नक्षत्रजननशांतयः - प्रकारांतरेण साधारणज्वरशांतिः
‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.
कर्ता सुस्नात आचम्य पवित्रं धृत्वा देशकालौ संकीर्त्य मम शरीरे उत्पन्नोत्पत्स्यमानकफवातपित्तसंभूतैकाहिकव्द्याहिकचातुर्थिकज्वरादिव्याधेः जीवच्छरीराविरोधेन समूलनाशार्थं सद्य आयुरोग्यावाप्त्यर्थं
तथा मम जन्मराशेः सकाशात् अनिष्टस्थानस्थितसूर्यादिसंभावितग्रहजनितसकलपीडापरिहारद्वारा सद्य एकादशस्थानस्थितशुभफलप्राप्त्यर्थं च श्रीपरमेश्वरप्रीत्यर्थं सग्रहमखां ज्वरशांतिं करिष्ये तदादौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं पुण्याहवाचनं मातृकापू० नांदीश्राद्धं आचार्यादिवरणं च करिष्ये इति संकल्प्य तान्याचार्यवरणांतानि कुर्यात् । तत आचार्यः कर्म संकल्प्य यदत्रेति सर्षपान् विकीर्य - शुचिरग्निः शुचिर्वायुः शुचिः सूर्यः शुचिर्विधुः । शुचिः कविः शुचर्गंगा कुर्वंत्येते स्थलं शुचि ॥ इति मंत्रेण पंचगव्येन प्रोक्ष्य अपवित्रः पवित्रो वेति शुद्धोदकेन प्रोक्ष्य प्रणतिमुद्रया तिष्ठन् एनोमुचंतार्क्ष्यमिति श्लोकं पठित्वा देवा आयांतु यातुधाना अपयांतु विष्णो देवयजनं रक्षस्वेत्युक्त्वा भूमौ प्रादेशं कुर्यात् । ततः शुचौ देशे द्रोणपरिमितव्रीहिभिस्तदर्धतंडुलैस्तदर्धतिलैः
स्थंडिलं कृत्वा तत्राष्टदलं विलिख्य तत्र नवमव्रणमकालं कुंभं स्थापयेत् । यथा - सर्वेषामाश्रया भूमिरिति भूमिं स्पृष्ट्वा यासामाप्यायकः सोम इति धान्यराशिं कृत्वा तत्र कलशस्य मुखे विष्णुरिति कलशं संस्थाप्य तस्मिन् गंगे च यमुने चैवेति शुद्धजलेन पूरयित्वा मलयाचलसंभूतमिति चंदनं प्रक्षिप्य कुष्ठं मांसी हरिद्रे द्वे० इति सर्वौषधीः त्वं दूर्वेऽमृतजन्मासि० इति दूर्वाः अश्वत्थोदुंबरप्लक्षेति पंचपल्लवान् गजाश्वरथ्या वल्मीकेति सप्तमृदः फलेन फलितं सर्वमिति पूगीफलं कनकं कुलिशमिति पंचरत्नानि हिरण्यगर्भेति हिरण्यं च निक्षिप्य कुंभं - सितं सूक्ष्मं सुखस्पर्शमीशानादेः प्रियं सदा । वासो हि सर्वदैवत्यं देहालंकरणं परम् ॥ इति वस्त्रेण संवेष्ट्य गंधाक्षतादिभिर्भूषयेत् । ततस्तदुपरि पूर्णपात्रमिदं दिव्यमिति पूर्णपात्रं निधाय तत्र कलशे वरुणमावाह्य संपूज्य कलशस्य मुखे विष्णुरिति सर्वे समुद्राः सरित इति देवदानवसंवादे इति च मंत्रैः प्रार्थयेत् । ततस्तदुपरि वस्त्रेऽष्टदलं विलिख्य तत्र सौवर्णीं ज्वरपतिरुद्रप्रतिमां स्थापयेदेवं - रुद्र ज्वरपते देव कुबेरास्य वृषध्वज । ज्वरमृत्युभयं घोरं नाशयैतन्नमोऽस्तु ते ॥ ज्वरपतिरुद्रेहागच्छेह तिष्ठ मम पूजां गृहाण वरदो भव ज्वरपतिरुद्राय नमः ज्वरपतिरुद्रं सांगं सपरिवारं सायुधं सशक्तिकमावाहयामि स्थापयामि इत्यावाह्य पूजामंत्रेण षोडशोपचारैः संपूज्य कुंभस्याधोभागे भस्म निधाय - विश्वेश्वरविरुपाक्ष विश्वरुप सदाशिव । शरणं भव भूतेश करुणाकर शंकर ॥१॥ हर शंभो महादेव विश्वेशामरवल्लभ ॥ शिवशंकर शर्वात्मन्नीलकंठ नमोस्तु ते ॥२॥ मृत्युंजयाय रुद्राय नीलकंठाय शंभवे । अमृतेशाय शर्वाय महादेवाय ते नमः ॥ एतानि शिवनामानि यः पठेन्नियतः सकृत् । नास्ति मुत्युभयं तस्य पापरोगादि किंचनेत्येतान् श्लोकान् पठेत् । ततः कुंभपश्चिमभागे स्थंडिले वरदनामानमग्निं प्रतिष्ठाप्य तदीशान्यां ग्रहान् प्रतिष्ठाप्य कलशं च संस्थाप्य तत्र वरुणमावाह्यान्वाधानं कुर्यात् । समिदद्वयमादाय देशकालौ स्मृत्वा क्रियमाणे सनवग्रहज्वरशांतिहोमे देवतापरिग्रहार्थमित्यादि चक्षुष्यंतमुक्त्वा अत्र प्रधानं - सूर्यादि नवग्रहान् प्रत्येकं प्रतिद्रव्यं यथालाभमर्कादिसमित्तंडुलाज्याहुतिभिः अमुकसंख्याभिः, अधिदेवताः प्रत्यधिदेवताश्च प्रत्येकं प्रतिद्रव्यं अमुकसंख्याभिः पूर्वोक्तद्रव्याहुतिभिः, विनायकादिदेवताः इंद्रादिलोकपालांश्च प्रत्येकं प्रतिद्रव्यं अमुकसंख्याभिः पूर्वोक्तद्रव्याहुतिभिः, ज्वरपतिरुद्रं अष्टोत्तरसहस्त्रसंख्याभिः क्षीराप्लुताम्रदलैः, तथा क्षीरघृततिलैः प्रतिद्रव्यं चतुर्दशसंख्याभिर्यक्ष्ये । शेषेण स्विष्टकृतमित्यादिपर्युक्षणांतं कृत्वा पात्रासादने तिलपात्रक्षीरपात्रप्रोक्षण्यः दर्वीस्रुवावित्यादि आज्यभागांतं कृत्वा प्रधानहोमं कुर्यात् । तत्रादौ यजमानो देवतोद्देशेन द्रव्यत्यागं कुर्यात् । ततो यथान्वाधानं ग्रहहोमं समाप्य ज्वरपतिरुद्राय क्षीराक्ताम्रदलैरावाहनमंत्रेणाष्टोत्तरसहस्रं हुत्वा तेनैव मंत्रेण क्षीरघृततिलैः प्रतिद्रव्यं चतुर्दशाहुतीर्हुत्वा
स्विष्टकृदादिप्रायश्चित्तहोमांतं कृत्वा अद्येत्यादिकर्म संकल्प्य इंद्रादिलोकपालेभ्यो ग्रहेभ्यो ज्वरपतिरुद्राय क्षेत्रपालाय च सदीपमाषपिष्टबलिदानं कृत्वा पूर्णाहुतिं जुहुयात् । सा यथा स्रुचि द्वादशवारं चतुर्वारं वाऽऽज्यं गृहीत्वा तदुपरि पुष्पफलतांबूलादि भद्रद्रव्यं निधाय स्रुक्स्रुवौ शंखमुद्रया गृहीत्वा तिष्ठन् समपाद ऋजुकायः प्रसन्नात्मा यजमानान्वारब्ध आचार्यो ग्रहमखोक्तमंत्रैः पूर्णाहुतिं हुत्वा अवशिष्टाज्यं हुत्वा संस्रावं च हुत्वा प्रणीताविमोकादि अग्निपूजनांतं कर्म सामाप्य स्थापितकलशद्वयोदकेन तत्स्थपल्लवैर्दूर्वादर्भयुतैर्यजमानमभिषिंचेत् । ततो यजमानः अद्येत्यादि० कृतस्य कर्मणः सांगतासिद्ध्यर्थं अग्निदेवताचार्यादीन् पूजयिष्ये इति संकल्प्य अग्निं संपूज्य । विभूतिं धृत्वा देवतानामुत्तरपूजां विधाय आचार्यं संपूज्य तस्मै दक्षिणां धेनुं दत्वान्यर्त्विग्भ्यो दक्षिणां दत्वा तेभ्यः श्रेयः संगृह्य विसर्जनपूर्वकं पीठं दत्त्वा कांस्यपात्रे आज्यमवलोक्य तत्पात्रं सदक्षिणं ब्राह्मणाय दत्त्वा कुंभसमीपस्थभस्मक्षालनं कुर्यात् । तत्र मंत्रः - रुद्र ज्वरपते देव कुबेरास्य त्रिलोचन । ज्वरमृत्युभयं घोरं नाशयैतन्नमोऽस्तु ते । इति मंत्रावृत्त्या सर्वं प्रक्षालयेत् । ततस्तर्पणं तदाचारात् दुग्धेनैव - ज्वरं तर्पयामि पित्तज्वरं त० शीतज्वरं त० उष्णज्वरं त० श्लेष्मज्वरं त० विषमज्वरं त० सन्निपातज्वरं त० अतिसारज्वरं० चातुर्थिकज्वरं० आमज्वरं० वातज्वरं० अस्थिज्वरं० शिरस्तोमज्वरं तर्प० मारीचज्वरं० प्रभाविकज्वरं० कालीज्वरं० ईश्वरीज्वरं० चामुंडीज्वरं० महाकालीज्वरं० वास्तोष्पतिज्वरं० । त्रिपाद्भस्मप्रहरणस्त्रिशिरा रक्तलोचनः । स मे प्रीतः सुखं दद्यात्सर्वामयपतिर्ज्वरः ॥ संततं सततं चैव ज्वरमुग्रं तथैव च । ऐकाहिकं व्द्याहिकं च तृतीयादिमथापि वा ॥ ज्वरो रोगपती राजा मृत्युरोगः सनातनः । क्रुद्धो रोगान् ज्वरो हन्याद्रुद्रो भुवनशोभनः ॥ इति मंत्रं पठित्वा ज्वरप्रतिमादाने मंत्रः - ज्वरस्वरुपी यो रुद्रः सुवर्णेन विनिर्मितः । सोपस्करो मया दत्तस्तेन रुद्रः प्रसीदतु ॥ आमान्नादिना
ब्राह्मणान्संतर्प्य यस्य स्मृत्येति कर्मेश्वरार्पणं कुर्यात् ॥ इति प्रकारांतरेण ज्वरशांतिः ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP