नक्षत्रजननशांतयः - अनिष्टग्रहदानसंकल्पः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


देशकालौ स्मृत्वा मम अमुकस्य वा जन्मराशेः सकाशात् अमुकानिष्टस्थानस्थितामुकग्रहोत्पन्नोत्पस्यमानसकलपीडापरिहारद्वारा
आयुरारोग्यावाप्त्यादि शुभफलप्राप्त्यर्थं अमुकग्रहप्रीत्यर्थं ब्राह्मणाय अमुकदानं करिष्ये । तदंगत्वेनादौ गणपतिपूजां ब्राह्मणपूजनं च करिष्ये इति संकल्प्य गणपतिं संपूज्य उदड्मुखं ब्राह्मणमुपवेश्य आसनाद्युपचारैः पूजयित्वा तदग्रे उपर्युक्तं प्रत्यक्षदानं तन्निष्क्रयीभूतद्रव्यं दानद्रव्यं वा निधाय विष्णो इदं अमुकदानं रक्षस्व ग्रहाणामादिरादित्यो० इत्यादींस्तत्तद्ग्रहमंत्रान् पठित्वा - विप्राय चेदविदुषे श्रोत्रियाय कुटुंबिने । नरकोत्तारणार्थाय ह्यच्युतः प्रीयतामिति ॥ एतत् अमुकदानं मम  जन्मराशेः सकाशात् अनिष्टस्थानस्थितामुकग्रहजनित सकलपीडापरिहारद्वारा ममायुरारोग्यावाप्त्यर्थं अमुकग्रहप्रीत्यर्थं अमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे न मम प्रतिगृह्यताम् । विप्रः - ‘ प्रतिगृह्णामि ’ इति वदेत् दानसांगतासिद्ध्यर्थं हिरण्यगर्भेति सुवर्णमयीं रौप्यमयीं वा दक्षिणां दद्यात् तेन श्री अमुकग्रहः प्रीयताम् । विप्रः - अमुकग्रहजनितसकलपीडापरिहारोऽस्तु । दाता - ‘ तथास्तु ’ इति वदेत् । एवमेव सर्वग्रहाणां  दानसंकल्पादि कर्तव्यम् । तथा ग्रहपीडापरिहारार्थं तत्तद्ग्रहमंत्रजपं कुर्यात् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP