वक्ष्य... श्रीगणेशाय नमः । मातर्नील... कञ्जमनोहर पादचलन्मणि नूपु... श्रीसेव्य-पादकमले श्रित-च... ॐ नमस्ते चण्डिके चण्डि चण... घोररूपे महारावे सर्वशत्रु... चलत्कनककुण्डलोल्लसितचारुग... प्रातः स्मरामि भुवना-सुवि... ॐ श्री ललिता महात्रिपुरसु... ह्रींकाराङ्कणदीपिकां श्रि... ॐ ह्रीं श्रीं क्लीं सर्वप... श्रीमत् कमलापुर कनकधराधरव... त्यागराजविरचितः या त्रैलो... कल्याणायुतपूर्णचन्द्रवदना... ॐ हृन्मध्यनिलये देवि ललित... ककाररूपा कल्याणी कल्याणगु... ॐ ऐं ह्रीं श्रीं ॐ ककाररू... प्रातः स्मरामि ललितावदनार... ॥श्री ललितास्तवरत्न पाराय... श्रीललिताम्बिकायै नमः । द... ॥ध्यानम् ॥ माणिक्यवीणामु... ओङ्कारपंजरशुकीमुपनिषदुद्य... श्रीगौडपादाचार्यकृतं ॥ अथ... या माता सदसद्विलक्षणपरासं... सौन्दर्यलहरी कामकलाकालीस्तोत्रम् - श्री गणेशाय नमः । महाकाल ... सती पार्वतीची दहा रूपे - काली, तारा, छिन्नमस्ता, भुवनेश्वरी, बगलामुखी, धूमावती, त्रिपुर सुंदरी, मातंगी, षोड़शी आणि भैरवी. Tags : dashamahavidyagodgoddessprayerstotraदशमहाविद्यादेवतादेवी कामकलाकालीस्तोत्रम् Translation - भाषांतर श्री गणेशाय नमः ।महाकाल उवाच ।अथ वक्ष्ये महेशानि देव्याः स्तोत्रमनुत्तमम् ।यस्य स्मरणमात्रेण विघ्ना यान्ति पराङ्मुखाः ॥१॥विजेतुं प्रतस्थे यदा कालकस्या-सुरान् रावणो मुञ्जमालिप्रवर्हान् ।तदा कामकालीं स तुष्टाववाग्भिर्जिगीषुर्मृधे बाहुवीर्य्येण सर्वान् ॥२॥महावर्त्तभीमासृगब्ध्युत्थवीची-परिक्षालिता श्रान्तकन्थश्मशाने ।चितिप्रज्वलद्वह्निकीलाजटालेशिवाकारशावासने सन्निषण्णाम् ॥३॥महाभैरवीयोगिनीडाकिनीभिःकरालाभिरापादलम्बत्कचाभिः ।भ्रमन्तीभिरापीय मद्यामिषास्रान्यजस्रंसमं सञ्चरन्तीं हसन्तीम् ॥४॥महाकल्पकालान्तकादम्बिनी-त्विट्परिस्पर्द्धिदेहद्युतिं घोरनादाम् ।स्फुरद्द्वादशादित्यकालाग्निरुद्र-ज्वलद्विद्युदोघप्रभादुर्निरीक्ष्याम् ॥५॥लसन्नीलपाषाणनिर्माणवेदि-प्रभश्रोणिबिम्बां चलत्पीवरोरुम् ।समुत्तुङ्गपीनायतोरोजकुम्भांकटिग्रन्थितद्वीपिकृत्त्युत्तरीयाम् ॥६॥स्रवद्रक्तवल्गन्नृमुण्डावनद्धा-सृगाबद्धनक्षत्रमालैकहाराम् ।मृतब्रह्मकुल्योपक्लृप्ताङ्गभूषांमहाट्टाट्टहासैर्जगत् त्रासयन्तीम् ॥७॥निपीताननान्तामितोद्धृत्तरक्तो-च्छलद्धारया स्नापितोरोजयुग्माम् ।महादीर्घदंष्ट्रायुगन्यञ्चदञ्च-ल्ललल्लेलिहानोग्रजिह्वाग्रभागाम् ॥८॥चलत्पादपद्मद्वयालम्बिमुक्त-प्रकम्पालिसुस्निग्धसम्भुग्नकेशाम् ।पदन्याससम्भारभीताहिराजा-ननोद्गच्छदात्मस्तुतिव्यस्तकर्णाम् ॥९॥महाभीषणां घोरविंशार्द्धवक्त्रै-स्तथासप्तविंशान्वितैर्लोचनैश्च ।पुरोदक्षवामे द्विनेत्रोज्ज्वलाभ्यांतथान्यानने त्रित्रिनेत्राभिरामाम् ॥१०॥लसद्वीपिहर्य्यक्षफेरुप्लवङ्ग-क्रमेलर्क्षतार्क्षद्विपग्राहवाहैः ।मुखैरीदृशाकारितैर्भ्राजमानांमहापिङ्गलोद्यज्जटाजूटभाराम् ॥११॥भुजैः सप्तविंशाङ्कितैर्वामभागेयुतां दक्षिणे चापि तावद्भिरेव ।क्रमाद्रत्नमालां कपालं च शुष्कंततश्चर्मपाशं सुदीर्घं दधानाम् ॥१२॥ततः शक्तिखट्वाङ्गमुण्डं भुशुण्डींधनुश्चक्रघण्टाशिशुप्रेतशैलान् ।ततो नारकङ्कालबभ्रूरगोन्माद-वंशीं तथा मुद्गरं वह्निकुण्डम् ॥१३॥अधो डम्मरुं पारिघं भिन्दिपालंतथा मौशलं पट्टिशं प्राशमेवम् ।शतघ्नीं शिवापोतकं चाथ दक्षेमहारत्नमालां तथा कर्त्तुखड्गौ ॥१४॥चलत्तर्ज्जनीमङ्कुशं दण्डमुग्रंलसद्रत्नकुम्भं त्रिशूलं तथैव ।शरान् पाशुपत्यांस्तथा पञ्च कुन्तंपुनः पारिजातं छुरीं तोमरं च ॥१५॥प्रसूनस्रजं डिण्डिमं गृध्रराजंततः कोरकं मांसखण्डं श्रुवं च ।फलं बीजपूराह्वयं चैव सूचींतथा पर्शुमेवं गदां यष्टिमुग्राम् ॥१६॥ततो वज्रमुष्टिं कुणप्पं सुघोरंतथा लालनं धारयन्तीं भुजैस्तैः ।जवापुष्परोचिष्फणीन्द्रोपक्लृप्त-क्वणन्नूपुरद्वन्द्वसक्ताङ्घ्रिपद्माम् ॥१७॥महापीतकुम्भीनसावद्धनद्धस्फुरत्सर्वहस्तोज्ज्वलत्कङ्कणां च ।महापाटलद्योतिदर्वीकरेन्द्रा-वसक्ताङ्गदव्यूहसंशोभमानाम् ॥१८॥महाधूसरत्त्विड्भुजङ्गेन्द्रक्लृप्त-स्फुरच्चारुकाटेयसूत्राभिरामाम् ।चलत्पाण्डुराहीन्द्रयज्ञोपवीत-त्विडुद्भासिवक्षःस्थलोद्यत्कपाटाम् ॥१९॥पिषङ्गोरगेन्द्रावनद्धावशोभा-महामोहबीजाङ्गसंशोभिदेहाम् ।महाचित्रिताशीविषेन्द्रोपक्लृप्त-स्फुरच्चारुताटङ्कविद्योतिकर्णाम् ॥२०॥वलक्षाहिराजावनद्धोर्ध्वभासि-स्फुरत्पिङ्गलोद्यज्जटाजूटभाराम् ।महाशोणभोगीन्द्रनिस्यूतमूण्डो-ल्लसत्किङ्कणीजालसंशोभिमध्याम् ॥२१॥सदा संस्मरामीदृशों कामकालींजयेयं सुराणां हिरण्योद्भवानाम् ।स्मरेयुर्हि येऽन्येऽपि ते वै जयेयु-र्विपक्षान्मृधे नात्र सन्देहलेशः ॥२२॥पठिष्यन्ति ये मत्कृतं स्तोत्रराजंमुदा पूजयित्वा सदा कामकालीम् ।न शोको न पापं न वा दुःखदैन्यंन मृत्युर्न रोगो न भीतिर्न चापत् ॥२३॥धनं दीर्घमायुः सुखं बुद्धिरोजोयशः शर्मभोगाः स्त्रियः सूनवश्च ।श्रियो मङ्गलं बुद्धिरुत्साह आज्ञालयः शर्म सर्व विद्या भवेन्मुक्तिरन्ते ॥२४॥॥इतिश्रीमहावामकेश्वरतन्त्रे कालकेयहिरण्यपुरविजयेरावणकृतं कामकलाकालीभुजङ्गप्रयातस्तोत्रराजं सम्पूर्णम् ॥ N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP