नक्षत्रजननशांतयः - नारायणबलिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


शुक्लैकादश्यां पंचम्यां श्रवणेन वा नदीतीरे देवालयादौ वा नारायणबलिः कार्यः ॥ तत्प्रयोगः - यजमानः आचम्य पवित्रपाणिः देशकालौ संकीर्त्य मदीयकुलाभिवृद्धिप्रतिबंधकप्रेतस्य प्रेतत्वनिवृत्तिद्वारा सर्वोपद्रवशमनपूर्वककुलाभिवृद्ध्यर्थं नारायणबलिं करिष्ये इति संकल्प्य गोमयोपलिप्तभूमौ व्रीहीणां यवानां वा पुंजेषु सर्वसस्याश्रया भूमिः इति मंत्रावृत्योदक्संस्थं भूमिं स्पृष्ट्वा ‘ यासामाप्यायकः
सोमः ’ इति धान्यराशीन् कृत्वा ‘ कलशस्य मुखे विष्णुः ’ इति मंत्रावृत्त्या पंचकुंभान् संस्थाप्य ‘ गंगे च यमुने चैव ’ इत्युदकं पूरयित्वा ‘ मलयाचलसंभूतं ’ इति गंधं क्षिप्त्वा ‘ त्वं दूर्वेऽमृतजन्मासि ’ इति दूर्वाः ‘ गजाश्वरथ्यावल्मीक - ’ इति सप्तमृदः ‘ कुष्ठं मांसी हरिद्रे द्वे ’ इति सर्वौषधीः ‘ गोमूत्रं गोमयं क्षीरं ’ इति पंचगव्यं ‘ गव्यं क्षीरं दधि तथा ’ इति पंचामृतं ‘ उदुंबरवटाश्वत्थ - ’ इति पंचपल्लवान् ‘ कनकं कुलिशं चैव ’ इति पंचरत्नानि ‘ हिरण्यगर्भगर्भस्थं ’ इति हिरण्यं ‘ फलेन फलितं सर्वं ’ इति फलानि ‘ सितं सूक्ष्मं सुखस्पर्शं ’ इति वस्त्रेण वेष्टयित्वा ‘ पूर्णपात्रमिदं दिव्यं ’ इति पूर्णपात्राणि निधाय ‘ सर्वे समुद्राः सरितः ’ इति ‘ गंगे च यमुने चैव ’ इति च मंत्राभ्यां कलशानभिमंत्रयेत् । तेषु क्रमेण विष्णुब्रह्मशिवयमप्रेतानां स्वर्णमयीः प्रतिमाः स्थापयेत् । यद्वा विष्णुः स्वर्णमयः ब्रह्मा रुप्यमयः शिवस्त्रपुमयः यमो लोहमयः प्रेतश्च दर्भमयः कार्यः । एवमेताः प्रतिमा अग्न्युत्तारणपूर्वकं स्थापनीयाः । तत्र मंत्राः - यस्य स्मरणमात्रेण जन्मसंसारबंधानात् । विमुच्यते नमस्तस्भै विष्णवे प्रभविष्णवे । विष्णो इहागच्छेह तिष्ठ मम पूजां गृहाण वरदो भव । विष्णवे नमः विष्णुमावाहयामि १। हंसारुढं चतुर्हस्तं रक्तवर्णं चतुर्मुखम् । पद्माद्यायुधयुक्तं च ब्रह्माणं प्रणमाम्यहम् । ब्रह्मन् इहागच्छेह० ब्रह्मणे नमः ब्रह्माणमावाह० २। रुद्रो देवो वृषारुयश्चतुर्बाहुस्त्रिलोचनः ॥ त्रिशूलखट्वावरदाभयपाणिर्नमामि तम् । रुद्रेहागच्छेह० रुद्राय नमः रुद्रमावा० ३। दंडहस्तं यमं देवं महामहिषवाहनम् । वैवस्वतं पितृपतिं तं नमामि महाबलम् । यमेहा० यमाय नमः यममा० ४। उत्कचं मलिनं क्षीणं क्षुत्तृड्भ्यां व्याकुलं सदा । निर्मांसं भीषणाकारं प्रेतमावहयाम्यहम् । प्रेतेहागच्छेह ति० प्रेताय० प्रेतमावाह० ५। इत्यावाह्य तत्तन्मंत्रैः षोडशोपचारैः पूजयेत् । ततस्तत्पश्चिमे स्थंडिलं कृत्वा अद्येत्यादि० नारायणबल्यंगहोमं कर्तुं स्थंडिलादि सर्वं कर्म करिष्ये इति संकल्प्य स्थंडिलोपलेपनोल्लेखनादि कृत्वा बलवर्धननामानमग्निं प्रतिष्ठाप्य ध्यात्वा समिदद्वयमादाय देशकालौ स्मृत्वा क्रियमाणे नारायणबल्यंगहोमे देवतापरिग्रहार्थमित्यादिचक्षुष्यंतमुक्त्वा अत्र प्रधानं - नारायणं षोडशसंख्याभिस्तंदुलाहुतिभिर्यक्ष्ये । शेषेणेत्यादि आज्यभागहोमांतं कृत्वा प्रधानहोमं कुर्यात् । श्रीशं नारायणं देवं वंदेऽहं कामदं प्रभुम् । लीलया विततं येन तस्मै नित्यं नमो नमः ॥ नारायणाय नमः इति हुत्वा नारायणायेदं न मम इति त्यजेत् । एवं षोडशाहुतीर्हुत्वा स्विष्टकृदादि होमशेषं समापयेत् । ततो देशकालौ स्मृत्वा नारायणबल्यंगभूतं पिंडप्रदानं करिष्ये इति संकल्प्य देवतापूर्वभागे दर्मेण दक्षिणसंस्थामेकां रेखां कृत्वा तत्र दक्षिणाग्रैः कुशैरवस्तीर्य तत्र ‘ शुद्ध्यंतां विष्णुरुपी प्रेतः ’ इति मंत्रावृत्त्या दशस्थानेष्वपो निनीय तत्र मधुघृताप्लुतांस्तिलमिश्रान् दशपिंडान् दक्षिणामुखः प्राचीनावीती वामं जान्वाच्य पितृतीर्थेन ‘ काश्यपगोत्र देवदत्तप्रेत विष्णुरुप अयं ते पिंडोनमः ’ इति दशपिंडान् दद्यात् । ततो ‘ दंडहस्तं यमं देवं ’ इति मंत्रेण पिंडाननुमंत्र्य शंखोदकेन ‘ विष्णुं जिष्णुं महाविष्णुं ’ इति मंत्रेणाभिषिच्य ‘ काश्यपगोत्र देवदत्तप्रेत विष्णुरुप इदं ते वस्त्रं नमः ’ इतिमंत्रेण यज्ञोपवीताचमनगंधपुष्पधूपदीपनैवेद्यदक्षिणातांबूलाद्युपचारैरभ्यर्च्य पिंडान् विसर्जयेत् । ततः ‘ काश्यपगोत्रं देवदत्तप्रेतं विष्णुरुपं तर्पयामि ’ इति तर्पयेत् । ततः पुरुषाहारपरिमितपिष्टबलिं गृहीत्वा - ब्रह्मविष्णुमहेशानयमाश्चैव सकिंकराः । बलिंज गृहीत्वा कुर्वंतु प्रेतस्य च शुभां गतिम् । इति संप्रार्थ्य विष्णुब्रह्मरुद्रयमेभ्य इमं बलिं समर्पयामि इति दद्यात् । ततः प्रतिदैवतं त्रिविधानि फलानि समर्प्य शर्करागुडमधुसर्पीषि निवेदयेत् रात्रौ पुराणश्रवणगीतादिना जागरणं कुर्यात् । तस्यामेव रात्रौ पंचब्राह्मणान् ‘ श्वः करिष्यमाणनारायणबल्यंगश्राद्धार्थं त्वया क्षणः क्रियतां ’ इत्येवं प्रत्येकं निमंत्रयेत् । स्वयमुपोषणं कुर्यात् । ततः श्वोभूते मध्याह्ने विष्ण्वादिदेवता अभ्यर्च्य आचम्य पवित्रपाणिर्देशकालौ स्मृत्वा ‘ क्रियमाणनारायणबल्यंगविहितं विष्णुब्रह्मशिवयमप्रेतोद्देशेन एकोद्दिष्टविधिना श्राद्धं करिष्ये ’ इति संकल्प्य ब्राह्मणानुदड्मुखानुपवेश्य ‘ विष्णुरुपबाह्मण इदं ते पाद्यं ’ ‘ सुपाद्यं ’ इति ब्राह्मणेन प्रतिवचनं देयम् । एवमेव ब्रह्मरुपब्राह्मण इदं ते पाद्यं सु० । रुद्ररुपब्राह्मण इदं० दु० यमरुप ब्राह्मणेदं० सु० । प्रेतस्थानीय विष्णुरुप ब्राह्मणेदं ते पाद्यं सुपा० । ’ इति पाद्यं दत्त्वा ‘ विष्णुमावाहयामि ब्रह्माणमा० रुद्रमा० यममा० प्रेतमा० ’ इत्यावाह्य विष्णोः इदमासनं ब्रह्मण इदमा० रुद्रस्येदमा० काश्यपगोत्रस्य देवदत्तप्रेतस्य विष्णुरुपस्य इदमास० इत्यासनेष्वासनं दद्यात् । ततः विष्णो इदं तेऽर्घ्यं ब्रह्मन्निदं तेऽर्घ्यं शिवेदंतेऽर्घ्यं यमेदं तेऽर्घ्यं । विष्णो पूजार्थे एष ते गंधो नमः ब्रह्मन् एष ते गं० शिवैषते गं० काश्यपगोत्र देवदत्तप्रेत विष्णुरुपैषते गंधो नमः । विष्णो माल्यार्थे इदं पुष्प्म तुलसीपत्रसहितं नमः । एवं ब्रह्मन् माल्यार्थे० शिवमाल्यार्थे० काश्यपगोत्र देवदत्तप्रेत विष्णुरुपमाल्यार्थे० । एवं विष्ण्वादिभ्यो धूपदीपाच्छादनालंकारादि यथाविभवं समर्प्य ‘ नमो विष्ण्वादिभ्यः एते गंधाद्युपचाराः सर्वे परिपूर्णा भवंतु अर्चनविधेः स्वर्चितमस्तु न्यूनं तद्विधिवदस्तु ’ ‘ अस्तु विधिवत् ’ इति विप्रा वदेयुः । यस्यस्मृत्या च नामोक्त्या श्राद्धकर्म क्रियादिषु । न्यूनं संपूर्णतां याति प्रसादाद्भवतां मम ॥ युष्मदनुज्ञया मंडलादि पात्रासादनं करिष्ये । इति संकल्प्य ततः मंडलादि पात्रासादनं कृत्वा यथाशक्ति चतुर्गुणं समं वा यथा सोपस्करमामान्नं परिवेष्य निवेदयेत् । तद्यथा - तूष्णीं परिषिच्य पाणिभ्यां पात्रमालभ्य विष्णवे इदमामान्नं यथासोपस्करं अस्य ब्राह्मणस्य भोजनपर्याप्तं दत्तममृतरुपेण संपद्यतां नमः । एवं ब्रह्मणे इदमामान्नं शिवायेदमामान्नं० यमायेदमामान्नं० काश्यपगोत्राय देवदत्तप्रेताय विष्णुरुपायेदमामान्नंयथासो० इति निवेदयेत् । ततो ‘ नारायणबल्यंगश्राद्धं संपन्नं ’ ‘ इति संपन्नतां वाचयित्वा देशकालौ संकीर्त्यं नारायणबलिश्राद्धांगत्वेन पिंडप्रदानं करिष्ये इति संकल्प्य द्विजाग्रे रेखाकरणं अवनेजनं तूष्णीं कृत्वा विष्णो अयं ते पिंडो नमः ब्रह्मन् अयं ते पिंडो नमः शिव अयं ते पिं० यम अयं ते० काश्यपगोत्र देवदत्तप्रेत विष्णुरुप अयं ते पिंडो नमः इति पिंडान् दत्वा ‘ पिंडस्थ विष्णुब्रह्मशिवयमप्रेतेभ्यः ’ इति मंत्रेण आसनपाद्यार्घ्यादिप्रवाहणांतं पिंडार्चन सिद्ध्यर्थं विष्णुस्थानीयब्राह्मणाय तुभ्यमिमां सतांबूलदक्षिणां प्रतिपादयामि - इति सर्वान् द्विजान् दक्षिणादिभिः संतोष्य तेष्वेकं गुणवंतं प्रेतस्थानोपविष्टं विप्रं प्रेतबुद्ध्या वस्त्रालंकारादिभिः संतोष्य विष्णुब्रह्मशिवयमप्रेतानां यद्दत्तं नारायणबल्यंगश्राद्धीयामान्नादि तदक्षय्यमस्त्विति भवंतो ब्रुवंतु । इति दर्भयुतशंखोदकेनाक्षय्यं दत्त्वा ब्राह्मणान् प्रार्थयेत् भवंतः प्रेतायांजलिदानं कर्तुमनुज्ञां कुर्वंतु ’ ते च अमुकप्रेतायांजलिदानं कुरु इति ब्रूयुः । ततः सकुशतिलतुलसीतोयांजलिं गृहीत्वा काश्यपगोत्र अमुकप्रेत विष्णुरुप अयं ते तिलतोयांजलिर्नमः ’ इति दद्यात् । ‘ अनेन नारायण बलिकर्मणा भगवान् विष्णुरिमं देवदत्तप्रेतं शुद्धमपापं कर्मार्हं करोतु ’ इति भवंतो ब्रुवंतु ते च तथा ब्रूयुः । ततो देवतापीठं दत्त्वा यस्य स्मृत्या च नामोक्त्या बलिकर्म क्रियादिषु । न्यूनं संपूर्णतां याति सद्यो वंदे तमच्युतम् । मंत्रहीनं क्रियाहीनं० । अनेन नारायणबलिकर्मणा भगवान् प्रेतमोक्षदाता श्रीमहाविष्णुः प्रीयताम् । तत्सद्ब्रह्मार्पणमस्तु ॥ ॥ इति माणग्रामनिवासि दिवाकरकृतकृत्यदिवाकरे मध्यमांशौ नारायणबलिप्रयोगः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP