मराठी मुख्य सूची|स्तोत्रे|दशमहाविद्या स्तोत्र| श्रीसेव्य-पादकमले श्रित-च... दशमहाविद्या स्तोत्र ॐ नम आद्यायै । शृणु वत्स ... भवानि स्तोतुं त्वां प्रभव... ओंकाररूपिणी देवि विशुद्धस... ॐ श्रीगुरवे नमः । ॐ नमः प... ॥श्रीः॥ कल्याणवृष्टिभिरिव... श्री गणेशाय नमः । महाकाल ... श्रीमत्सुन्दरपूर्विहाररसि... श्रीगणेशाय नमः । श्रीपार्... श्रीगणेशाय नमः । श्रीभैरव... आनन्दभैरवी उवाच अथ वक्ष्य... श्रीगणेशाय नमः । मातर्नील... कञ्जमनोहर पादचलन्मणि नूपु... श्रीसेव्य-पादकमले श्रित-च... ॐ नमस्ते चण्डिके चण्डि चण... घोररूपे महारावे सर्वशत्रु... चलत्कनककुण्डलोल्लसितचारुग... प्रातः स्मरामि भुवना-सुवि... ॐ श्री ललिता महात्रिपुरसु... ह्रींकाराङ्कणदीपिकां श्रि... ॐ ह्रीं श्रीं क्लीं सर्वप... श्रीमत् कमलापुर कनकधराधरव... त्यागराजविरचितः या त्रैलो... कल्याणायुतपूर्णचन्द्रवदना... ॐ हृन्मध्यनिलये देवि ललित... ककाररूपा कल्याणी कल्याणगु... ॐ ऐं ह्रीं श्रीं ॐ ककाररू... प्रातः स्मरामि ललितावदनार... ॥श्री ललितास्तवरत्न पाराय... श्रीललिताम्बिकायै नमः । द... ॥ध्यानम् ॥ माणिक्यवीणामु... ओङ्कारपंजरशुकीमुपनिषदुद्य... श्रीगौडपादाचार्यकृतं ॥ अथ... या माता सदसद्विलक्षणपरासं... सौन्दर्यलहरी श्रीत्रिपुरसुन्दरी सुप्रभातम् - श्रीसेव्य-पादकमले श्रित-च... सती पार्वतीची दहा रूपे - काली, तारा, छिन्नमस्ता, भुवनेश्वरी, बगलामुखी, धूमावती, त्रिपुर सुंदरी, मातंगी, षोड़शी आणि भैरवी. Tags : dashamahavidyagodgoddessprayerstotraदशमहाविद्यादेवतादेवी श्रीत्रिपुरसुन्दरी सुप्रभातम् Translation - भाषांतर श्रीसेव्य-पादकमले श्रित-चन्द्र-मौलेश्रीचन्द्रशेखर-यतीश्वर-पूज्यमाने।श्रीखण्ड-कन्दुककृत-स्व-शिरोवतंसेश्रीमन्महात्रिपुरसुन्दरि सुप्रभातम् ॥१॥उत्तिष्ठ तुङ्ग-कुलपर्वत-राज-कन्ये उत्तिष्ठभक्त-जन-दुःख-विनाश-दक्षे ।उत्तिष्ठ सर्व-जगती-जननि प्रसन्ने उत्तिष्ठ हे त्रिपुरसुन्दरिसुप्रभातम् ॥२॥उत्तिष्ठ राजत-गिरि-द्विषतो रथात् त्वं उत्तिष्ठरत्न-खचितत् ज्वलिताच्च पीठात्।उत्तिष्ठ बन्धन-सुखं परिधूय शंभोः उत्तिष्ठविघ्नित-तिरस्करिणीं विपाट्य ॥३॥यत्पृष्ठभागमवलम्ब्य विभाति लक्ष्मीःयस्या वसन्ति निखिला अमराश्च देहे ।स्नात्वा विशुद्धहृदया कपिला सवत्सासिद्धा प्रदर्शयितुमिह नस्तव विश्वरूपम् ॥४॥आकर्ण्यतेऽद्य मदमत्त-गजेन्द्रनादःत्वं बोध्यसे प्रतिदिनं मधुरेण येन ।भूपालरागमुखरा मुखवाद्यवीणाभेरीध्वनिश्च कुरुते भवतीं प्रबुद्धाम् ॥५॥त्वां सेवितुं विविध-रत्न-सुवर्ण-रूप्य-खाद्यम्बरैः कुसुम-पत्र-फलैश्च भक्ताः ।श्रद्धान्विताः जननि विस्मृत-गृह्य-बन्धाःआयान्ति भारत-निवासि-जनाः सवेगम् ॥६॥जीवातवः सुकृतिनः श्रुतिरूपमातुः विप्राः प्रसन्न-मनसो जपितार्क-मन्त्राः ।श्रीसूक्त-रुद्र-चमकाद्यवधारणाय सिद्धाः महेश-दयिते तव सुप्रभातम् ॥७॥फालप्रकासि-तिलकाङ्क-सुवासिनीनांकर्पूर-भद्र-शिखया तव दृष्टि-दोषम् ।गोष्ठी विभाति परिहर्तुमनन्यभावाहे देवि पङ्क्तिश इयं तव सुप्रभातम् ॥८॥उग्रः सहस्र-किरणोऽपि करं समर्प्य त्वत्तेजसः पुरत एषविलज्जितः सन् ।रक्तस्तनावुदयमेत्यगपृष्ठलीनः पद्मं त्वदास्यसहजं कुरुतेप्रसन्नम् ॥९॥नृत्यन्ति बर्हनिवहं शिखिनः प्रसार्यगायन्ति पञ्चमगतेन पिकाः स्वरेण।आस्ते तरङ्गतति-वाद्य-मृदङ्ग-नादःतौर्यत्रिकं शुभमकृत्रिममस्तु तुभ्यम् ॥१०॥संताप-पाप-हरणे त्वयि दीक्षितायांसंताप-हारि-शशि-पापहरापगाभ्याम् ।कुत्रापि धूर्जटि-जटा-विपिने निलीनंछिन्ना सरित् क्षयमुपैति विधुश्च वक्रः ॥११॥भुक्त्वा कुचेल-पृतुकं ननु गोपबालःआकर्ण्य ते व्यरचयत् सुहृदं कुबेरम् ।व्याजस्य नास्ति तव रिक्त-जनादपेक्षानिर्व्याजमेव करुणां नमते तनोषि ॥१२॥प्राप्नोति वृद्धिमतुलां पुरुषः कटाक्षैः द्वन्द्वी ध्रुवंक्षयमुपैति न चात्र शङ्का।मित्रस्तवोषसि पदं परिसेव्य वृद्धःचन्द्रस्त्वदीय-मुखशत्रुतया विनष्टः ॥१३॥सृष्टि-स्थिति-प्रलय-साक्षिणि विश्व-मातःस्वर्गापवर्ग-फल-दायनि शंभु-कान्ते ।श्रुत्यन्तखेलिनि विपक्ष-कठोर-वज्रे भद्रे प्रसन्न-हृदयेतव सुप्रभातम् ॥१४॥मातः स्वरूपमनिशं हृदि पश्यतां तेको वा न सिद्ध्यति मनश्चिर-कांक्षितार्थः ।सिद्ध्यन्ति हन्त धरणी-धन-धान्य-धाम-धी-धेनु-धैर्य-धृतयः सकलाः पुमार्थाः ॥१५॥ N/A References : N/A Last Updated : July 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP