मराठी मुख्य सूची|स्तोत्रे|दशमहाविद्या स्तोत्र| ॐ ह्रीं श्रीं क्लीं सर्वप... दशमहाविद्या स्तोत्र ॐ नम आद्यायै । शृणु वत्स ... भवानि स्तोतुं त्वां प्रभव... ओंकाररूपिणी देवि विशुद्धस... ॐ श्रीगुरवे नमः । ॐ नमः प... ॥श्रीः॥ कल्याणवृष्टिभिरिव... श्री गणेशाय नमः । महाकाल ... श्रीमत्सुन्दरपूर्विहाररसि... श्रीगणेशाय नमः । श्रीपार्... श्रीगणेशाय नमः । श्रीभैरव... आनन्दभैरवी उवाच अथ वक्ष्य... श्रीगणेशाय नमः । मातर्नील... कञ्जमनोहर पादचलन्मणि नूपु... श्रीसेव्य-पादकमले श्रित-च... ॐ नमस्ते चण्डिके चण्डि चण... घोररूपे महारावे सर्वशत्रु... चलत्कनककुण्डलोल्लसितचारुग... प्रातः स्मरामि भुवना-सुवि... ॐ श्री ललिता महात्रिपुरसु... ह्रींकाराङ्कणदीपिकां श्रि... ॐ ह्रीं श्रीं क्लीं सर्वप... श्रीमत् कमलापुर कनकधराधरव... त्यागराजविरचितः या त्रैलो... कल्याणायुतपूर्णचन्द्रवदना... ॐ हृन्मध्यनिलये देवि ललित... ककाररूपा कल्याणी कल्याणगु... ॐ ऐं ह्रीं श्रीं ॐ ककाररू... प्रातः स्मरामि ललितावदनार... ॥श्री ललितास्तवरत्न पाराय... श्रीललिताम्बिकायै नमः । द... ॥ध्यानम् ॥ माणिक्यवीणामु... ओङ्कारपंजरशुकीमुपनिषदुद्य... श्रीगौडपादाचार्यकृतं ॥ अथ... या माता सदसद्विलक्षणपरासं... सौन्दर्यलहरी श्री मङ्गलचण्डिकास्तोत्रम् - ॐ ह्रीं श्रीं क्लीं सर्वप... सती पार्वतीची दहा रूपे - काली, तारा, छिन्नमस्ता, भुवनेश्वरी, बगलामुखी, धूमावती, त्रिपुर सुंदरी, मातंगी, षोड़शी आणि भैरवी. Tags : dashamahavidyagodgoddessprayerstotraदशमहाविद्यादेवतादेवी श्री मङ्गलचण्डिकास्तोत्रम् Translation - भाषांतर ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके ।ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः ॥२०॥पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः ।दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥२१॥मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः ।ध्यानञ्च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम् ॥२२॥देवीं षोडशवर्षीयां रम्यां सुस्थिरयौवनाम् ।सर्वरूपगुणाढ्याञ्च कोमलाङ्गीं मनोहराम् ॥२३॥श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् ।वन्हिशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥२४॥बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् ।बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ॥२५॥ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम् ।जगद्धात्रीञ्च दात्रीञ्च सर्वेभ्यः सर्वसम्पदाम् ॥२६॥संसारसागरे घोरे पीतरुपां वरां भजे ॥२७॥देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने ।प्रयतः सङ्कटग्रस्तो येन तुष्टाव शङ्करः ॥२८॥ ॥शङ्कर उवाच ॥रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके ।संगत्रिं विपदां राशेर्हर्षमङ्गलकारिके ॥२९॥हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके ।शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके ॥३०॥मङ्गले मङ्गलार्हे च सर्वमङ्गलमङ्गले ।सतां मङ्गलदे देवि सर्वेषां मङ्गलालये ॥३१॥पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते ।पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम् ॥३२॥मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले ।संसार मङ्गलाधारे मोक्षमङ्गलदायिनि ॥३३॥सारे च मङ्गलाधारे पारेत्वं सर्वकर्मणाम् ।प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे ॥३४॥स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् ।प्रतिमङ्गलवारे च पूजां कृत्वागतः शिवः ॥३५॥देव्याश्च मङ्गलस्तोत्रं यः शृणोति समाहितः ।तन्मङ्गलं भवेच्छश्वन्न भवेत् तदमङ्गलम् ॥३६॥॥इति श्री ब्रह्मवैवर्ते द्वितीये प्रकृतिखण्डेनारद नारायणसंवादे मङ्गलचण्डिका स्तोत्रं सम्पूर्णम् ॥ N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP