तत्फलं सिंध्वादिग्रंथांतरतोऽवगंतव्यम् । उक्तकाले गोमुखप्रसवं कृत्वा कर्ता आचम्य देशकालौ संकीर्त्य ममास्य शिशोः ( कुमार्यावा ) मूलर्क्षामुकचरणजननसूचितपित्राद्यरिष्टशांतिद्वारा श्रीपरमेश्वरप्रीत्यर्थं सनवग्रहां मूलनक्षत्रजननशांतिं करिष्ये । तदंगतयाऽऽदौ गणेशपूजनं पुण्याहवाचनं मातृकापूजनंनांदीश्राद्धं आचार्यादिवरणं च करिष्ये इति संकल्प्य तानि कृत्वा आचार्यः देशकालौ स्मृत्वा अस्मिन् मूलजननशांत्याख्ये कर्मणि यजमानेन वृतोऽहं आचार्यकर्म करिष्ये इति संकल्प्य सर्षपविकिरणादि भूप्रादेशकरणांतं कुर्यात् । तत ईशान्यदेशे स्वस्तिकं विरच्य तत्र सर्वसस्याश्रया भूमिरित्यादिमंत्रैर्विधिना कलशं संस्थाप्य तत्र पूर्णपात्रं निधाय तस्य चतुर्दिक्षु चतुरः कुंभान् स्थापयित्वा पूर्णपात्रनिधानांतं कृत्वा प्रतिकलशं तत्स्थापनमंत्रावृत्तिः । ततो मध्यकुंभे सुवर्णनिर्मितां रुद्रप्रतिमां ‘ रुद्रो देवो वृषारुढश्चतुर्बाहुस्त्रिलोचनः । त्रिशूलखट्वावरदामयपाणिर्नमामिते ॥ इति मंत्रेण ‘ रुद्राय नमः रुद्रमावाहयामि ’ इत्यावाह्य पूजयेत् । तत एक ऋत्विक् मध्यमकुंभं स्पृष्ट्वा शिवमहिम्न एकादशिनीं जपेत् । अन्येषु चतुर्षु पूर्वादिक्रमेण इंद्राग्नि यमवरुणरक्षोघ्नमंत्राणां जपं कुर्युः । ते च मंत्राः - इंद्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः । शतयज्ञाधिपो देवस्तस्मै नित्यं नमोनमः ॥१। आग्नेयः पुरुषो रक्तः सर्वदेवमयोऽव्ययः । धूम्रकेतृ रजोध्यक्षस्तस्मै नित्यं नमोनमः ॥२। अग्ने त्वं नः शिवस्त्राता वसुदाता सदा भव । नमस्ते यज्ञपुरुष हुतभुग्घव्यवाहन ॥३। रक्षोहणं सुरवरं पायुं देवर्षिपूजितम् । सायुधं शक्तिसहितं वंदेऽरिष्टनिबर्हणम् ॥४। यद्वा पंचकुंभाभावे कुंभद्वयं
संस्थाप्य एकस्मिन् रुद्रमंत्रजपोऽन्यस्मिन् वरुणमावाह्य शांतिमंत्रजपः ततः पूर्वस्थापितकुंभोत्तरतश्चतुर्विंशतिदलपंकजंशुक्लतंडुलैर्विरच्य
कर्णिकायां विधिवत्कुंभं संस्थाप्य तस्मिन् गंधप्रक्षेपांते विष्णुक्रांतासहदेवीतुलसीशतावरीकुशान् कुंकुमं च प्रक्षिप्य पूर्णपात्रनिधानांतं कृत्वा तदुपरि वस्त्रेऽष्टदलं कृत्वा कर्णिकायां हैम्यां निऋतिप्रतिमायां - निऋतिं पाशहस्तं च सर्वलोकैकपावनम् । नरवाहनमत्युग्रं वंदेहं कालिकाप्रियम् । निऋतये नमः निऋतिं सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि । तद्दक्षिणे - ‘ इंद्रः सुरपतिः श्रेष्ठो वज्रहस्तो ’ इति मंत्रेणेंद्रमावाह्य । निऋत्युत्तरे - स्त्रीरुपाः पाशकलशहस्ता मकरवाहनाः । श्वेता मौक्तिकभूषाढ्या आपस्ताभ्यो नमोनमः । इति मंत्रेण अप आवाहयेत् । ततः प्रागादिचतुर्विंशतिषु भूमिस्थदलेषु उत्तराषाढाद्यनुराधांतानि नक्षत्राणि स्थापयेत् । तानि तु - उत्तराषाढायै
नमः उत्तराषाढामावाहयामि १, श्रवणाय०श्रवणमा० २, धनिष्ठायै०धनिष्ठामा० ३, शततारकायै०शततारकामा० ४, पूर्वाभाद्रपदायै०पूर्वाभाद्रपदामा० ५, उत्तराभाद्रपदायै०उत्तराभाद्रपदां० ६, रेवत्यै०रेवतीं० ७, अश्विन्यै०अश्विनीं० ८, भरण्यै०भरणीं० ९, कृत्तिकायै०कृत्तिकां० १०, रोहिण्यै०रोहिणीं० ११, मृगशीर्षाय०मृगशीर्षं० १२, आर्द्रायै०आर्द्रां० १३, पुनर्वसवे०पुनर्वसुं० १४, पुष्याय०पुष्यं० १५, आश्लेषायै०आश्लेषां० १६, मघायै०मघां० १७, पूर्वायै०पूर्वां० १८, उत्तरायै०उत्तरां० १९, हस्ताय०हस्तं० २०, चित्रायै०चित्रां० २१, स्वात्यै०स्वातीं० २२, विशाखायै०विशाखां० २३, अनुराधायै०अनुराधां० २४, इत्यावाह्य लोकपालांश्चावाह्य अद्येत्यदि० मूलर्क्षजननशांतिहोमं कर्तुं स्थंडिलादि कर्म करिष्ये इति संकल्प्य स्थंडिले वरदनामानमग्निं प्रतिष्ठाप्य तदीशान्यां ग्रहान् सं स्थाप्यान्वाधानं कुर्यात् समिदद्वयमादाय देशकालौ स्मृत्वा क्रियमाणे मूलर्क्षजननशांतिहोमे देवतापरिग्रहार्थमित्यादिचक्षुष्यंतमुक्त्वा अत्र प्रधानं - सूर्यादिनवग्रहान् प्रत्येकं प्रतिद्रव्यं अमुकसंख्याभिर्यथालाभमर्कादिसमित्तंडुलाज्याहुतिभिः अधिदेवताः प्रत्यधिदेवताश्च प्रत्येकं प्रतिद्रव्यं अमुकसंख्याभिः पूर्वोक्तद्रव्याहुतिभिः, विनायकादिदेवताः इंद्रादिलोकपालांश्च प्रत्येकं प्रतिद्रव्यं अमुकसंख्याभिः पूर्वोक्तद्रव्याहुतिभिः, निऋतिं प्रतिद्रव्यं अष्टोत्तरशताष्टाविंशत्यन्यतरसंख्याभिः घृतसंमिश्रदुग्धाक्ततंडुलसमिदाज्यतंडुलाहुतिभिः, इंद्रं अपश्च प्रत्येकं प्रतिद्रव्यं अष्टाविंशत्यष्टान्यतरसंख्याभिः पूर्वोक्तद्रव्याहुतिभिः, विश्वेदेवाद्याश्चतुर्विंशतिदेवताः प्रत्येकं अष्टचतुरन्यतरसंख्याभिर्दुग्धाक्ततंडुलाहुतिभिर्नाममंत्रैः, रक्षोहणं नाममंत्रेण अष्टोत्तरशतसंख्याभिस्तिलमिश्रतंडुलाहुतिभिः, सवितारं दुर्गां त्र्यंबकं कवीन् दुर्गां वास्तोष्पतिं अग्निं क्षेत्राधिपतिं मित्रावरुणौ अग्निं च नाम्ना प्रत्येकं अष्टाष्टसंख्याभिः सतिलमिश्रतंडुलाहुतिभिः, श्रियं नाममंत्रेण प्रतिद्रव्यं विंशत्युत्तरशतसंख्याभिः समिदाज्यतंडुलाहुतिभिः, सोमं त्रयोदशवारं नाममंत्रेण दुग्धाक्ततंडुलाहुतिभिः रुद्रं चतुर्गृहीतेनाज्येन, अग्निं वायुं सूर्यं प्रजापतिं च एकैकयाज्याहुत्या यक्ष्ये । शेषेण स्विष्टकृतमित्यादिपूर्णपात्रनिधानांतं कृत्वा निऋत्यादिदेवतापूजां कुर्यात् । तत्र वस्त्रयुग्मं रक्तचंदनं कृष्णसुरभीणि पुष्पाणि मेषशृंगस्यधूपः पुरुषाहारपरिमितं नैवेद्यं सैंधवमिश्रक्षीरं लवणयुक्तं दुग्धाक्ततंडुलान् एतावन्नैवेद्यं समर्प्य पूजां समापयेत् ततस्ते पवित्रे आज्यपात्रे निधायेत्याद्याज्यभागांतं कुर्यात् । ततो यजमानेन द्रव्यत्यागे कृते ऋत्विक् सहित आचार्यो यथाऽन्वाधानं ग्रहान् हुत्वा निऋतिं इंद्रं अपश्च तत्तन्मंत्रैर्द्रव्यचतुष्टयं हुत्वा रक्षोहणं कृसरेण हुत्वा सवित्रादीनग्नंताश्च कृसरेण हुत्वा श्रियं समिदाज्यतंदुलद्रव्यैर्हुत्वा सोमं दुग्धाक्ततंडुलद्रव्येण रुद्रं चतुर्गृहीताज्येन अग्निं वायुं सूर्यं प्रजापतिं चाज्येन हुत्वा स्विष्टकृदादिप्रायश्चित्तहोमांतं कृत्वा बलिदानं कुर्यात् । तद्यथा - अद्येत्यादि० कृतस्य मूलजननशांतिकर्मणः सांगतासिद्ध्यर्थं इंद्रादिदिक्पालप्रीत्यर्थं सूर्यादिनवग्रहप्रीत्यर्थं निऋत्याद्यावाहितदेवताप्रीत्यर्थं क्षेत्रपालप्रीत्यर्थं च बलिदानानि करिष्ये इति संकल्प्य ग्रहादिदेवताभ्यः सदीपमाषपिष्टबलीन् दद्यात् । तत आचार्यो यजमानान्वारब्धः पूर्णाहुतिं जुहुयात् ततः पूर्णपात्रनिनयनादिकर्मशेषं समाप्य रुद्रं निऋतिं च पंचोपचारैः संपूज्य सर्वकलशोदकैः सत्विंगाचार्यः परिहितनववस्त्रं सकुटुंबं सामात्यं सपुत्रं यजमानमभिषिंचेदेभिर्मंत्रैः - सुरास्त्वामभिषिचंत्वित्यादयः ग्रहाणामादिरादित्य इत्यादयश्च । योऽसौ वज्रधरो देवो महेंद्रो गजवाहनः । मूलजातशिशोर्दोषं मातापित्रोर्व्यपोहतु १ । योऽसौ शक्तिधरो देवो हुतभुड्भेषवाहनः । सप्तजिह्वश्च देवोऽग्निर्मूलदोषं व्यपोहतु २ । योऽसौ दंडधरो देवो धर्मो महिषवाहनः । मूलजातशिशोर्दोषं व्यपोहतु यमो मम ३ । योऽसौ खड्गधरो देवो निऋती राक्षसाधिपः । प्रशामयतु मूलोत्थं दोषं गंडांतसंभवम् ४ । योऽसौ पाशधरो देवो वरुणश्च जलेश्वरः । नक्रवाहः प्रचेतानो मूलोत्थाघं व्यपोहतु ५ । योऽसौ देवो जगत्प्राणो मारुतो मृगवाहनः । प्रशामयतु मूलोत्थं दोषं बालस्य शांतिदः ६ । योऽसौ निधिपतिर्देवो खड्गभृद्वाजिवाहनः । मातापित्रोः शिशोश्चैव मूलदोषं व्यपोहतु ७ । योऽसौ पशुपतिर्देवः पिनाकी वृषवाहनः । आश्लेषामूलगंडांतदोषमाशु व्यपोहतु ८ । विघ्नेशः क्षेत्रपो दुर्गा लोकपाला नवग्रहाः । सर्वदोषप्रशमनं सर्वे कुर्वंतु शांतिदाः ९ । एभिर्मंत्रैरभिषिंचेत् । एवं रुद्रनिऋतिकलशोदकेनान्येन च शतच्छिद्रमंतर्धायाभिषिक्तो यजमानो धौतवस्त्रे धृत्वा तिलकं कृत्वा अद्येत्यादि० कृतस्य मूलजननशांतिकर्मणः सांगतासिद्ध्यर्थं अग्निपूजनं देवतापूजनं आचार्यपूजनं च करिष्ये इति संकल्प्य अग्न्यादीन् संपूज्य आचार्याय धेनुं दत्त्वा ब्रह्मणे वृषभं रुद्रजापिके कृष्णमनडवाहं तत्तदभावे तन्निष्क्रयं वा दत्त्वाऽन्येभ्य ऋत्विग्भ्यो यथाशक्ति दक्षिणां भूयसीं च दत्त्वा निऋत्यादीनामुत्तरपूजां विधाय यांतुदेवेति विसृज्य आचार्याय पीठं दत्त्वाऽग्निं विसृज्य आमान्नैर्दशाधिकान् ब्राह्मणान् संतर्प्य ‘ मया कृतस्यैतन्मूलजननशांतिकर्मणः संपूर्णतास्त्विति भवंतो ब्रुवंतु ’ इति विप्रा वाचयेत् । ततो यस्य स्मृत्येति कर्मेश्वरार्पणं कृत्वा सुह्रद्युतो भुंजीत ॥ इति कृत्यदिवाकरे मध्यमांशौ मूलजननशांतिप्रयोगः ॥